SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 434 त्र्यना एकादशान्ये च, द्वैधा दश दशेति च । चतुर्विंशं शतं सर्वे, पक्तिस्थायि विमानकाः ॥ २५१ ॥ वृत्तास्त्र्यसाश्चतुरस्रा, द्वितीयप्रतरे दश । प्रतिपङ्क्त्यत्र सर्वे च, विंशं शतमुदीरिताः ॥ २५२ ॥ तृतीये त्रिचतुःकोणा, दश वृत्ता नवेति च । सर्वे विमानाः पातेया, भवन्ति षोडशं शतम् ॥ २५३ ॥ वृत्ताश्च चतुरस्राश्च, तुर्ये नव नव स्मृताः । दश त्रिकोणाः सर्वे च, पातेया द्वादशं शतम् ॥ २५४ ॥ पञ्चमे च नव नव, त्रिचतु:कोणवृत्तकाः । अष्टोत्तरं शतं सर्वे, चात्र पङ्क्तिविमानकाः ॥ २५५ ॥ एवं पञ्चेन्द्रकक्षेपे, सर्वेऽत्र पङ्क्तिवृत्तकाः । विमानास्त्रिनवत्याढ्यं, शतं लान्तकताविषे ॥ २५६ ॥ पङ्क्तित्र्यप्राणां शते ढे, द्विनवत्यधिकं शतम् । स्यात्पङ्क्तिचतुरस्राणामेवं च सर्वसंख्यया ॥ २५७ ॥ पञ्चाशीत्याभ्यधिकानि, शतानि पञ्चपङ्क्तिगाः । सहस्राण्येकोनपञ्चाशच्चत्वारि शतानि च ॥ २५८ ॥ युक्तानि पञ्चदशभिरिह पुष्पावकीर्णकाः । विमानानां सहस्राणि, पञ्चाशत्सर्वसंख्यया ॥ २५९ ॥ विहायसि निरालम्बे, प्रतिष्ठितो घनोदधिः । घनवातोऽस्मिन्निहामी, स्युर्विमाना: प्रतिष्ठिताः ॥ २६० ॥ वर्णोच्चत्वादिमानं च, स्यादेषां ब्रहालोकवत् । देवास्त्वत्र शुक्लवर्णाः, शुक्ललेश्या महर्द्धिकाः ॥ २६१ ॥ इतःप्रभृति देवाः स्युः, सर्वेऽप्यनुत्तरावधि । शुक्ललेश्या शुक्लवर्णाः, किंतूत्कृष्टा यथोत्तरम् ॥ २६२ ॥ प्रथमप्रतरे तत्र, स्थितिज्येष्ठा सुधाभुजाम् । पञ्चभागीकृतस्याब्धेश्चत्वारोऽशा दशाब्धयः ॥ २६३ ॥ द्वितीयप्रतरे भागास्त्रय एकादशाब्धयः । द्वाभ्यां भागाभ्यां समेतास्तृतीये द्वादशाब्धयः ॥ २६४ ॥ चतुर्थे त्वेकभागाढ्यस्त्रयोदश पयोधयः । पञ्चमे प्रतरे पूर्णाश्चतुर्दशैव वार्द्धयः ॥ २६५ ॥ जघन्येन तु सर्वत्र, दशैव मकराकराः । स्वस्वस्थित्यनुसारेण, देहमानमथ ब्रुवे ॥ २६६ ॥ एकादशोद्भवैर्भागैश्चतुर्भिरधिकाः कराः । पञ्चदेहमानमत्र, दशरत्नाकरायुषाम् ॥ २६७ ॥ त्रिभागाढ्या: कराः पञ्चैकादशार्णवजीविनाम् । हस्ताः पञ्च लवौ द्वौ च, द्वादशाम्भोधिजीविनाम् ॥ २६८ ॥ सैकभागा: कराः पञ्च, त्रयोदशार्णवायुषाम् । चतुर्दशाब्धिस्थितीनां, पूर्णाः पञ्च करास्तनुः ॥ २६९ ॥ ईशानस्वर्वासिनीभिर्देवीभिर्विषयेच्छवः । चिन्तामात्रोपस्थिताभी, रमन्ते ब्रह्मादेववत् ॥२७० ॥ च्यवमानोत्पद्यमानसंख्या गत्यागती अपि । अवधिज्ञानविषयः, स्यादत्र ब्रहालोकवत् ॥ २७१ ॥ अत्रोत्पत्तिच्यवनयोरन्तरं परमं भवेत् । दिनानि पञ्चचत्वारिंशत् क्षणश्च जघन्यतः ॥ २७२ ॥ पञ्चमे प्रतरे चात्र, स्यालान्तकावतंसकः । अावतंसकादीनां, मध्ये ईशाननाकवत् ॥ २७३ ॥ लान्तकस्तत्र देवेन्द्रः, पुण्यसारो विराजते । सामानिकामरैः पञ्चाशता सेव्यः सहस्रकैः ॥ २७४ ॥ द्वाभ्यां देवसहस्राभ्यां, सेव्योऽभ्यन्तरपर्षदि । मध्यमायां चतुर्भिस्तैः, षड्भिश्च बाह्यपर्षदि ॥ २७५ ॥ सप्तषट्पञ्चभिः पल्योपमैः समधिका स्थितिः । द्वादशैवाम्बुनिधयस्तिसृणां पर्षदां क्रमात् ॥ २७६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy