SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ 433 विज्ञा विज्ञपयन्त्येवं, जय नन्द जगद्गुरो ! । त्रैलोक्यबंधो ! भगवन् !, धर्मतीर्थं प्रवर्त्तय ॥ २३५ ॥ यदेतत्सर्वलोकानां, सर्वलोके भविष्यति । मुक्तिराजपथीभूतं, निःश्रेयसकरं परम् ॥ २३६ ॥ इह सारस्वतादित्यद्धये समुदितेऽपि हि । सप्त देवाः सप्त देवशतानि स्यात्परिच्छदः ॥ २३७ ॥ एवं वहिवरुणयोः, परिवारश्चतुर्दश । देवास्तथाऽन्यानि देवसहस्राणि चतुर्दश ॥ २३८ ॥ गईतोयतुषितयोर्द्धयोः संगतयोरपि । सप्त देवाः सप्त देवसहस्राणि परिच्छदः ॥ २३९ ॥ अव्याबाधाग्नेयरिष्टदेवानां च सुरा नव । शतानि नव देवानां, परिवारः प्रकीर्तितः ॥ २४०॥ अव्याबाधाश्चैषु देवाः, पुरुषस्याक्षिपक्ष्मणि । दिव्यं द्वात्रिंशत्प्रकारं, प्रादुष्कुर्वन्ति ताण्डवम् ॥ २४१ ॥ तथापि पुरुषस्यास्य, बाधा काऽपि न जायते । एवंरुपा शक्तिरेषां, पञ्चमाङ्गे प्रकीर्तिता ॥ २४२ ॥ भ० १४,८। लोकान्तिकविमानेषु, देवानामष्ट वार्द्धयः । स्थितिरुक्ता जिनैरेते, पुण्यात्मानः शुभाशयाः ॥ २४३ ॥ एकावतारा: सिद्ध्यन्ति, भवे भाविनि निश्चितम् । अष्टावतारा अप्येते, निरूपिता मतान्तरे ॥ २४४ ॥ तन्मतद्वयं चैवं - लोकान्ते - लोकाग्रलक्षणे सिद्धिस्थाने भवा लौकान्तिकाः, भाविनि भूतवदुपचारन्यायेन एवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवर्तिनः, लोकान्ते भावित्वं तेषामनन्तरभवे एव सिद्धिगमना” दिति स्थानाङ्गवृत्तौ ९ स्थानके । ___ “श्रीब्रहालोके प्रतरे तृतीये, लोकान्तिकास्तत्र वसन्ति देवाः । एकावताराः परमायुरष्टौ, भवन्ति तेषामपि सागराणि इति श्रेणिकचरित्रे ।" “अटेव सागराइं परमाउं होइ सव्वदेवाणं । एगावयारिणो खलु देवा लोगतिया नेया इति प्रवचनसारोद्धारे, तत्त्वार्थटीकायामपि-लोकान्ते भवा लोकान्तिकाः अत्र प्रस्तुतत्वाद्बहालोक एव परिगृह्यते, तदन्तनिवासिनो लोकान्तिकाः, सर्वब्रहालोकदेवानां लोकान्तिकप्रसङ्ग इति चेन्न, लोकान्तोपश्लेषात्, जरामरणादिज्वालाकीर्णो वा लोकस्तदन्तवर्तित्वाल्लोकान्तिकाः कर्मक्षयाभ्यासीभावाच्चेति, लब्धिस्तोत्रे तु- सवठ्ठचुआ चउकयआहारगुवसमजिणगणहराई । निअमेण तब्भवसिवा सत्तट्ठभवेहिं लोगंती” ॥ अथोष ब्रहालोकस्य, समपक्षं समानदिक् । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ २४५ ॥ विभाति लान्तकः स्वर्गः, पञ्चप्रतरशोभितः । प्रतिप्रतरमेकैकेनेन्द्रकेण विराजितः ॥ २४६ ॥ प्रथमप्रतरे तत्र, बलभद्राख्यमिन्द्रकम् । चक्रं गदा स्वस्तिकं च, नन्द्यावर्त्तमिति क्रमात् ॥ २४७ ॥ प्रतिप्रतरमेतेभ्यः, पङ्क्तयोऽपि चतुर्दिशम् । प्राग्वदन विना प्राची, प्रोक्ताः पुष्पावकीर्णकाः ॥ २४८ ॥ एकत्रिंशदथ त्रिंशदेकोनत्रिंशदेव च । तथाऽष्टाविंशतिः सप्तविंशतिश्च यथाक्रमम् ॥ २४९ ॥ पञ्चस्वेषु प्रतरेषु, प्रतिपङ्क्ति विमानकाः । एकैकस्यामथो पङ्क्तौ, प्रथमप्रतरे स्मृताः ॥ २५० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy