SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 432 अत्राम्भोदवृष्टिविद्युद्गर्जितादि च पूर्ववत् । परं तद्देवजनितं, न नागासुरकर्तृकम् ॥ २११ ॥ असुरनागकुमाराणां तत्र गमनासंभवादिति भगवतीवृत्तौ ॥ कृष्णराजी मेघराजी, मघा माघवतीति च । स्यादातपरिघो वातप्रतिक्षोभस्तथैव च ॥ २१२ ।। स्याद्देवपरिघो देवप्रतिक्षोभोऽपि नामत: । आसां नामान्यष्ट तेषामन्वर्थोऽथ विभाव्यते ॥ २१३ ॥ कृष्णपुद्गलराजीति, कृष्णराजीयमुच्यते । कृष्णाब्दरेखातुल्यत्वान्मेघराजीति च स्मृता ॥ २१४ ॥ मघाया माघवत्याच, सवर्णेत्याख्यया तथा । वातोऽत्र वात्या तद्वद्या, तमिस्रा भीषणापि च ॥ २१५ ॥ ततोऽसौ वातपरिघस्तत्प्रतिक्षोभ इत्यपि । स्याद्देवपरिघो देवप्रतिक्षोभश्च पूर्ववत् ॥ २१६ ।। अथासां कृष्णराजीनामन्तरेषु किलाष्टसु । लोकान्तिकविमानानि, निर्दिष्टान्यष्ट पारगैः ॥ २१७ ॥ तत्राभ्यन्तरयोः प्राच्योदीच्ययोरन्तरे तयोः । विमानमच्चि: प्रथम, चकास्ति प्रचुरप्रभम् ॥ २१८ ॥ अन्तरे प्राच्ययोरेव, बाह्याभ्यन्तरयोरथ । द्वितीयमर्चिालीति, विमानं परिकीर्तितम् ॥ २१९ ॥ तृतीयमभ्यन्तरयोरन्तरे प्राच्ययाम्ययोः । वैरोचनाभिधं प्रोक्तं, विमानं मानवोत्तमैः ॥ २२० । बाह्याभ्यन्तरयोरेवान्तरेऽथ दाक्षिणात्ययोः । प्रभङ्कराभिधं तुर्य, विमानमुदितं जिनैः ॥ २२१ ॥ अभ्यन्तरदाक्षिणात्यप्रतीच्ययोरथान्तरे । विमानमुक्तं चन्द्राभं, पञ्चमं परमेष्ठिभिः ॥ २२२ ॥ स्यात्प्रतीचीनयोरेवं, बाह्याभ्यन्तरयोस्तयोः । विमानमन्तरे षष्ठं, सूर्याभमिति नामतः ॥ २२३ ॥ पश्चिमोदीच्ययोरभ्यन्तरयोरन्तरेऽथ च । विमानमुक्तं शुक्राभं, सप्तमं जिनसत्तमैः ॥ २२४ ॥ बाह्याभ्यन्तरयोरौत्तराहयोरन्तरेऽथ च । विमानं सुप्रतिष्ठाभमष्टमं परिकीर्तितम् ॥ २२५ ॥ सर्वासां कृष्णराजीनां, मध्यभागे तु तीर्थपैः । विमानं नवमं रिष्टाभिधानमिह वर्णितम् ॥ २२६ ॥ ब्रहालोकान्तभावित्वाल्लोकांतिकान्यमून्यथ । लोकान्तिकानां देवानां, संबन्धीनि ततस्तथा ॥ २२७ ॥ नवाप्येते विमानाः स्युर्घनवायुप्रतिष्ठिताः । वर्णादिभिश्च पूर्वोक्तब्रहालोकविमानवत् ॥ २२८ ॥ संस्थानं नैकधाऽमीषामपाक्तेयतया खलु । एभ्यो लोकान्त: सहनैोजनानामसंख्यकैः ॥ २२९ ॥ एतेष्वथ विमानेषु, निवसन्ति यथाक्रमम् । सारस्वतास्तथाऽऽदित्या, वहयो वरुणा अपि ॥ २३० ॥ गर्दतोयाश्च तुषिता, अव्याबाधास्तथाऽपरे । आग्नेया अथ रिष्टाश्च, लोकान्तिकसुधाभुजः ॥ २३१ ॥ अत्राग्नेया: संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते । स्वत एवावबुद्धानामनुत्तरचिदात्मनाम् । विज्ञाय दीक्षावसरं, दित्सूनां दानमाब्दिकम् ॥ २३२ ॥ प्रव्रज्यासमयादर्वाक्, संवत्सरेण तत्क्षणम् । श्रीमतामर्हतां पादान्तिकमेत्य तथास्थितेः ॥ २३३ ॥ विमानयानादुत्तीर्य, सोत्साहा: सपरिच्छदा: । सारस्वतप्रभृतयः, सर्व लोकान्तिका: सुराः ॥ २३४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy