________________
431
तथा नात्र तमस्काये, देशग्रामपुरादिकम् । नाप्यत्र चन्द्रचण्डांशुग्रहनक्षत्रतारकाः ॥ १८५ ॥ येऽप्यत्रासन्नचन्द्रार्ककिरणास्तेऽपि तामसैः । मलीमसा असत्प्राया, दुर्जने सद्गुणा इव ॥ १८६ ॥ अत एवातिकृष्णोऽयमगाधश्च भयङ्करः । रौद्रातिरेकात्पुलकोद्भेदमालोकित: सृजेत् ॥ १८७ ॥ आस्तामन्यः सुरोऽप्येनं, पश्यन्नादौ प्रकम्पते । ततः स्वस्थीभूय शीघ्रगतिरेनमतिव्रजेत् ॥ १८८ ॥ तम चैव तमस्कायोऽन्धकार: स महादिकः । लोकान्धकार: स्याल्लोकतमिनं देवपूर्वकाः ॥ १८९ ॥ अन्धकारस्तमिदं चारण्यं च व्यूह एव च । परिघश्च ११ प्रतिक्षोभो १२ ऽरुणोदो वारिधिस्तथा १३ ॥ १९० ॥ त्रयोदशास्य नामानि, कथितानि जिनैः श्रुते । तत्र लोकेऽद्वितीयत्वाल्लोकान्धकार उच्यते ॥ १९१ ॥ न हि प्रकाशो देवानामप्यत्र प्रथते मनाक् । देवान्धकारोऽयं देवतमिस्रं च तदुच्यते ॥ १९२ ॥ बलवद्देवभयतो, नश्यतां नाकिनामपि । अरण्यवच्छरण्योऽयं, देवारण्यं तदुच्यते ॥ १९३ ॥ दुर्भेदत्वायूह इव, प्रतिक्षोभो भयावहः । गतिं रुन्धन परिघवत्, देवव्यूहादिरुच्यते ॥ १९४ ॥ अरुणोदाम्भोधिजलविकारत्वात्तथाभिधः । एवमन्वर्थता नाम्नामन्येषामपि भाव्यताम् ॥ १९५ ॥ यत्र रिष्टप्रस्तटेऽयं, तमस्कायश्च निष्ठितः । तस्येन्द्रकविमानस्य, रिष्टाख्यस्य चतुर्दिशम् ॥ १९६ ॥ जीवपुद्गलसत्पृथ्वीपरिणामस्वरूपिके । ढे द्वे च कृष्णराज्यौ स्तो, जात्याअनघनद्युती ॥ १९७ ॥ तथाहि दिशि पूर्वस्यां, द्वे दक्षिणोत्तरायते । पूर्वपश्चिमविस्तीर्ण, कृष्णराज्यौ प्रकीर्तिते ॥ १९८ ॥ स्यातामपाच्यामप्येवं, ते द्वे पूर्वापरायते । दक्षिणोत्तरविस्तीर्णे, कृष्णराज्यौ यथोदिते ॥ १९९ ॥ प्रतीच्यामपि पूर्वावत्ते दक्षिणोत्तरायते । उदीच्यां च दक्षिणावत्ते द्वे पूर्वापरायते ॥ २०० ॥ प्राच्या प्रतीच्यां या बाह्या, षट्कोणा सा भवेत्किल । दक्षिणस्यामुदीच्यां च, बाह्या या सा त्रिकोणिका
॥ २०१ ॥ अभ्यन्तरश्चतुःकोणाः, सर्वा अप्येवमासु च । द्धे षट्कोणे हे त्रिकोणे, चतनश्चतुरस्रिकाः ॥ २०२ ॥ पौरस्त्याभ्यन्तस तत्र, कृष्णराजी स्पृशत्यसौ । निजान्तेन कृष्णराजी, दाक्षिणात्यां बहिःस्थिताम् ॥ २०३ ॥ दक्षिणाभ्यन्तरा चैवं, बाह्यां पश्चिमदिग्गताम् । एवं बाह्यामौत्तराहां, पश्चिमाभ्यन्तरा स्पृशेत् ॥ २०४ ॥ उदीच्याभ्यन्तरा बाह्यां, प्राचीनिष्ठां स्पृशत्यत: । अष्टापि कृष्णराज्य: स्युरक्षपाटकसंस्थिताः ॥ २०५ ॥ स्यादासनविशेषो यः, प्रेक्षास्थाने निषेदुषाम् । स चाक्षपाटकस्तद्धदासां संस्थानमीरितम् ॥ २०६ ॥ एता विष्कम्भतोऽष्टापि, संख्येययोजनात्मिका: । परिक्षेपायामतश्चासंख्येययोजनात्मिकाः ॥ २०७ ॥ तमस्कायमानयोग्य:, सुरो यः प्राग् निरूपितः । स एव च तया गत्या, मासाद्धैन व्यतिव्रजेत् ॥ २०८ ॥ काञ्चिदत्र कृष्णराजी, काञ्चिन्नैव व्यतिव्रजेत् । महत्त्वामासामित्येवं, वर्णयन्ति बहुश्रुताः ॥ २०९ ॥ तमस्कायवदत्रापि, गृहग्रामाद्यसंभवः । नाप्यत्र चन्द्रसूर्याद्या, न तेषां किरणा अपि ॥ २१० ॥