________________
430
तथाह्यतिक्रम्य तिर्यग्, जम्बूद्धीपादितः परम् । दीपाम्बुधीनसंख्येयान्, द्वीपोऽरुणवरः स्थितः ॥ १६२ ॥ स्थानद्विगुणविस्तीर्णतया सोऽसंख्यविस्तृतः । द्विगुणेनायमरुणवरेण वेष्टितोऽब्धिना ॥ १६३ ॥ अथ द्वीपस्यास्य बाह्यवेदिकान्तप्रदेशतः । अवगाह्यारुणवरनामधेयं पयोनिधिम् ॥ १६४ ॥ योजनानां सहस्रान् द्वाचत्वारिंशतमत्र च । जलोपरितलादूर्ध्वमप्कायविकृतीर्महान् ॥ १६५ ॥ तमस्कायो महाघोरान्धकाररूप उद्गतः । परितोऽब्धिमिमं रुन्धन्, वलयाकृतिनाऽऽत्मना ॥ १६६ ॥ स्थिराकेन्दुकरक्लिष्टैः, संभूय तिमिरैरिव । रचितः स्वनिवासाय, भीमदुर्गो महाम्भसि ॥ १६७ ॥ योजनानां सप्तदश, शतान्यथैकविंशतिम् । यावदूर्ध्वं समभित्त्याकार एवायमुद्गतः ॥ १६८ ॥ ततश्च विस्तरंस्तिर्यक्क्रमादसंख्यविस्तृतिः । निक्षिप्य कुक्षौ चतुरः, सौधर्मादीस्त्रिविष्टपान् ॥ १६९ ॥ ततोऽप्यूषं ब्रहालोके, तृतीयप्रस्तटावधि । उद्गत्य निष्ठितः श्रान्त, इवाविश्रममुत्पतन् ॥ १७० ॥ अधश्चायं समभित्त्याकारत्वादलयाकृतिः । शरावबुलं तुलयत्यूचं कुर्कुटपञ्जरम् ॥ १७१ ॥ आदेरारभ्योर्ध्वमयं, संख्येययोजनावधिं । संख्येयानि योजनानि, विस्तारत: प्रकीर्तितः ॥ १७२ ॥ ततः परमसंख्येययोजनान्येष विस्तृतः । परिक्षेपेण सर्वत्राप्येषोऽसंख्येययोजनः ॥ १७३ ॥ यद्यप्यधस्तमस्काय:, संख्येयविस्तृतिः स्वयम् । तथाप्यस्य कुक्षिगतासंख्यद्धीपपयोनिधेः ॥ १७४ ॥ परिक्षेपस्त्वसंख्येययोजनात्मैव संभवेत् । क्षेत्रस्यासंख्यमानस्य, परिक्षेपो ह्यसंख्यकः ॥ १७५ ॥ अन्तर्बाह्यपरिक्षेपविशेषस्त्विह नोदितः । उभयोरपि तुल्यरूपतयाऽसंख्येयमाततः ॥ १७६ ॥ इत्यमस्य महीयस्तामाहुः सिद्धान्तपारगाः । महर्टिकः कोऽपि देवो, यो जम्बूद्धीपमञ्जसा ॥ १७७ ॥ तिसृणां चप्पुटिकानां, मध्य एवैकविंशतिम् । वारान् प्रदक्षिणीकृत्यागच्छेद्गत्या ययाऽथ सः ॥ १७८ ॥ तयैव गत्या क्वाचित्कं, तमस्कायं व्यतिव्रजेत् । मासैः षड्भिरपि क्वाचित्कं तु नैव व्यतिव्रजेत् ॥ १७९ ॥ तत्र संख्येयविस्तार, व्यतिव्रजेन्न चापरम् । एवं महीयसि तमस्कायेऽथाब्दा: सविद्युतः ॥ १८० ॥ प्रादुर्भवन्ति वर्षन्ति, गर्जन्ति विद्युतोऽपि च । द्योतन्ते विलसद्देवासुरनागविनिर्मिताः ॥ १८१ ॥
तथाहुः-“अत्थि णं भंते ! तमुक्काए उराला बलाहया संसेयंति संमुच्छंति वासं वासंति
वा ? हंता अत्थि इत्यादि भगवतीसूत्रे ६-५ ।” यद्यप्यत्र नरक्षेत्राबहिर्नाङ्गीकृतं श्रुते । घनगर्जितवृष्ट्यादि, तथापि स्यात्सुरोद्भवम् ॥ १८२ ॥ यथा नराः स्वभावेन, लडितुं मानुषोत्तरम् । नेशा विद्यालब्धिदेवानुभावाल्लङ्घयन्त्यपि ॥ १८३ ॥ अत्रोक्ता विद्युतो याश्च, भास्वरास्तेऽपि पुद्गलाः । दिव्यानुभावजा ज्ञेया, बादराग्नेरभावतः ॥ १८४ ॥
तथाहुः-"इह न बादरास्तेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमानत्वात्, किंतु देवप्रभावजनिता भास्वराः पुद्गला” इति भगवतीवृत्तौ ।