SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 428 जम्बूद्धीपान् सातिरेकान्, चतुरश्च विकुर्वितैः । रूपैर्भर्तुं क्षमस्तिर्यगसंख्यद्रीपवारिधीन् ॥ ११० ॥ विमानावासलक्षाणामिहाष्टानामधीश्वरः । देवानां भूयसामेवं, माहेन्द्रस्वर्गवासिनाम् ॥ १११ ॥ ईशानोऽसौ विजयते, दिव्यनाटकदत्तहत् । माहेन्द्रेन्द्रः सातिरेकसप्तसागरजीवितः ॥ ११२ ॥ अस्य यानविमानं च, श्रीवत्साख्यं प्रकीर्तितम् । श्रीवत्सनामा देवश्च, नियुक्तस्तद्धिकुर्वणे ॥ ११३॥ सनत्कुमारमाहेन्द्रस्वर्गाभ्यामूर्ध्वमुल्लसन् । असंख्यकोटाकोटीनां, योजनानामतिक्रमे ॥ ११४ ॥ सनत्कुमारमाहेन्द्रोपरिस्थित: समानदिक् । ब्रहालोकाभिधः स्वगो, भाति पूर्णेन्दुसंस्थितः ॥ ११५ ॥ षडत्र प्रतराः प्राग्वत्प्रतिप्रतरमिन्द्रकम् । अञ्जनं वरमालं च, रिष्टं च देवसंज्ञकम् ॥११६ ॥ सोमं च मङ्गलं चैव, क्रमादेभ्यश्चतुर्दिशम् । विमानपङ्क्तयः प्राग्वत्तत्र पुष्पावकीर्णकाः ॥ ११७ ॥ सप्तषट्पञ्चयुक्त्रिंशत्, चतुस्त्रिद्ध्यधिका च सा । प्रतिपङ्क्ति विमानाः स्युः, प्रतरेषु क्रमादिह ॥ ११८ ॥ प्रथमप्रतरे तत्र, प्रतिपङ्क्ति विमानका: । त्रयोदश त्रिकोणाः स्युर्दादश द्वादशापरे ॥ ११९ ॥ अष्टचत्वारिंशमेवं, पाङ्क्तेयानां शतं मतम् । वैधा अपि द्वितीयेऽस्मिन्, द्वादश द्वादशोदिताः ॥ १२० ॥ सर्वे शतं चतुश्चत्वारिंशं चाथ तृतीयके । वृत्ता एकादश द्वैधा, द्वादश द्वादशापरे ॥ १२१ ॥ चत्वारिंशं शतं सवे, प्रतरेऽथ तुरीयके । वृत्ता द्वादश किञ्चैकादश त्रिचतुरस्रकाः ॥ १२२ ॥ सर्वे शतं च षट्त्रिंशं, पञ्चमे प्रतरे पुन: । एकादशमितास्त्रैधा, द्वात्रिंशं च शतं समे ॥ १२३ ॥ षष्ठेऽथ प्रतरे वृत्ताः, प्रतिपङ्क्ते दशापरे । द्विधाप्येकादश पृथगष्टाविंशं शतं समे ॥ १२४ ॥ चतुःसप्ततियुक्ते दे, शते च पङ्क्तिवृत्तकाः । भवन्त्येवमिन्द्रकाणां, षण्णां संयोजनादिह ॥ १२५ ॥ पङ्क्तित्र्यनाश्च चतुरशीतियुक्तं शतद्वयम् । द्धे शते पङ्क्तिचतुरस्रका: षट्सप्ततिस्पृशी ॥ १२६ ॥ चतुस्त्रिंशाष्टशत्येवं, पाङ्क्तेया: सर्वसंख्यया । निर्दिष्टाः पञ्चमस्वर्ग, पञ्चमज्ञानचारुभिः ॥ १२७ ॥ लक्षास्तिस्रः सदस्राणां, नवतिश्च नवाधिका । शतमेकं सषट्षष्टिस्त्र पुष्पावकीर्णकाः ॥ १२८ ॥ विमानानां च लक्षाणि, चत्वारि सर्वसंख्यया । निर्दिष्टा ब्रहालोकेऽमी, घनवाते प्रतिष्ठिताः ॥ १२९॥ प्रासादानामुच्चतैषु, शतानि सप्त निश्चितम् । पृथ्वीपिण्डो योजनानां, शतानि पञ्चविंशतिः ॥ १३० ॥ भवन्ति वर्णतश्चामी, शुक्लपीतारुणप्रभाः । ज्ञेयं शेषमशेषं तु, स्वरूपमुक्तया दिशा ॥ १३१ ॥ उत्पद्यन्तेऽमीषु देवतया सुकृतशालिन: । कृतार्हदर्चनाः प्राग्वद्दिव्यसौख्यानि भुञ्जते ॥ १३२ ॥ मधुकपुष्पवर्णाङ्गाः, प्रभाप्राग्भारभासुराः । छागचिहाढ्यमुकुटाः, पद्मलेश्याञ्चिताशयाः ॥ १३३ ॥ तथाह जीवाभिगमः- 'बंभलोगलंतगा देवा अल्लमहूयपुष्फवन्नाभा' यत्तु संग्रहण्यां-एते पद्मकेसरगौरा उक्ताः “तत्पक्वमधुकपुष्पपद्मकेसरयोर्वर्ण न विशेष” इति तवृत्ताविति ध्येयं । जघन्यतोऽप्यमी सप्तसागरस्थितयः सुराः । उत्कर्षत: पुन: पूर्णदशाम्भोनिधिजीविनः ॥ १३४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy