SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ 425 त्रिकोणानां सर्वसंख्या, षट्पञ्चाशं शतत्रयम् । चतुष्कोणानां तथाष्टचत्वारिंशं शतत्रयम् ॥ ३१ ॥ षड्विंशा द्वादशशती, पाङ्क्तेयानां भवेदिह । लक्षाण्येकादशैवाष्टनवतिश्च सहस्रकाः ॥ ३२ ॥ सचतुःसप्ततिः सप्तशती पुष्पावकीर्णका: । एवं द्वादश लक्षाणि, तृतीयस्य सुरेशितुः ॥ ३३ ॥ तुर्य वृत्तविमानानां, सप्तत्याऽभ्यधिकं शतम् । षट्पञ्चाशत्समधिकं, त्रिकोणानां शतत्रयम् ॥ ३४ ॥ चतुष्कोणानां तथाष्टचत्वारिंशं शतत्रयम् । शतान्यष्ट चतुःसप्तत्याढ्यानि सर्वसंख्यया ॥ ३५ ॥ सप्त लक्षाण्यथ नवनवतिश्च सहस्रका: । षड्विंशं च शतं पुष्पावकीर्णा इह निश्चिताः ॥ ३६ ॥ एषां योगेऽष्टलक्षाणि, माहेन्द्रस्य सुरेशितुः । विमानानीशितव्यानि, भाव्यानि भव्यधीधनैः ॥ ३७ ॥ अमी विमाना: सर्वेऽपि, घनवातप्रतिष्ठिता: । श्यामं विना चतुर्वर्णा, मणिरत्नविनिर्मिताः ॥ ३८ ॥ घनवातोऽतिनिचितो, निश्चलो वातसंचय: । जगत्स्वाभाव्यतस्तत्र, विमाना: शश्वदास्थिताः ॥ ३९ ॥ षड्विंशतिः शतान्येषु, पृथ्वीपिण्डो निरूपितः । शतानि षड् योजनानां, प्रासादाः स्युरिहोच्छ्रिताः ॥ ४०॥ सौधर्मशाननिष्ठानां, विमानानामपेक्षया । अत्युत्कृष्टवर्णगन्धरसस्पर्शा अमी मताः ॥ ४१ ॥ सौधर्मशानवच्छेषं, स्वरूपं भाव्यतामिह । विष्कम्भायामपरिधिमानं तु प्राक् प्रदर्शितम् ॥ ४२ ॥ अर्थतेषु विमानेषु, पूर्वपुण्यानुसारतः । उत्पद्यन्ते सुरास्तत्र, रीतिस्तु प्राक् प्रपञ्चिता ॥४३॥ पद्मकेसरवद्गौरास्तेऽथ सर्वाङ्गभूषणाः । वराहचिह्नमुकुटाः, सनत्कु मारनाकिनः ॥ ४४ ॥ सिंहचिहधारिचारुकिरीटरम्यमौलयः । देवा विशिष्टद्युतयो, माहेन्द्रस्वर्गवासिनः ॥ ४५ ॥ जघन्यतोऽपि पाथोधिद्धितयस्थितय: सुराः । सनत्कुमारेऽथोत्कर्षात्, सप्तसागरजीविनः ॥ ४६॥ माहेन्द्रे तु जघन्येन, साधिकाब्धिद्धयायुषः । उत्कर्षतः पुनः सातिरेकसप्तार्णवायुषः ॥४७॥ एकस्य सागरस्यांशाः, कल्प्यन्ते द्वादशेदृशाः । स्वर्गयोरेतयोर्भागा, ज्ञेयाः स्थितिनिरूपणे ॥ ४८ ॥ प्रथमप्रतरे तत्रोत्कृष्टा जलनिधिद्धयम् । स्थितिः पञ्चलवोपेतं, द्वितीयप्रतरे पुनः ॥४९॥ दशभागाधिकं वार्द्धिद्वयं स्थितिगरीयसी । त्रिभिर्भागः समधिकास्तृतीये सागरास्त्रयः ॥ ५० ॥ चतुर्थे प्रतरे साष्टभागं वारांनिधित्रयम् । पञ्चमे सैकभागं च, वारांनिधिचतुष्टयम् ॥ ५१ ॥ षड्भागाभ्यधिकं षष्ठे, तदेव सप्तमे पुनः । न्यूनमेकेन भागेन, सागरोपमपञ्चकम् ॥ ५२ ॥ एतदेव चतुर्भागाभ्यधिकं प्रतरेऽष्टमे । नवमे नवभागाढ्यमेतत्पयोधिपञ्चकम् ॥ ५३॥ साधिका दशमे द्वाभ्यां, भागाभ्यां षट् पयोधयः । एकादशेऽप्येत एव, साधिका: सप्तभिर्लवैः ॥ ५४॥ प्रतरे द्वादशे चात्र, देवानां परमा स्थितिः । अर्णवा: सप्त सर्वत्र, जघन्या त्वम्बुधिद्धयम् ॥ ५५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy