SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 424 1 १२ ॥ संस्थानमर्द्धचन्द्राभं, प्रत्येकमनयोर्भवेत् । उभौ पुनः समुदितौ, पूर्णचन्द्राकृती मतौ ॥ ४ ॥ तत्रापि सौधर्मस्योर्ध्वं समपक्षं समानदिक् । सनत्कुमार ईशानस्योर्ध्वं माहेन्द्र एव च ॥ ५ ॥ प्रतरा द्वादश प्राग्वद्, द्वयोः संगतयोरिह । प्रतिप्रतरमेकैकं भवेद्धिमानमिन्द्रकम् ।। ६ । वैडूर्यं रुचकं चैव, रुचिकं च ततः परम् । अङ्कं च स्फटिकं चैव, तपनीयाख्यमेव च ॥ ७ ॥ मेघ मर्ध्यं च हारिद्रं नलिनं लोहिताक्षकम् । वज्रं चेति प्रतरेषु, द्वादशस्विन्द्रकाः क्रमात् ॥ ८ ॥ चतस्रः पङ्क्तयो दिक्षु, प्रतिप्रतरमिन्द्रकात् । अन्तरेषु विना प्राचीं, प्राग्वत्पुष्पावकीर्णकाः ॥ ९ ॥ एकोनपञ्चाशदष्टसप्तषट्पञ्चकाधिका । चतुस्त्रियेकाधिका च चत्वारिंशत्ततः परं ।। १० ।। चत्वारिंशदथैकोनचत्वारिंशद्धिमानकाः । अष्टात्रिंशत्प्रतिपङ्क्ति, प्रतरेषु क्रमादिह ॥ ११ ॥ प्रथमप्रतरे सप्तदश त्र्यस्रा विमानकाः । प्रतिपङ्क्ति चतुष्कोणा, वृत्ताः षोडश षोडश ॥ सर्वे पङ्क्तिविमानाश्च षण्णवत्यधिकं शतम् । द्वितीयप्रतरे त्रैधा, अपि षोडश षोडश ॥ १३ ॥ सर्वे च ते संकलिता, द्विनवत्यधिकं शतम् । तार्त्तीयीके प्रतिपङ्क्ति, वृत्ताः पञ्चदशोदिताः ॥ १४ ॥ षोडश त्रिचतुष्कोणाः, सर्वेऽष्टाशीतियुक् शतम् । तुर्ये त्र्यसा षोडशान्ये, द्वैधाः पञ्चदशाखिलाः ।। १५ ।। शतं चतुरशीत्याढ्यं पञ्चमे प्रतरे पुनः । त्रैधा अपि पञ्चदश, सर्वेऽशीत्यधिकं शतम् ॥ १६ ॥ पञ्चदश पञ्चदश, षष्ठे त्रिचतुरस्रकाः । वृत्ताश्चतुर्दशैवं च षट्सप्ततियुतं शतम् ॥ १७ ॥ सप्तमे प्रतरे त्र्यस्राः प्रोक्ताः पञ्चदशोत्तमैः । वृत्ताश्च चतुरस्त्राश्च चतुर्दश चतुर्दश ॥ १८ ॥ द्विसप्तत्या समधिकं, शतं सर्वेऽष्टमे पुनः । चतुर्दशैव त्रेधापि, सर्वेऽष्टषष्ठियुक् शतम् ॥ १९ ॥ नवमे त्रिचतुष्कोणांश्चतुर्दश चतुर्दश । वृत्तास्त्रयोदशैवं च चतुःषष्टियुतं शतम् ॥ २० ॥ त्र्यस्राश्चतुर्दशान्ये च द्वैधा अपि त्रयोदश । षष्ट्याधिकं शतं सर्वे, दशमे प्रतरे पुनः ॥ २१ ॥ एकादशे त्रिधाप्येते, त्रयोदश त्रयोदश । सर्वे पुनः संकलिताः, षट्पञ्चाशद्युतं शतम् ॥ २२ ॥ द्वादशे त्रिचतुष्कोणास्त्रयोदश त्रयोदश । वृत्ताश्च द्वादशैवं च द्विपञ्चाशं शतं समे ॥ २३ ॥ एवं च पङ्क्ति वृत्तानां, साशीतिरिह षट्शती । पङ्क्तित्र्यस्राणां च सप्त, शतानि द्वादशोपरि ॥ २४ ॥ स्यात्पङ्क्तिचतुरस्राणां सषण्णवतिषट्शति । द्वादशानामिन्द्रकाणां क्षेपेऽत्र सर्वसंख्यया ॥ २५ ॥ पाङ्क्तेयानि विमानानि स्युः शतान्येकविंशतिः । भवन्त्यन्यानि पुष्पावकीर्णानि तानि संख्यया ॥ २६ ॥ सहस्राः सप्तनवतिर्लक्षाण्येकोनविंशतिः । शतानि नव सर्वाग्राद्धिमानलक्षविंशतिः ॥ २७ ॥ तत्र द्वादश लक्षाणि, सनत्कुमारचक्रिणः । लक्षाण्यष्ट विमानानां माहेन्द्राधीश्वरस्य च ॥ २८ ॥ सनत्कुमारमाहेन्द्रसुरेन्द्रयोः पृथक् पृथक् । सौधर्मेशानवद्वृत्तादिषु स्वामित्वमुह्यताम् ॥ २९ ॥ संख्या सनत्कुमारेऽथ, वृत्तानां पङ्क्तिवर्त्तिनाम् । द्वाविंशत्यधिका पञ्चशती प्राच्यैर्निरूपिता ॥ ३० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy