________________
423
सोऽपि ताभ्यां स्मर्यमाणो, विज्ञायावधिना द्रुतम् । तत्रागत्य न्याय्यकार्यमाज्ञाप्य शमयेत्कलिम् ॥ ९२८ ॥ ततः सनत्कुमारेन्द्रबोधितौ त्यक्तविग्रहौ । तदाज्ञां बिभ्रतो मौलौ, तौ मिथ: प्रीतमानसौ ॥ ९२९ ॥
___ तथाहुः-'अत्थिणं भंते ! सक्कीसाणाणं देविंदाणं देवराईणं विवादा समुप्पज्जंति, ? हंता
अत्थीत्यादि' भगवतीसूत्रे श. ३, उ. १ । कदाचिच्च तथा क्रुद्धौ, युद्धसज्जौ परस्परम् । सामानिकादयो देवा, उभयोरपि संमताः ॥ ९३० ।। अर्हदंष्ट्राक्षालनाम्बुसेकात्तौ गतमत्सरौ । निर्माय निर्मायतया, बोधयन्ति नयस्थितिम् ॥ ९३१ ॥ पश्यतातितमां रागद्वेषयोर्दुर्विलङ्घताम् । यदेताभ्यां विडम्ब्येते, तादृशावप्यधीश्वरौ ॥ ९३२ ॥ एवमीशानदेवेन्द्रोऽनुभवन्नपि वैभवम् । अर्हन्तमर्हद्धर्मं च, चित्तान्न त्यजति क्षणम् ॥ ९३३ ॥ उत्तरार्द्धजिनेन्द्राणां, कल्याणकेषु पञ्चसु । करोत्यग्रेसरीभूय, सहोत्साहं महोत्सवान् ॥ ९३४ ॥ जिनेन्द्रपादान् भजते, भरतैरवतादिषु । नन्दीश्वरे च प्रत्यब्द, करोत्यष्टाहिकोत्सवान् ॥ ९३५ ॥ असकृच्चाहतां भावपूजामपि करोति सः । अष्टोत्तरं नटनटीशतं विकृत्य नर्तयन् ॥ ९३६ ॥ देवपर्षत्समक्षं च, चमत्कारातिरेकतः । प्रशंसति नरस्यापि, धर्मदाादिकं गुणम् ॥ ९३७ ॥ आराध्यानेकधा धर्म, सम्यक्त्वाद्येवमुत्तमम् । समाप्यायुः सातिरेकं सागरोपमयोर्द्धयम् ॥ ९३८ ॥ इतश्च्युत्वेशानराजो, महाविदेहभूमिषु । उत्पद्य प्राप्तचारित्रो, भावी मुक्तिवधूधवः ॥ ९३९ ॥
___इत्थं मया पृथुसुखौ प्रथमद्वितीयौ, स्वर्गावनर्गलशुभाचरणाधिगम्यौ । साधीश्वरौ श्रुतवतां वचनानुसाराव्यावर्णितौ विभवशालिसुरालिपूर्णौ । ॥९४० ।। विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्वाजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, । षड्विंशो मधुरः समाप्तिमगमत्सर्गो निसर्गाज्ज्वल:
॥९४१॥ इति श्रीलोकप्रकाशे षड्विंशः सर्गः समाप्तः ॥
॥ अथ सप्तविंशतितमः सर्गः ॥ सौधर्मेशाननामानावुक्तौ स्वर्गों सभर्तृकौ । स्वरूपमुच्यते किञ्चित्तृतीयतुर्ययोरथ ॥१॥ सौधर्मशाननाकाभ्यां, दूरमूर्ध्वं व्यवस्थितौ । योजनानामसंख्येयकोटाकोटिव्यतिक्रमे ॥ २ ॥ सनत्कुमारमाहेन्द्रौ, स्वर्गौ निसर्गसुन्दरौ । सौधर्मशानवदिमावप्येकवलयस्थितौ ॥३॥