________________
419
एवं वर्षसहस्राणि, षष्ठिं तपोऽतिदुष्करम् । कुर्वन् क्रशीयान्निराँसो, व्यक्तस्नायुशिरोऽभवत् ॥ ८३९ ॥ ततश्चिन्तयति स्मैष, यावदस्ति तनौ मम । शक्तिस्तावदनशनं, कृत्वा स्वार्थं समर्थये ॥ ८४०॥ ध्यायन्नेवं ताम्रलिप्त्यां, गार्हस्थ्यव्रतसंगतान् । आपृच्छय लोकानेकान्ते, त्यक्त्वा पतद्ग्रहादिकम् ॥ ८४१ ॥ ऐशान्यां मण्डलं पुर्या, आलिख्यानशनं दधौ । पादपोपगमं मृत्युमनाकांक्षश्च तिष्ठति ॥ ८४२ ॥ तदा च बलिचञ्चाऽऽसीद्राजधानीन्द्रवर्जिता । तत्रत्याश्चासुरा देवदेव्यो निरीक्ष्य तामलिम् ॥ ८४३ ॥ इन्द्रार्थिनः समुदितास्तत्रैत्येति व्यजिज्ञपन् । क्लिश्यामहे वयं स्वामिनि था विधवा इव ॥ ८४४ ॥ इन्द्राधीना स्थिति: सर्वा, सीदत्यस्माकमित्यतः । कृत्वा निदानमधिपा, यूयमेव भवन्तु नः ॥ ८४५ ॥ इत्यादि निगदन्तस्ते, स्थित्वा तामलिसंमुखम् । नानानाट्यादिदिव्यर्द्धि, दर्शयन्ति मुहूर्मुहुः ॥ ८४६ ॥ देवाङ्गना अपि प्राणप्रिय प्रेमदृशैकशः । त्यक्त्वा कठिनतां कान्त ! निभालय निभालय ॥ ८४७ ॥ मनाग् मनोऽस्मासु कुर्यास्तपस्विन्नधुना यदि । भवेम तव किंकर्यस्तपःक्रीत्यो भवावधि ॥ ८४८ ॥ तामलिस्तु तद्धचोभिर्मरुद्भिरिव भूधरः । निश्चलस्तस्थिवांस्तूष्णी, ततस्तेऽगुर्यथास्पदम् ॥ ८४९ ॥ ईशानेऽपि तदा देवाश्च्युतनाथास्तदर्थिनः । इन्द्रोपपातशय्यायामसकृद्ददते दृशम् ॥ ८५० ॥ षष्ठिं वर्षसहस्राणि, कृत्वा बालतपोऽद्भुतम् । मासयुग्ममनशनं, धृत्वा मृत्वा समाधिना ॥ ८५१ ॥ तत्रोपपातशय्यायां, तस्मिन् काले स तामलि: । ईशानेन्द्रतयोत्पन्नो, यावत्पर्याप्तिभागभूत् ॥ ८५२ ॥ बलिचञ्चासुरास्तावद्, ज्ञात्वैतत्कुपिता भृशम् । तामलेर्यत्र मृतकं, तत्रागत्यातिरोषत: ॥ ८५३ ॥ शुम्बेन बद्ध्वा वामांहिं, निष्ठीवन्तो मुखेऽसकृत् । ताम्रलिप्त्यां भ्रमयन्तो, मृतकं तत्त्रिकादिषु ॥ ८५४ ॥ एवमुद्घोषयामासुस्तामलिस्तापसाधमः । धूर्तो मूर्तो दम्भ इव, पश्यतैवं विडम्ब्यते ॥ ८५५ ॥ ईशानेन्द्रतयोत्पन्नोऽप्यसौ नः किं करिष्यति ? । पुरतोऽस्माकमीशान:, किमसौ तापसब्रुवः ? ॥ ८५६ ॥ असुरैः क्रियमाणां स्वस्वामिदेहकदर्थनाम् । दृष्ट्वेशानसुरा रुष्टाः, स्वामिने तदजिज्ञपन् ॥ ८५७ ॥ ईशानेन्द्रोऽप्युपपातशय्यावस्थित एव ताम् । बलिचञ्चाराजधानी, दृशाऽपश्यत्सरोषया ॥ ८५८ ।। तस्य दिव्यप्रभावेण, बलिचञ्चाभितोऽभवत् । कीर्णाङ्गारेव तप्तायःशिलामयीव दुस्सहा ॥ ८५९ ॥ असुरास्तेऽथ दवथुव्यथार्ताः स्थातुमक्षमाः । मीना इव स्थले दीनाः, कृच्छ्रात्कण्ठगतासवः ॥ ८६०॥ इतस्ततः प्रधावन्तः, कान्दिशीका: सुरेश्वरम् । संभूय क्षमयामासुरष्टाङ्गस्पृष्टभूतला: ॥ ८६१ ॥ स्वामिन्नज्ञानतोस्माभिरपराद्धोऽसि दुर्दृशैः । नैवं पुन: करिष्यामः, क्षमस्व स्मस्तवानुगाः ॥ ८६२ ॥ पुनः पुनर्विलपतो, दृष्ट्वैतान् करुणस्वरम् । तां शक्तिं संजहारेन्द्रो, दयास्तेऽप्यधुः सुखम् ॥ ८६३ ॥ एवं तामलिना बालतपसेन्द्रत्वमर्जितम् । सम्यक्त्वैकावतारत्वे, प्राप्य तीर्णा भवार्णवः ॥ ८६४ ॥