________________
418
द्वितीयश्चक्रिणः क्षेत्रेऽखिलेऽपि भरतादिके । तृतीयो मण्डलेशस्य, स च तन्मण्डलावधिः ॥ ८१५ ॥ तुरीयस्तु गृहपतेः, स च तद्गृहलक्षणः । पञ्चम: सार्मिकस्य, पञ्चक्रोशावधि: स च ॥ ८१६ ॥
तथोक्तं भगवतीवृत्तौ १६ शतक २ उद्देशके-“साहम्मिउग्गहे'त्ति समानेन धर्मेण चरन्तीति साधर्मिका:- साध्वपेक्षया साधवः एतेषामवग्रहः-तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रं, ऋतुबद्धे
मासमेकं, वर्षासु चतुरो मासान् यावदिति साधर्मिकावग्रहः ।” आस्पदस्वामिनामेषां, पञ्चानामप्यवग्रहम् । याचन्ते साधवस्तेषामपि पुण्यमनुज्ञया ॥ ८१७ ॥ श्रुत्वेति मुदितस्वान्तः, शचीकान्तः प्रभुं नमन् । ऊचे येऽस्मिन्मम क्षेत्रे, विहरन्ति मुनीश्वराः ॥ ८१८ ॥ तेषामवग्रहमहमनुजानामि भावतः । इत्युक्त्वाऽस्मिन् गते स्वर्ग, प्रभुं पप्रच्छ गौतमः ॥ ८१९ ॥ सत्यवादी सत्यमाह, शक्रोऽयमथवाऽन्यथा । जिनेनापि तदा सत्यवादीत्येष प्रशंसितः ॥ ८२० ॥ एवं योऽनेकधा धर्ममाराध्येत: स्थितिक्षये । विदेहेषूत्पद्य चैकावतारो मुक्तिमाप्स्यति ॥ ८२१ ॥ अस्मिंश्च्युते च स्थानेऽस्य, पुनरुत्पत्स्यतेऽपरः । एवमन्येऽपि शक्राद्या, यथास्थानं सुरासुराः ॥ ८२२ ॥ ईशानदेवलोकस्य, प्रतरेऽथ त्रयोदशे । मेरोरुत्तरतः पञ्च, स्युर्विमानावतंसकाः ॥ ८२३ ॥ अङ्कावतंसकं प्राच्यां, विमानमस्ति शस्तभम् । दक्षिणस्यां स्फटिकावतंसकाख्यं निरूपितम् ॥ ८२४ ॥ अपरस्यां तथा रत्नावतंसकमिति स्मृतम् । उत्तरस्यां जातरूपावतंसकाभिधं भवेत् ॥ ८२५ ॥ मध्ये चैषामथेशानावतंसकाभिधं महत् । विमानं मानतः सौधर्मावतंसकसन्निभम् ॥ ८२६ ॥ तत्रोपपातशय्यायामुपपातसभास्पृशि । ईशानेन्द्रतया प्रौढपुण्य उत्पद्यतेऽसुमान् ॥ ८२७ ॥ साम्प्रतीनस्त्वसौ जम्बूद्धीपे क्षेत्रे च भारते । ताम्रलिप्त्यां पुरि मौर्यपुत्रोऽभूत्तामलिर्धनी ॥ ८२८ ॥ स चैकदा रात्रिशेषे, जाग्रच्चित्ते व्यचिन्तयत् । नन्वियं यन्मया लब्धा, समृद्धिः सर्वतोमुखी ॥ ८२९॥ तत्प्राच्यप्राज्यपुण्यानां, फलमत्र न संशयः । प्रागेव संचितं भुजे, हन्त नूनमनर्जयम् ॥ ८३० ॥ क्षीणेऽस्मिन् किं करिष्ये, तद्भवान्तरसुखावहम् । किञ्चित्पुण्यमर्जयामि, गार्हस्थ्ये तु भवेन्न तत् ॥ ८३१ ॥ विचिन्त्येति विचारज्ञः, प्रातः प्रीत्या कुटुम्बकम् । आकार्य ज्ञातिमित्रादीनुपचर्याशनादिभिः ॥ ८३२ ॥ कुटुम्बभारमारोप्य, ज्येष्ठपुत्रे विरक्तहत् । तानापृच्छय दारुमयं, गृहीत्वैकं पतद्ग्रहम् ॥ ८३३ ॥ प्राणामया प्रवव्राज, प्रव्रज्ययाऽथ तत्र स: । यत्र यं प्राणिनं पश्येदाकाकमासुरेश्वरम् ॥ ८३४ ॥ तत्र तं प्रणमन् षष्ठतपा आतापनामपि । कुर्वाणो भान्वभिमुखः, षष्ठस्य पारणादिने ॥ ८३५ ॥ आतापनाभुवः प्रत्युत्तीर्य पुर्यां कुलान्यटन् । उच्चनीचमध्यमानि, भिक्षार्थमपराहके ॥ ८३६ ॥ नादत्ते सूपशाकादि, किंतु केवलमोदनैः । पूर्णे पतद्ग्रहे भिक्षाचर्याया: स निवर्त्तते ॥ ८३७ ॥ एकविंशतिकृत्वस्तं, प्रक्षाल्यौदनमम्बुभिः । तादृग्नीरसमाहार्य, षष्ठं करोत्यनन्तरम् ॥ ८३८ ॥