________________
417
क्रयाश्च विक्रयाश्चैव, चिरंतनरत्नसंचयाः । प्रहीणस्वामिकादीनि, निधानानि च भूतले ॥ ७९० ॥ नेत्याद्यविदितं जम्बूद्वीपयाम्यार्द्धगोचरम् । धनदस्य विभोर्यद्धा, नाकिनां तन्निषेविणाम् ॥७९१ ।। पूर्णमाणिशालिभद्राः, सुमनोभद्र इत्यपि । चक्ररक्षः पुण्यरक्षः, शर्वाणश्च ततः परम् ॥ ७९२ ॥ सर्वयशाः सर्वकामः, समृद्धोऽमोघ इत्यपि । असङ्गश्चापत्यसमा, एते वैश्रमणेशितुः ॥ ७९३ ॥ असौ कृत्वोत्तुङगेहां, स्वर्णप्राकारशोभिताम् । प्रददावादिदेवाय, विनीतां स्व:पतेगिरा ॥७९४ ॥ कृष्णाय द्वारिकामेवं, कृत्वा शक्राज्ञया ददौ । जिनजन्मादिषु स्वर्ण, रत्नौधैश्चाभिवर्षति ॥ ७९५ ॥ समृद्धश्च वदान्यश्च, लोकेऽनेनोपमीयते । सिद्धान्तेऽपि दानशूरतया गणधरैः स्मृतः ॥ ७९६ ॥ तथाहुः–“खमासूरा अरिहंता, तवसूरा अणगारा । दाणसूरा वेसमणा, जुद्धसूरा वासुदेवाः” ॥ एष वैश्रमणः पूर्णपल्योपमद्यस्थितिः । सुखान्यनुभवत्युग्रपुण्यप्राग्भारभासुरः ॥७९७ ॥ तथोक्तं—“सोमजमाणं सतिभाग, पलिय वरुणस्स दुन्नि देसूणा । वेसमणे दो पलिआ, एस ठिई लोगपालाणं" ॥
[बृहत्संग्रहणी गा. १८] चतुर्णामप्यमीषां येऽपत्यप्रायाः सुधाभुजः । ते पल्यजीविनः सर्वे, विना शशिदिवाकरौ ॥ ७९८ ॥ एवं सामानिकैस्त्रायस्त्रिंशपार्षदमन्त्रिभिः । पत्नीभिलोकपालैश्च, सैन्यैः सेनाधिपैः सुरैः ॥७९९ ॥ अन्यैरपि घनैर्देवीदेवैः सौधर्मवासिभिः । सेवितो दक्षिणार्द्धस्य, लोकस्य परमेश्वरः ॥ ८०० ॥ यथास्थानं परिहितमौलिमालाद्यलकृतिः । शरत्काल इव स्वच्छाम्बरोकेन्द्रच्छकुण्डलः ॥ ८०१ ॥ पूर्णसागरयुग्मायुरास्ते स्वैरं सुखाम्बुधौ । मग्नो भग्नश्रमः स्वःस्त्रीनाट्यनादप्रमोदितः ॥ ८०२ ॥ आश्चर्यमीदृगैश्वर्यव्यासक्तोऽप्यन्तरान्तरा । जम्बूद्वीपमवधिना निरीक्षते महामनाः ॥ ८०३ ॥ संघे चतुर्विधे तादृग्गुणवन्तं प्रशंसति । सुराणां पर्षदि चमत्कारचञ्चलकुण्डलः ॥ ८०४ ॥ दशैं दशैं जिनांश्चायमुत्सृष्टासनपादुकः । पञ्चाङ्गस्पृष्टभूपीठः, स्तौति शक्रस्तवादिभिः ॥ ८०५ ॥ छाद्मस्थ्ये वर्द्धमानं यः, प्रौढभक्तिर्व्यजिज्ञपत् । द्वादशाब्दी तव स्वामिन् !, वैयावृत्त्यं करोम्यहम् ॥ ८०६ ॥ प्रत्युक्तश्च भगवता, नेदमिन्द्र ! भवेत् क्वचित् । यदर्हन्निन्द्रसाहाय्यात्, कोऽपि कैवल्यमाप्नुयात् ॥ ८०७ ॥ यो दशाणैशबोधाय, ऋद्धिं विकृत्य तादृशीम् । नत्वाऽर्हन्तं नृपमपि, क्षमयामास संयतम् ॥ ८०८ ॥ ब्राहाणीभूय यः कल्किनृपं हत्वा तदङ्गजम् । दत्तं राज्येऽभिषिच्याहच्छासनं भासयिष्यति ॥ ८०९ ॥ जिनोपसर्गे य: सङ्गमकामरकृते स्वयम् । निषिद्धय नाटकाद्युग्रं, षण्मासान् शोकमन्वभूत् ॥ ८१०॥ भ्रष्टप्रतिशं तं निर्वासयामास त्रिविष्टपात् । क्षणं मुमोच योऽर्हन्तं, न चित्तात्परमार्हतः ॥ ८११ ॥ यः पालकविमानाधिरुढो राजगृहे पुरे । श्रीवीरं समवसृतं, वन्दित्वेति व्यजिज्ञपत् ॥ ८१२ ॥ अवग्रहाः कति विभो !, भगवानाह पञ्च ते । स्वामिना स्वीक्रियते यस्सोऽवग्रह इति स्मृतः ॥ ८१३ ॥ देवेन्द्रावग्रहस्तत्र, प्रथमः स्यात्स चेन्द्रयोः । सौधर्मशानयोर्लोकदक्षिणार्होत्तरार्द्धयोः ॥ ८१४ ॥