SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 416 कासश्वासाजीर्णपाण्डुशूलार्श:प्रमुखा रुजः । देशग्रामवंशमारिगोत्रप्राणिधनक्षयाः ॥ ७६६ ॥ इत्यादयो महोत्पाता, येऽनार्याः कष्टकारिणः । यमस्य तत्सेविनां वा, नाविज्ञाता भवन्ति ते ॥७६७ ॥ अम्बादयो ये पूर्वोक्ताः, परमाधार्मिका: सुराः । भवन्त्यपत्यस्थानीया: यमराजस्य ते प्रिया: ॥ ७६८ ॥ अत एव मृत: प्राणी, यमदूतैर्यमान्तिकम् । नीयते क्लृप्तमित्यादि, लोकैस्तत्त्वानपेक्षिभिः ॥ ७६९ ॥ ___ तथाहुः- “महिषो वाहनं तस्य, दक्षिणा दिग् रविः पिता । दण्डः प्रहरणं तस्य, धूमोर्णातस्य वल्लभा ॥पुरी पुन: संयमिनी, प्रतीहारस्तु वैध्यत: । दासौ चण्डमहाचण्डौ, चित्रगुप्तस्तु लेखक: ॥ इत्यादि । तृतीयभागाभ्यधिकपल्योपमस्थितिर्यमः । महाराजः सुखं भुङ्क्ते, दिव्यस्त्रीवर्गसंगतः ॥७७० ॥ प्रतीच्यामथ सौधर्मावतंसकविमानतः । स्वयंज्वलाभिधं स्फूर्जद्धिमानमुक्तमानवत् ॥ ७७१ ॥ वरुणस्तत्र तरुणप्रतापाको विराजते । सामानिकादयो येऽस्य, येऽप्येषामनुजीविनः ॥७७२ ॥ स्तनितोदधिनागाख्याः, कुमारास्तत्स्त्रियोऽपि च । अन्येऽपि तादृशाः सर्वे, वरुणाज्ञानुसारिणः ॥ ७७३ ॥ जम्बूद्धीपदक्षिणार्डे, सन्मन्दाल्पातिवृष्टयः । तटाकादिजलभरा, जलोद्भेदा जलोद्रहाः ॥ ७७४ ॥ देशग्रामादिवाहाश्च, जलोद्भूता जनक्षयाः । नाज्ञाता वरुणस्यैते, सर्व तत्सेविनामपि ॥७७५ ॥ अयं पाथ:पतिरिति, विख्यातः स्थूलदर्शिनाम् । पश्चिमाशापति: पाशपाणिर्जलधिमन्दिरः ॥७७६ ॥ कर्कोटकः कर्दमकोऽञ्जनश्च शङ्खपालकः । पुण्ड्र: पलाशमोदश्च, जयो दधिमुखस्तथा ॥७७७ ॥ अयंपुल: काकरिकः, सर्वेऽप्येते सुधाभुजः । वरुणस्याधीश्वरस्य, भवन्त्यपत्यवत्प्रियाः ॥ ७७८ ॥ अनुवेलन्धरं नागावास: कर्कोटकाचल: । ऐशान्यां लवणाब्धौ तत्स्वामी कर्कोटक: सुरः ॥ ७७९ ॥ विद्युत्प्रभाद्रिराग्नेय्यां, तस्य कर्दमकः पतिः । अञ्जनस्तु लोकपालो, वेलंबस्य सुरेशितुः ॥ ७८० ॥ धरणेन्द्रलोकपालस्तुर्योऽत्र शङ्गपालकः । पुंड्राद्यास्तु सुराः शेषा, न प्रतीता विशेषतः ॥ ७८१ ॥ देशोनपल्यद्धितयस्थितिरेष मनोरमान् । वरुणाख्यो महाराजो, भुङ्क्ते भोगाननेकधा ॥ ७८२ ॥ उदीच्यामथ सौधर्मावतंसकादतिक्रमे । असंख्येययोजनानां, विमानं वल्गुनामकम् ॥ ७८३ ॥ देवस्तत्र वैश्रमणो, विभाति सपरिच्छदः । य: सौधर्मसुरेन्द्रस्य, कोशाध्यक्ष इति श्रुतः ॥ ७८४ ॥ अस्य सामानिकाद्या ये, तेषां भृत्याश्च ये सुराः । सुपर्णद्वीपदिग्नागकुमारा व्यन्तरा अपि ॥ ७८५ ॥ सर्वेऽप्येते सदेवीका, ये चान्येऽपि तथाविधाः । भवन्ति ते वैश्रमणानुशासनवशीकृताः ॥ ७८६ ॥ सीसकायस्त्रपुताम्ररैरत्नरजताकराः । वज्राकरा वसुधाराः, स्वर्णरत्नादिवृष्टयः ॥७८७ ॥ पत्रपुष्पबीजफलमाल्यचूर्णादिवृष्टयः । वस्त्राभरणसद्गन्धभाजनक्षीरवृष्टयः ॥७८८ ॥ तथा सुकालदुष्कालौ, वस्त्वल्पार्घमहार्यताः । सुभिक्षदुर्भिक्षगुडघृतधान्यादिसंग्रहाः ॥ ७८९॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy