________________
सामानिकानामेतस्य, त्रायस्त्रिंशकनाकिनाम् । कर्तुं वैक्रियरूपाणि, शक्तिरेवं प्ररूपिता ॥ ७१८ ॥ लोकपालाग्रपत्नीनामपि वैक्रियगोचरा । तुल्यैव शक्तिस्तिर्यक् तु, संख्येया दीपवार्द्धयः ॥ ७१९ ॥ शक्तेर्विषय एवायं, न त्वेवं कोऽपि कर्हिचित् । चक्रे विकुर्वणां नो वा, करोति न करिष्यति ॥ ७२० ॥ शक्रस्याग्रमहिष्यस्तु, भवन्त्यष्टौ गुणोत्तमाः । रूपलावण्यशालिन्यः, प्रोक्तास्ता नामतस्त्विमाः ॥ ७२१ ॥ पद्मा शिवा शच्यथातरमलाख्या तथाऽप्सराः । ततो नवमिका रोहिण्यभिधा स्यादिहाष्टमी ॥ ७२२ ॥ साम्प्रतीनामासां पूर्वभवस्त्वेवंढे श्रावस्तीनिवासिन्यौ, हस्तिनागपुरालये । ढे ढे काम्पिल्यपुरगे, वे साकेतपुरालये ॥ ७२३ ॥ एता: पद्माख्यपितृका, विजयाभिधमातृकाः । बृहत्कुमार्योऽष्टाप्यात्तप्रव्रज्या: पार्श्वसन्निधौ ॥ ७२४ ॥ पुष्पचूलार्यिकाशिष्याः, पक्षं संलिख्य सुव्रताः । मृत्वोत्पन्ना विमानेषु, पद्मावतंसकादिषु ॥ ७२५ ॥ जाताः शक्रमहिष्योऽष्टौ, सप्तपल्योपमायुषः । सिंहासनेषु क्रीडन्ति, पद्माख्यादिषु सोत्सवम् ॥ ७२६ ॥ एकैकस्यास्तथैतस्याः, परिवारे सुराङ्गनाः । स्वतुल्यरूपालङ्काराः, सहस्राण्येव षोडश ॥ ७२७ ॥ षोडशैताः सहस्राणि, विकुर्वन्ति नवा अपि । एवं च सपरीवाराः, पन्यो भवन्ति वज्रिणः ॥ ७२८ ॥ अष्टाविंशत्या सहस्रैरधिकं लक्षमेव ताः । भुङ्क्ते तावन्ति रूपाणि, कृत्वेन्द्रोऽप्येकहेलया ॥ ७२९ ॥
तथाहुः- 'सक्कस्स णं भंते ! देविंदस्स पुच्छा. अज्जो ! अट्ठ अग्गमहिसीओ प०' इत्यादि
भगवतीसूत्रे १०-५ । यदा शक्रः सहैताभिः, कामक्रीडां चिकीर्षति । चारुचक्राकारमेकं, तदा स्थानं विकुर्वयेत् ॥ ७३० ॥ पञ्चवर्णतृणमणिरमणीयमहीतलम् । व्यासायामपरिक्षेपैर्जम्बूद्धीपोपमं च तत् ॥ ७३१ ॥ मध्यदेशेऽस्य रचयत्येकं प्रासादशेखरम् । योजनानां पञ्च शतान्युच्चं तदर्द्धविस्तृतम् ॥ ७३२ ॥ तस्य प्रासादस्य नानामणिरत्नमयी मही । ऊर्श्वभागोऽप्यस्य पद्मलतादिभक्तिशोभितः ॥ ७३३ ॥ तस्य प्रासादस्य मध्ये, रचयेन्मणिपीठिकाम् । योजनान्यष्ट विस्तीर्णायतां चत्वारि मेदुराम् ॥ ७३४ ॥ तस्या मणीपीठिकाया, उपयुकां मनोहराम् । विकुर्वयेद्दिव्यशय्यां, कोमलास्तरणास्तृताम् ॥ ७३५ ॥ रत्नश्रेणिनिर्मितोरुप्रतिपादकृतोन्नतिम् । गाथामिवोद्यत्सुवर्णचतुष्पादां सुखावहाम् ॥ ७३६ ॥ तत: सपरिवाराभिः, प्राणप्रियाभिरष्टभिः । गन्धर्वनाट्यनीकाभ्यां, चानुयात: सुरेश्वरः ॥ ७३७ ॥ तत्रोपेत्यानेकरूपो, गाढमालिङ्गय ताः प्रियाः । दिव्यान् पञ्चविधान् कामभोगान् भुङ्क्ते यथासुखम् ॥ ७३८ ॥
तथाच सूत्र-जाहे णं भंते ! सक्के देविंदे देवराया दिबाई भोगभोगाई भुंजिउकामे भवइ से कहमिदाणिं पकरेइ ? गो० ! ताहे चेव णं से सक्के दे० एगं महं नेमिपडिरूवगं विउव्वती'त्यादि' भगवतीसूत्रे १४-६ ॥