________________
तैजसं चोष्णतालिङ्ग, तेजोलेश्यादिसाधनम् । कार्मणानुगमाहारपरिपाकसमर्थकम् ॥ ९४ ॥ अस्मात्तपोविशेषोत्थलब्धियुक्तस्य भूस्पृशः । तेजोलेश्यानिर्गम: स्यादुत्पन्ने हि प्रयोजने ॥ ९५ ॥ तथोक्तं जीवाभिगमवृत्तौसव्वस्स उन्हसिद्धं, रसाइआहारपागजणगं च । तेअगलद्धिनिमित्तं च तेअगं होइ नायव्वम् ॥ अस्मादेव भवत्येव, शीतलेश्याविनिर्गमः । स्यातां च रोषतोषाभ्यां, निग्रहानुग्रहावितः ॥ ९६ ॥ तथोक्तं तत्त्वार्थवृत्तौ
यदा उत्तरगुणप्रत्यया लब्धिः उत्पन्ना भवति तदा परं प्रति दाहाय विसृजति रोषविषाध्मातो गोशालादिवत् । प्रसन्नस्तु शीततेजसा अनुगृह्णातीति ॥ क्षीरनीरवदन्योऽन्यं, श्लिष्टा जीवप्रदेशकैः । कर्मप्रदेशा येऽनन्ताः, कार्मणं स्यात्तदात्मकम् ॥ ९७ ॥ सर्वेषामपि देहानां, हेतुभूतमिदं भवेत् । भवान्तरगतौ जीवसहायं च सतैजसम् ॥ ९८ ॥ नन्वेताभ्यां शरीराभ्यां, सहात्मायाति याति चेत् । प्रविशन्निरयन्वापि, कुतोऽसौ तर्हि नेक्ष्यते ॥ ९९ ॥ अत्रोच्यतेन चक्षुर्गोचरः सूक्ष्मतया तैजसकार्मणे । ततो नोत्पद्यमानोऽपि, म्रियमाणोप्यसौ स्फुटः ॥ १०० ॥ परैरप्युक्तम्अन्तरा भवदेहोऽपि, सूक्ष्मत्वान्नोपलभ्यते । निष्क्रामन्प्रविशन्वापि, नाऽभावोऽनीक्षणादपि ॥ १०१ ॥ स्वरूपमेवं पञ्चानां, देहानां प्रतिपादितम् । कारणादिकृतांस्तेषां, विशेषान् दर्शयाम्यथ ॥ १०२ ॥ संजातं पुद्गलैः स्थूलैदेहमौदारिकं भवेत् । सूक्ष्मपुद्गलजातानि, ततोऽन्यानि यथोत्तरम् ॥ १०३ ॥ इति कारणकृतो विशेषः ॥ यथोत्तरं प्रदेशैः स्युरसंख्येयगुणानि च । आतृतीयं ततोऽनन्तगुणे तैजसकार्मणे ॥ १०४ ॥ इति प्रदेशसंख्याकृतो विशेष: ॥ आद्यं तिर्यग्मनुष्याणां, देवनारकयोः परम् । केषाञ्चिल्लब्धिमद्घायुसंज्ञितिर्यग्नृणामपि ॥ १०५ ॥ आहारकं सलब्धीनां, स्याच्चतुदर्शपूर्विणाम् । सर्वसंसारिजीवानां, ध्रुवे तैजसकार्मणे ॥ १०६ ॥
तत्वार्थभाष्ये तूक्तम्- एके त्वाचार्या: नयवादापेक्षं व्याचक्षते कार्मणमेवैकमनादिसम्बद्धम् । तेनैवैकेन जीवस्यानादिः सम्बन्धो भवतीति । तैजसं तु लब्ध्यपेक्षं भवति । सा च तैजसलब्धिर्न सर्वस्य, कस्यचिदेव भवति ॥ एतट्टीकालेश: अपि-एवं एकीयमतेन प्रत्याख्यातमेव तैजसं शरीरमनादिसम्बन्धतया, सर्वस्य चेति । या पुनरभ्यवहृताहारं प्रति पाचकशक्तिः विनाऽपि लब्ध्या सा तु कार्मणस्यैव भविष्यति, कर्मोष्णत्वात् । कार्मणं हीदं शरीरं अनेकशक्तिगर्भत्वादनुकरोति विश्वकर्मण: । तदेव हि तथासमासादितपरिणतिळपदिश्यते यदि तैजसशरीरंतया ततो न
कश्चिद्दोष इति ।. अत्र भूयान् विस्तरोऽस्ति । स तु तत्वार्थवृत्तेरवसेयः ॥ [अध्या-२. सूत्र. ४३] १. उष्मादिलिङ्गकारणाहारपाकजनकतया, पराभिमतकार्योत्पादकतयेत्यर्थः, तथाच न पार्थक्यं तन्मते । समुद्घातेहेतुर्न सर्वस्येति तत्त्वं ।