________________
25
श्वासोच्छ्वासाच्च विकृतत्वेनात्यन्तं प्रसर्पतः । निरुद्धाद्धा म्रियेताङ्गी, तस्मादेते उपक्रमाः ।। ७७ ।। स्युः केषाञ्चिद्यदप्येतेऽनुपक्रमायुषामपि । स्कंदकाचार्यशिष्याणामिव यंत्रनिपीलना ॥ ७८ ॥ तथापि कष्टदास्तेषां न त्वायुः क्षयहेतवः । सोपक्रमायुष इव, भासन्ते तेऽपि तैर्मृताः ॥ ७९ ॥ अथ प्रकृतम् -सोपक्रमायुषः केऽप्यनुपक्रमायुषः परे । इति स्युर्द्विविधा जीवास्तत्र सोपक्रमायुषः ॥ ८० ॥ तृतीये नवमे सप्तविंशे भागे निजायुषः । बघ्नन्ति परजन्मायुरन्त्ये वाऽन्तर्मुहूर्त्तके ॥ ८१ ॥ यदाहुः श्यामाचार्याः । सियतिभागे, सियतिभागतिभागे, सियतिभागतिभागतिभागे इति ॥ केचित्तु सप्तविंशादप्यूर्ध्वं विकल्पयन्ति वै । त्रिभागकल्पनां यावदन्त्यमन्तर्मुहूर्त्तकम् ॥ ८२॥ असंख्यायुर्नृतिर्यंचश्चरमाङ्गाश्च नारकाः । सुराः शलाकापुमांसोऽनुपक्रमायुषः स्मृताः ॥ ८३ ॥ अपरे वर्णयन्ति । तीर्थंकरौपपातिकानां नोपक्रमतो मृत्युः । शेषाणामुभयथा । इति तत्वार्थवृत्तौ ॥ कर्मप्रकृतिवृत्तावपि 'अद्धाजोगुकोसं' इति गाथाव्याख्यानेऽभोगभूमिजेषु तिर्यक्षु मनुष्येषु च त्रिपल्योपमस्थितिषूत्पन्नः पश्चादाशु सर्वाल्पजीवितमन्तर्मुहूर्त्तं विहाय शेषमायुः त्रिपल्योपमस्थितिकं अपवर्त्तयन्ति अन्तर्मुहूर्तोनम् इति ॥ सुरनैरयिकाऽसंख्यजीवितिर्यग्मनुष्यकाः । बध्नन्ति षण्मासशेषायुषोऽग्रयभवजीवितम् ॥ ८४ ॥ मतान्तरेण उत्कर्षतः षण्मासावशेषे जघन्यतश्च अन्तर्मुहूर्त्तशेषे नारकाः परभवायुर्बध्नन्ति इति भगवतीसूत्रे (शतक १४ उद्देश १) ॥
निजायुषस्तृतीयेंऽशे, शेषेऽनुपक्रमायुषः । नियमादन्यजन्मायुर्निर्बध्नन्ति परे पुनः ॥ ८५ ॥ यावत्यायुष्यवशिष्ठे, परजन्मायुरर्ज्यते । कालस्तावानबाधाख्यस्ततः परमुदेति तत् ॥ ८६ ॥ इति भवस्थितिः ॥ ७ ॥
कायस्थितिस्तु पृथिवीकायिकादिशरीरिणाम् । तत्रैव कायेऽवस्थानं, विपद्योत्पद्य चासकृत् ।। ८७ ।। इति कायस्थितिस्वरूपम् ॥ ८ ॥
औदारिकं वैक्रियं च, देहमाहारकं तथा । तैजसं कार्मणं चेति, देहाः पञ्चोदिता जिनैः ॥ ८८ ॥ उदारैः पुद्गलैर्जातं, जिनदेहाद्यपेक्षया । उदारं सर्वतस्तुङ्गमिति चौदारिकं भवेत् ॥ ८९ ॥ क्रियाविशिष्टा नाना वा, विक्रिया तत्र संभवम् । स्वाभाविकं लब्धिजं च, द्विविधं वैक्रियं भवेत् ॥ ९० ।। यत्तदेकमनेकं वा, दीर्घं ह्रस्वं महल्लघु । भवेत् दृश्यमदृश्यं वा, भूचरं वापि खेचरम् ॥ ९१ ॥ आकाशस्फटिकस्वच्छं, श्रुतकेवलिना कृतम् । अनुत्तरामरेभ्योऽपि, कान्तमाहारकं भवेत् ।। ९२ ।। श्रुतावगाहाप्तामर्षौषध्यायृद्धिः करोत्यदः । मनोज्ञानी चारणो वोत्पन्नाहारकलब्धिकः ॥ ९३ ॥
१. चिन्त्यमिदं, यतो मनः पर्यवज्ञानिपृष्टप्रत्युत्तराय मनः परिणतिर्द्रव्यतस्तीर्थकृतामित्यभियुक्तोक्ति, एवं चारणेष्वपि गमनसामर्थ्यात्, अश्रुतत्वाच्च तेषां तस्य, ऋद्धिदर्शनप्राणिदयार्थमेव परं तस्य संभवः ।