________________
412
वादीतायाममुष्यां च, घण्टाः सर्वविमानगा: । शब्दायन्ते समं यन्त्रप्रयोगप्रेरिता इव ॥ ६७८ ॥ तत: पालकदेवेन, रचिते पालकाभिधे । समासीनो महायानविमाने सपरिच्छदः ॥ ६७९॥ औत्तराहेण निर्याणमार्गेणावतरत्यधः । एत्य नन्दीश्वरद्वीप, आग्नेयकोणसंस्थिते ॥ ६८० ॥ शैले रतिकराभिख्ये, विमानं संक्षिपेत्ततः । कृतकार्य: स्वर्गमेति, विहिताष्टाहिकोत्सवः ॥ ६८१ ॥
तथोक्तं- "तत्र दक्षिणो निर्याणमार्ग उक्तः, इह तु उत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्धीपे उत्तरपूर्वी रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्तः, इह तु दक्षिणपूर्वोऽसौ वाच्य” इति भगवतीसूत्रवृत्तौ
शतक १६ द्धितीयोद्देशके, तत्रेति ईशानेन्द्राधिकारे, इहेति सौधर्मेन्द्राधिकारे ॥ स्वर्गेषु विषमेष्वेषा, स्थितिः स्याद्दशमेऽपि च । घण्टापत्तीशनामादिः, समेष्वीशाननाकवत् ॥ ६८२ ॥ तथा देवा महामेघाः, सन्त्यस्य वशवर्तिनः । येषां स्वामितया शक्रो, मघवानिति गीयते ॥ ६८३ ॥
तथोचुः- ‘मघवंति मघा-महामेघा वशे सन्त्यस्य मघवान्, कल्पसूत्रवृत्ती, तथा हि मेघा द्विविधा, एके वर्षर्तृभाविनः । स्वाभाविकास्तदपरे, स्युदैवतानुभावजाः ॥ ६८४ ॥ तत्र शक्रो यदा वृष्टि, कर्तुमिच्छेन्निजेच्छया । आज्ञापयति गीर्वाणांस्तदाऽभ्यन्तरपार्षदान् ॥ ६८५ ॥ ते मध्यपार्षदांस्तेऽपि, बाह्यांस्ते बाह्यबाह्यकान् । तेऽप्याभियोगिकांस्तेऽपि, ब्रुवते वृष्टिकायिकान् ॥ ६८६ ॥ ततस्ते कुर्वते वृष्टि, हृष्टाः शक्रानुशिष्टितः । एवमन्येऽपि कुर्वन्ति, सुराश्चतुर्विधा अपि ॥ ६८७ ॥ जन्मदीक्षाज्ञानमुक्तिमहेषु श्रीमदर्हताम् । भक्त्युरेकादतिशयोद्भावनाय प्रमोदतः ॥ ६८८ ॥
___ तथोक्तम्- 'जाहे णं भंते ! सक्के देविंदे देवराए वुट्ठिकायं काउकामे भवइ से कहमिदाणिं
पकरेड़ ?' इत्यादि भगवतीसूत्रे १४-२ । छित्त्वा भित्त्वा कुट्टयित्वा, चूर्णयित्वाऽथवा स्वयम् । कमण्डल्वां शिरः पुंसः, कस्याप्येष यदि क्षिपेत् ॥ ६८९ ॥ तथापि किञ्चिदप्यस्य, बाधा न स्यात्तथाविधा । भगवत्यां शक्रशक्तिरुक्ता चतुर्दशे शते ॥ ६९० ॥ सदा सन्निहितस्तस्यैरावणो वाहनं सुरः । व्यक्तो नानाशक्तियुक्तो, भक्त्युद्युक्त: सुरेशितुः ॥ ६९१ ॥ दशार्णनृपबोधाय, यियासोरिव वज्रिणः । आज्ञां प्राप्यानेकरूपसमृद्धिं कर्तुमीश्वरः ॥ ६९२ ॥ यदा यदा स चेन्द्रस्य, क्वचिज्जिगमिषा भवेत् । तदा तदा हस्तिरूपं, कृत्वेशमुपतिष्ठते ॥ ६९३ ॥ दधात्यसौ करे वज्रममोघशक्तिशालि यत् । निरीक्ष्यैव विपक्षाणां, क्षणात्क्षुभ्यति मानसम् ॥ ६९४ ॥ प्रयुक्तं द्विषतो हन्तुमिन्द्रेण कुपितेन यत् । ज्वालास्फुलिङ्गानभितो, विकिरदीषणाकृतिः ॥ ६९५ ॥ कुर्वद् दृष्टिप्रतीघातमुत्फुल्लकिंशुकोपमम् । निहन्त्येवानुगम्यैनं, गतं दूरेऽपि साध्वसात् ॥ ६९६ ॥ यथाऽनेनैव शक्रेण, तन्मुक्तं चमरोपरि । ततो नंष्ट्वा गतस्यास्य, श्रीमदीरपदान्तरे ॥ ६९७ ॥ पृष्ठे पतद्गृहीतं च, जिनावज्ञाभियाऽमुना । चतुर्भिरङगुलैर्वीरपादाद्ध्यवहितं स्यात् ॥ ६९८ ॥