________________
408
तिरिक्खजोणिणीओ प० भ०, आसणसयणभंडमत्तोवगरणा परि० भ० सचित्ताचित्तमीसयाई
दवाइं प० भ०, वाणमंतरा जोतिसवेमाणिया जहा भवणवासी तहा णेयवा” । एवं मिथ्यादृशो यान्ति, सारम्भाः सपरिग्रहा: । च्युत्वोपार्जितपाप्मान, एकेन्द्रियादिदुर्गतिम् ॥ ५९१ ॥ सम्यग्दृशः पुनस्तत्त्वत्रितये कृतनिश्चयाः । जिनादिसेवया यदा, पूर्वाधीतश्रुतस्मृतेः ॥ ५९२ ॥ विचारयन्तस्तत्त्वानि, सिद्धान्तोक्तानि चेतसा । शुद्धोपदेशैः सम्यक्त्वं, प्रापयन्त: परानपि ॥ ५९३ ॥ उत्सवेषु महोत्साहा, अर्हत्कल्याणकादिषु । जिनोपदेशान् शृण्वन्तः, सेवमाना जिनेश्वरान् ॥ ५९४ ॥ महर्षीणां नृणां सम्यग्दृशामथ तपस्विनाम् । हितकामाः कृच्छ्रमग्नसंघसाहाय्यकारिणः ॥ ५९५ ॥ दृष्ट्वर्षि भावितात्मानं, कुर्वन्तो वन्दनादिकम् । तन्मध्येन न गच्छन्ति, स्तब्धमिथ्यात्विदेववत् ॥ ५९६ ॥
___ तथाहुः-"तत्थ जे अमायिसम्मदिट्ठिउववण्णए देवे से णं अणगारं भावियप्पाणं पासति, पासित्तां णं वंदति णमंसति जाव पज्जुवासति, से णं अणगारस्स भावियप्पणो मज्झमझेणं
णो वितीवएज्जा” भगवतीसूत्रे श. १४ उ. ३ । एवमर्जितपुण्यास्ते, महर्द्धिभरशालिषु । प्रत्यायान्ति कुलेषूच्चेष्वासन्नभवसिद्धिकाः ॥ ५९७ ॥ तत्रापि सुभगा: सर्वोत्कृष्टरूपा जनप्रिया: । भोगान् भुक्त्वाऽऽत्तचारित्राः, क्रमाद्यान्ति परां गतिम् ॥ ५९८ ॥ नन्वेवमुदिताः सूत्रे, अधर्म संस्थिताः सुराः । कथं तदेष भावार्थो, न तेन विघटिष्यते ? ॥ ५९९ ॥
तथाहि-“जीवा णं भंते ! किं धम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया ?, गो० ! जीवा धम्मेवि ठिया, अधम्मे०, धम्माधम्मे०, णेरड्या णं पुच्छा, गो०, ! णेरड्या नो धम्मे०, नो धम्माधम्मे०, अधम्मे ठिया, मणु० जहा जीवा, वाणमंतर० जोइ० वेमा० जहा णेरड्या”,
भगवतीसूत्रे सप्तदशशतकद्वितीयोद्देशके १७-२ । अत्रोच्यते-एषामुक्तमिदं देशसर्वविरत्यभावतः । तथैवात्रोद्देशकादौ, सूत्रेऽपि प्रकटीकृतम् ॥ ६०० ॥
_ “से णूणं संजयविरयपडिहयपच्चक्खायपावकम्मे धम्मे ठिए अस्संजय० अधम्मे ठिए
संजयासंजए धम्माधम्मे ठिए" सर्वथा संवराभावापेक्षं नत्वेतदीरितम् । संवरद्वाररूपस्य, सम्यक्त्वस्यैषु संभवात् ॥ ६०१ ॥ सम्यक्त्वमपि मिथ्यात्वनिरोधात्संवरः स्फुटः । संवरेष्वत एवेदं, श्रुते पञ्चसु पठ्यते ॥ ६०२ ॥
___ तथाहुः स्थानाङ्गे समवायाङ्गे भगवत्यां च-पंच संवरदारा प०, तं०-सम्मत्तं विरती अपमादो
अकसाइत्तं अजोगित्तं" । एको द्विवादिसंख्येया, असंख्या अपि कर्हिचित् । उत्पद्यन्ते च्यवन्तेऽमी, एकस्मिन् समये सह ॥ ६०३ ॥ उत्पत्तेश्चयवनस्यापि, विरहो यदि भाव्यते । सौधर्मशानयोर्देवलोकयोरमृताशिनाम् ॥६०४ ॥ स चतुर्विंशतिं यावन्मुहूर्त्तान् परमो भवेत् । जघन्यतस्तु समयं, यावदुक्तो जिनेश्वरैः ॥ ६०५ ॥