________________
407
तथा प्रियादीष्टवस्तुविनाशविप्रयोगजः । शोको मनः खेदरूपो, मरुतामपि संभवेत् ॥ ५७९ ॥
यदाहुः- “जे णं जीवा सारीरं वेदणं वेदेंति तेसि णं जीवाणं जरा, जेणं जीवा माणसं वेदणं वेदेति तेसि णं जीवाणं सोगे, से तेणट्टेणं जाव सोगेऽवि, एवं जाव वेमाणियाणं”, भगवतीषोडशशतकद्धितीयोद्देशके ।
तथा प्राक् प्रौढपुण्याप्तां, केऽपि दृष्ट्वा परश्रियम् । मत्सरेणाभिभूयन्ते, निष्पुण्याः सुखलिप्सवः ॥ ५८० ॥ उक्तं च- “ ईसाविसाय० ” ।
"
किंच माल्यग्लानिकल्पवृक्षप्रकम्पनादिभिः । चिद्वैर्जानन्ति तेऽमीभिः, षण्मासान्तर्गतां मृतिम् ।। ५८१ ।। तथाहि - “ माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गौ, दृष्टेभ्रंशो वेपथुश्चारतिश्च ॥
स्थानाङ्गसूत्रेऽप्युक्तं — “तिहिं ठाणेहिं देवे चविस्सामित्ति जाणइ, विमाणाइं णिप्पभाई पासित्ता १ कप्परुक्खगं मिलायमाणं पासित्ता २ अप्पणो तेयलेस्सं परिहायमाणि जाणित्ता ३” इत्यादि ॥ तां समृद्धिं विमानाद्यामासन्नं च्यवनं ततः । गर्भोत्पत्त्यादिदुःखं च तत्राहारादिवैशसम् ॥ ५८२ ॥ चित्ते चिन्तयतां तेषां यहुः खमुपजायते । तज्जानन्ति जिना एव, तन्मनो वा परे तु नं ॥ ५८३ ॥ उक्तं च- “तं सुरविमाणविभवं, चिंतिय चवणं च देवलोयाओ । अइबलियं चिय जं नवि, फुट्टइ सयसक्करं हिययं” ॥
तथा–विपाकोदयरूपा च, चक्षुर्निमीलनादिभिः । व्यक्तैश्चिनैर्भवेद्यक्ता, तेषां निद्रा न यद्यपि ॥ ५८४ ॥ प्रदेशोदयतस्त्वेषां स्यात्तथाप्यन्यथा कथम् । दर्शनावरणीयस्य, सतोऽप्यनुदयो भवेत् ? ।। ५८५ ।। क्षयश्चोपशमश्चास्य, देवानां क्वापि नोदितः । श्रुतेऽप्येषां कर्मबन्धहेतुत्वेनेयमीरिता ॥ ५८६ ।।
तथाहुः — “ जीवे णं भंते! निद्दायमाणे वा पयलायमाणे वा कति कम्मपगडीओ बंधइ ?, गो० ! सत्तविहबंध वा, अट्ठविहबंधए वा, एवं जाव वेमाणिए, एवं जीवे णं भंते ! हसमाणे वा उस्सुयायमाणे वा कति क० बं० १, गो० ! सत्तविहबं० वा, अट्ठविहबं० वा, एवं जाव वेमाणिए” भगवतीसूत्रे पञ्चमशतकचतुर्थोद्देशके, इह च पृथिव्यादीनां हास: प्राग्भविकतत्परिणामादवसेय” मित्येतद्वृत्तौ ।
एवं स्वभावतो निद्रासद्भावेऽपि सुधाभुजाम् । येयं तन्द्रा मृतेश्चिहं, सा तु भिन्नैव भाव्यते ॥ ५८७ ॥ किंच - षड्जीवकायारम्भेषु, रता मिथ्यात्वमोहिताः । यागादिभिर्जीवहिंसोपहारैर्मुदिताशयाः ।। ५८८ ॥ शरीरासनशय्यादिभाण्डोपकरणेष्वपि 1 विमानदेवदेवीषु, हर्म्यक्रीडावनादिषु ।। ५८९ ।। पूर्वप्रेम्णा स्वीकृतेषु नृतिर्यक्ष्वपि मूर्च्छिताः । सचित्ताचित्तमिश्रेषु मग्नाः परिग्रहेति ॥ ५९० तथाहु:- “असुरकुमारा पुढविकायं समारभंति जाव तसकायं समारभंति, सरीरा परिग्गहिया भवंति, कम्मा प० भ०, भवणा प० भ०, देवा देवीओ मणूसीओ तिरिक्खजोणिआ