________________
401
किंच प्राग्भवबन्धूनां, तादृक्पुण्याद्यभावत: । नागन्तुमीशते तेऽत्राषाढाचार्यायशिष्यवत् ॥ ४५७ ॥
तथोक्तं स्थानाङ्गे -"तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं हबमागच्छित्तए, णो चेव णं संचाएति हब्बमागच्छित्तए, अहुणोववन्ने देवे देवलोए दिब्बेसु कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववण्णे, से णं माणुस्सए कामभोए नो आढाति नो परि० नो अटुं बंधइ नो नियाणं पक० नो ठितिपगप्पं क० १. अहुणोववन्ने देवे देवलोएसु दिब्बेसु कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने तस्सणं माणुस्सए पेम्मे वोच्छन्ने भवइ, दिव्ये पेम्मे संकंते भवइ २ अहुणोववन्ने देवे देवलोएसु दिब्बेसु कामभोगेसु मुच्छिए जाव अज्झो० तस्स णं एवं भवइ इयहि गच्छं, मुहुत्ता गच्छं तेणं कालेणं अप्पाउया मणुया
कालधम्मुणा संजुत्ता भवंति ३,” इत्यादि । तथाऽस्य नरलोकस्य, दुर्गन्धोऽपि प्रसर्पति । नानामृतकविण्मूत्रायशुचिप्रभवो महान् ॥ ४५८ ॥ तत्राप्यजितदेवादिकालेऽतिप्रचुरा नराः । तथा भवन्ति तिर्यञ्चः, क्षेत्रेषु निखिलेष्वपि ॥ ४५९ ॥ तदा मूत्रपुरीषादिबाहुल्यात्पूतिपुद्गलाः । ऊर्ध्वं यान्तो वासयन्ति, पुद्गलानपरापरान् ॥ ४६० ॥ योजनानां शतान्येवं, पञ्च यावत्परैः परैः । दृष्यन्ते पुद्गला जीवा, इवोत्सूत्रप्ररूपकैः ॥ ४६१ ॥ यदा तु नरतिर्यञ्चो, नरक्षेत्रे स्युरल्पकाः । तदा पूतिपुद्गलानामल्पत्वादूर्ध्वगामिनाम् ॥ ४६२ ॥ चतुःशती योजनानां, यावत्तैरपरापरैः । व्रजद्भिरूचं भाव्यन्ते, प्रोक्तयुक्त्यैव पुद्गला: ॥ ४६३ ॥ एवं परं योजनेभ्यो, नवभ्यो गन्धपुद्गलाः । कथं स्युना॑णविषया, नैषा शङ्काऽपि संभवेत् ॥ ४६४ ॥ उक्तं च-चत्तारि पंच जोअणसयाई गंधो य मणुअलोअस्स । उड्ढं वच्चड़ जेणं, नहु देवा तेण आवंति” ॥
[बृहत्संग्रहणी गा. १९४] उपदेशमालाकर्णिकायां तु“ऊर्ध्वगत्या शतान्यष्टौ, सहस्रमपि कर्हिचित् । मर्त्यानां याति दुर्गन्धस्तेने हायान्ति नामराः ॥ इत्युक्तमिति ज्ञेयं- तथा चमलमूत्रश्लेष्मपूर्णे, मक्षिकाकोटिसंकटे । समन्ततोऽतिचपलकृमिकीटशतावटे ॥ ४६५ ॥ पुरीषसदने स्थित्वा, मित्रकल्पेन केनचित् । एहि मित्र ! क्षणं तिष्ठ, किञ्चिदमीत्यनेकशः ॥ ४६६ ॥ आहूयेत जनः कश्चित्, सद्य:स्नातः कृताशनः । कृतचन्दनकर्पूरकस्तूर्यादिविलेपनः ॥ ४६७ ॥ जानन्नपि स तत्रेष्टं, यथा गन्तुं न शक्नुयात् । तदुर्गन्धपराभूतिसंकोचितविकूणिकः ॥ ४६८ ॥ तथा भूयः स्मरन्तोऽपि, नृक्षेत्रे पूर्वबान्धवान् । दुर्गन्धाभिभवादन, न तेऽभ्यागन्तुमीशते ॥ ४६९ ॥ सत्यप्येवमतिप्रौढपुण्यप्राग्भारशालिनाम् । श्रीमतामर्हतां तेषु, कल्याणकेषु पञ्चसु ॥ ४७० ॥