________________
400
सहस्राणि दशाब्दानां येषामायुर्जघन्यतः । भवनेशव्यन्तरास्तेऽहोरात्रसमतिक्रमे ॥ ४३३ ॥ इच्छन्ति पुनराहारं, तथा स्तोकैश्च सप्तभिः । उच्छ्वसन्ति शेषकाले, नोच्छ्वासो न मनोऽशनम् ॥ ४३४ ॥ दशभ्योऽब्दसहस्रेभ्यो, वर्द्धमानैः क्षणादिभिः । किञ्चिदूनसागरान्तं, यावद्येषां स्थितिर्भवेत् ॥ ४३५ ॥ तेषां दिनपृथक्त्वैः स्याद्वृद्धिभाग् भोजनान्तरम् । मुहूर्त्तानां पृथक्त्वैश्व, श्वासोच्छ्वासान्तरं क्रमात् ॥ ४३६ ॥ पृथक्त्वं तु द्विप्रभृतिनवपर्यन्तमुच्यते । पूर्णाम्भोधिस्थितीनां तु ततः सागरसंख्यया ॥ ४३७ ॥ आहारोऽब्दसहस्रैः स्यात्पक्षैरुच्छ्वास एव च । एवं च स्वर्गयोराद्यद्वितीययोः सुधाभुजः ॥ ४३८ ॥ जघन्यजीविनो घस्रपृथक्त्वेनैव भुञ्जते । मुहूर्त्तानां पृथक्त्वेन, श्वासोच्छ्वासं च कुर्वते ॥ ४३९ ॥ द्वाभ्यां वर्षसहस्राभ्यामश्नन्त्युत्कृष्टजीविनः । मासेन चोच्छ्वसन्त्येवं, भाव्या मध्यमजीविनः ॥ ४४० ॥ एवमेते कृताहाराः, पुनरप्यप्ससरोजनैः । उपक्रान्ते नाटकादौ प्रवर्त्तयन्ति मानसम् ॥ ४४१ ॥ कदाचिच्च जलक्रीडां, कदाचिन्मज्जनक्रियाम् । कदाचिच्च सुहृद्गोष्ठीसुखान्यनुभवन्त्यमी ॥ ४४२ ॥ कदाचिद्यान्ति सुहृदां, वेश्मसु प्रेमनिर्भराः । तेऽपि तानुपसर्पन्ति कृत्वाऽभ्युत्थानमादरात् ॥ ४४३ ॥ आसनं ददते हस्ते, धृत्वोपवेशयन्ति च । योजिताञ्जलयः सत्कारयन्त्यम्बरभूषणैः ॥ ४४४ ॥ एवमागच्छतां प्रत्युद्गमनं पर्युपासनम् । स्थितानां गच्छतां चानुगमनं रचयन्त्यमी ॥ ४४५ ॥ तथोक्तं — “अत्थि णं भंते ! असुरकुमाराणं सक्करेति वा जाव पडिसंसाहणया ?, जाव वेमाणियाणं” ततो विनीतैस्तैर्मित्रदेवैः सह कदाचन । तेषामेव विमानेषु क्रीडन्तः सुखमासते ॥ ४४६ ॥ एकैकस्मिन्नाट्यकामक्रीडागोष्ठ्यादिशर्मणि । यात्यविज्ञात एवाशु, कालो भूयान्निमेषवत् ॥ ४४७ ॥
तथाह छुटितगाथा
“दो वाससहस्साई, उड्ढं अमराण होइ विसयसुहं । पणसयपणसयहीणं, जोइसवणभवणवासीणं” ॥ एवं तत्तन्निधुवनसंगीतप्रेक्षणादिभिः । सदाप्यसंपूर्णकार्या, न तेऽत्रागन्तुमीशते ॥ ४४८ ॥ किंच-तत्तद्धिमानाभरणदेवाङ्गनादिवस्तुषु । संक्रान्तनव्यप्रेमाणो, नैतेऽत्रागन्तुमीश ॥ ४४९ ॥ कदाचिदुत्सहन्ते चेत्पूर्वजन्मोपकारिणः । मातापितृस्निग्धबन्धुगुरुशिष्यप्रियाऽङ्गजान् ॥ ४५० ॥ द्रष्टुं दर्शयितुं स्वीयदिव्यसंपत्तिवैभवम् । तदागत्यार्गलायन्तेऽनर्गलाः स्वर्गयोषितः ॥ ४५१ ॥ किमेतदाद्यकवले, मक्षिकापतनोपमम् । आरब्धं क्षणमप्येकं त्वां विना प्राणिमः कथम् ? ।। ४५२ ॥ अद्याप तादृश: स्नेहस्तासु पूर्वप्रियासु चेत् । तदाऽस्मान् कृत्रिमप्रेम्णा, कदर्थयसि नाथ किम् ?|| ४५३ ॥ अथ यास्यथ तन्नाट्यमिदमादिममङ्गलं । दृष्ट्वा यथेच्छं गच्छन्तु, किं रुध्याः करिणः करैः ? ॥ ४५४ ॥ इत्यादिप्रेमसंदर्भगर्भितैस्तद्बचोगुणैः । नियन्त्रितास्तद्दाक्षिण्यात्, तत्रैते ददते मनः ।। ४५५ ।। तत्ताण्डवसमाप्त्या तु, पूर्वसंबन्धिनां नृणाम् । भवा भवन्ति भूयांसः, प्रायः स्वल्पायुषामिह ॥ ४५६ ॥
1