________________
399
पारापतादिशब्दैश्च, द्विगुणामुन्मुदिष्णुताम् । जनयन्त्यश्चिरं भर्तुर्देव्योऽपि सुरतोत्सवैः ॥ ४१४ ॥
शुक्रस्य वैक्रियस्याङ्गे, संचारादखिले सुखम् । आसादयन्त्यस्तृप्यन्ति, क्लिष्टस्त्रीवेदवेदनाः ॥ ४१५ ॥ ते शुक्रपुद्गला भुज्यमानदिव्यमृगीदृशाम् । चक्षुः श्रोत्रघ्राणजिह्वात्वगिन्द्रियतयाऽसकृत् ॥ ४१६ ॥ द्रुतं परिणमन्त्येते, रूपलावण्यवैभवम् । परभागं प्रापयन्ति, सौभाग्यं यौवनं तथा ॥ ४१७ ॥
तथा च प्रज्ञापना — “अत्थि णं भंते ! तेसिं देवाणं सुक्कपुग्गला ?, हंता अत्थि, ते णं भंते ! तासिं अच्छराणं कीसत्ताए भुज्जो भुज्जो परिणमंति ? गो० ! सोइंदियत्ताए जाव फासिंदियत्ताए इट्ठत्ताए कंतत्ताए मणुन्नत्ताए मणामत्ताए सुभत्ताए सोहग्गरूवजोव्वणगुणलावणत्ताए एयासिं भुज्जो भुज्जो परिणमंति”
४२० ॥
४२१ ॥
एवं केचित्सुरास्तीव्रमदनोन्मत्तचेतसः । स्वनायिकोपभोगेनातृप्ताः क्लृप्तापराशयाः ॥ ४१८ ॥ वर्यचातुर्यसौन्दर्यपुण्याः पण्याङ्गाना इव । निजानुरक्ता अपरिगृहीता भुञ्जते सुरीः ॥ ४१९ ॥ तथा ह्युन्मत्तता द्वेधा, देवानामपि वर्णिता । एका यक्षावेशभवा, मोहनीयोदयात् परा ॥ अल्पर्द्धिकं तत्र देवं, रुष्टो देवो महर्द्धिकः । दुष्टपुद्गलनिक्षेपात् कुर्यात् परवशं क्षणात् ॥ ततश्च ग्रहिलात्माऽसौ, यथा तथा विचेष्टते । द्वितीया द्विविधा तत्र, मिथ्यात्वात्प्रथमा भवेत् ॥ ४२२ ॥ अतत्त्वं मन्यते तत्त्वं तत्त्वं चातत्त्वमेतया । चारित्रमोहनीयोत्था, परा तयाऽपि चेष्टते ॥ ४२३ ॥ भूताविष्ट इवोत्कृष्टमन्मथादिव्यथार्द्दितः । यक्षावेशोत्था सुमोचा, दुर्मोचा मोहनीयजा ॥ ४२४ ॥ तथाहुः — “ असुरकुमाराणं भंते ! कइविहे उम्माए प० १, गो० दुविहे प०, एवं जहेव रतियाणं, णवरं देवे वा से महिड्ढियतराए असुभे पुग्गले पक्खिवेज्जा, से णं तेसिं असुभाणं पुग्गलाणं पक्खिवणत्ताए जक्खाएसं उम्मायं पाउणिज्जा, मोहणिज्जस्स वा, सेसं तं चेव, वाणमंतरजोतिसवेमाणियाणं जहा असुरकुमाराणं,” भगवतीसूत्रे ।
पश्यतैवं शक्तियुक्ता, विवेकिनोऽपि नाकिनः । हन्तानेन विडम्ब्यन्ते, सत्यं सर्वङ्कषः स्मरः ॥ ४२५ ॥ योऽखर्वयच्छर्वगर्वसर्वस्वमौर्वदुर्वहः 1 किमपूर्वमखर्वोऽयं निर्वपुर्यत्सुपर्वजित् ॥ ४२६ ॥ भवनव्यन्तरज्योतिष्काद्यकल्पद्वयावधि । विडम्बनैवं कामस्य, ज्ञेया नातः परं तथा ॥ ४२७ ॥ अथो यथोक्तकालेन, यद्याहारार्थिनः सुराः । तदा संकल्पमात्रेणोपस्थिताः सारपुद्गलाः ॥ ४२८ ॥ सर्वगात्रेन्द्रियाह्लादप्रदाः परिणमन्ति हि । सर्वाङ्गमाहारतया, शुभकर्मानुभावतः ॥ ४२९ ।। प्राप्नुवन्तः परां तृप्तिमाहारेणामुना सुराः । विन्दते परमानन्दं, स्वादीयोभोजनादिव ॥ ४३० ॥ अत एवाभिधीयन्ते, ते मनोभक्षिणः सुराः । प्रज्ञापनादिसूत्रेषु, पूर्वर्षिसंप्रदायतः ॥ ४३१ ॥ तथाहुः — “मणोभक्खिणो ते देवगणा पण्णत्ता समणाउसो !” ।
आहार्यपुद्गलांस्तांश्च, विशुद्धावधिलोचनाः । अनुत्तरसुरा एव पश्यन्ति न पुनः परे ॥ ४३२ ॥