________________
398
विवक्षवस्त्वमी अर्द्धमागध्या रम्यवर्णया । भाषन्ते चतुरस्वान्तचमत्कारकिरा गिरा ॥ ३९३ ॥ तथाहुः—‘गो० ! देवाणं अद्धमागहाए भासाए भासंति' भगवतीपञ्चमशतकचतुर्थोद्देशके लोके तु 'संस्कृतं स्वर्गिणां भाषेत्यादि ।
प्रत्येकमङ्गोपाङ्गेषु, रत्नाभरणभासुराः । अस्पृष्टकासश्वासादिविविधव्याधिवेदनाः ॥ ३९४ ॥ पुण्यनैपुण्यलावण्याः, सदावस्थायियौवनाः । अभङ्गकामरागार्द्रा, दिव्याङ्गनाकटाक्षिताः ॥ ३९५ ॥ दिव्याङ्गरागसुरभीकृतसर्वाङ्गशोभनाः । कामकेलिकलाभ्यासविलासहासवेदिनः ।। ३९६ ।। स्वभावतो निर्निमेषविशेषललितेक्षणाः । अम्लानपुष्पदामानः, स्वैरं गगनगामिनः ।। ३९७ । मनश्चिन्तितमात्रेण, सर्वाभीष्टार्थसाधकाः । वचनातिगसामर्थ्यान्निग्रहानुग्रहक्षमाः ॥ ३९८ ॥ प्रयोजनविशेषेण, प्राप्ता अपि भुवस्तलम् । तिष्ठन्ति ते व्यवहिताश्चतुर्भिरङ्गुलैर्भुवः ॥ ३९९ ॥ वायूत्तरेशानदिक्षु, सेव्याः सामानिकैः सुरैः । अग्नियाम्यानैर्ऋतीषु, पर्षद्भिस्तिसृभिर्युताः ॥ ४०० ॥ पुरोऽग्रमहिषीभिश्च पृष्ठतोऽनीकनायकैः । सेव्याः समन्ताद्विविधायुधाढ्यैश्चात्मरक्षकैः ॥ ४०१ ॥ सुस्वरैर्दिव्यगन्धर्वैर्गीतासु पदपङ्क्तिषु । दत्तोपयोगाः सत्तालमूर्छनाग्रामचारुषु ॥ ४०२ ॥ अप्सरोभिः प्रयुक्तेषु, नाट्येषु दत्तचक्षुषः । अज्ञातानेहस: सौख्यैः समयं गमयन्त्यमी ॥ ४०३ ॥ कामलीलाभिलाषे तु, विसृज्य देवपर्षदम् । सुधर्मायाः सभायाश्च, निर्गत्यान्तःपुरैः सह ॥ ४०४ ॥ गत्वोक्तरूपप्रासादोद्यानादिष्वास्पदेषु ते । मनोऽनुकूलाः सर्वाङ्गसुभगा दिव्यकामिनीः ॥ ४०५ ॥ रम्यालङ्कारनेपथ्या, रूपयौवनशालिनीः । कटाक्षविशिखैर्नर्मोक्तिभिर्द्विगुणितस्पृहाः ॥ ४०६ ॥ भर्तृचित्तानुसारेणानेकरूपाणि कुर्वती: । प्रतिरूपैः स्वयमपि, प्रेमतो बहुभिः कृतैः ॥ ४०७ ॥ हठात्पत्यङ्गमालिङ्ग्य, वक्त्रमुन्नम्य चुम्बनैः । ससीत्कारं सुधाधारमधुराधरखण्डनैः ॥ ४०८ ॥ निःशङ्कमङ्कमारोप्य, निर्दयं स्तनमर्द्दनैः । मज्जन्तो मैथुनरसे, मनुष्यमिथुनादिवत् ॥ ४०९ ॥ इत्थं सर्वाङ्गीणकायक्लेशोत्थां स्पर्शनिर्वृतिंम् । आसादयन्तस्तृप्यन्ति, क्लिष्टपुंवेदवेदनाः ॥ ४१० ॥ रतामृतास्वादलोलाः, कदाचिन्मदनोन्मदाः । मुग्धावत्कम्पनैर्भीतिरूतैर्दूरापसर्पणैः ॥ ४११ ॥ कदाचिच्चारुमध्यावल्लज्जाललितचेष्टितैः । कदाचित्प्रौढमहिला, इव वैयात्यवल्गितैः ॥ ४१२ ॥ कदाचिद्रोषतोषाद्रैः, परुषैः पुरुषायितैः । प्रत्याश्लेषप्रतिवचः, प्रतिचुम्बनवल्गनैः ॥ ४१३ ॥ १ अर्धमागधी भाषा अष्टादशदेश्यभाषामिश्रेति आबालगोपाङ्गनं बोद्धुं शक्या सर्वविषयवासिनां च पूर्वसंगतिकानां सुबोधा, प्रत्नदेशभाषापि शिलादिषूल्लिखिता दृश्यते, भाष्यकृद्भिरपि नानादेशीया भाषास्तथाविधा एव दर्शिताः,
२ कस्यांचिद् भाषायां संस्कारकरणात् संस्कृतत्वं तेन नेयं मूलभाषा भावितुमर्हति प्राकृता तु स्वाभाविकी, प्रकृतिः संस्कृतं, तत्र भवं प्राकृतमिति तु संस्कृतभवतयाऽभिप्रेतायाः लक्षणाख्यानं, व्याकरणसूत्रापेक्षया वैवत्, यत आख्यायते तत्र शेषं संस्कृतवदिति ।