________________
391
चैत्यस्तम्भपीठिकाऽत्र, षोडशाऽऽयतविस्तृता । अष्टोच्चा योजनान्यर्द्धमानास्तिस्रोऽपरास्ततः ॥ २३७ ॥ शयनीयादथैशान्यां, महती मणिपीठिका । क्षुल्लो महेन्द्रध्वजोऽस्यां, चैत्यस्तम्भोक्तमानभृत् ॥ २३८ ॥ ध्वजादेतस्मात्प्रतीच्यां, विमानस्वामिनो भवेत् । चोपालाख्यः प्रहरणकोशः शस्त्रशताञ्चितः ॥ २३९ ॥ मानमस्या वक्ष्यमाणसभाऽर्हदेश्मनामपि । तद्धारमण्डपस्तूपवृक्षादीनां च तीर्थपैः ॥ २४०॥ नन्दीश्वरदीपगतचैत्यवत् सकलं स्मृतम् । पीठिकादौ विशेषस्तु, प्रोक्तोऽत्राग्रेऽपि वक्ष्यते ॥ २४१ ॥ एवं सभा सुधर्माख्या, लेशतो वर्णिता मया । वैमानिकविमानेषु, सिद्धान्तोक्तानुसारतः ॥ २४२ ॥ तस्याः सौधा: सभाया, अर्थशान्यां भवेदिह । अर्हदायतनं नित्यमत्यन्तविततद्युति ॥ २४३॥ भवेत्सर्वं सुधर्मावदिह द्वारत्रयादिकम् । विज्ञेयं तत्स्वरूपं च, पूर्वोक्तमनुवर्तते ॥२४४॥ यावदभ्यन्तरे भागे, स्युर्मनोगुलिकाः शुभाः । तथैव गोमानसिकास्ततश्चैतद्धिशिष्यते ॥ २४५ ॥ तस्य सिद्धायतनस्य, मध्यतो मणिपीठिका । उपर्यस्या भवत्येको, देवच्छन्दक उद्भटः ॥ २४६ ॥ अष्टोत्तरशतं तत्र, प्रतिमाः शाश्वतार्हताम् । वैमानिका देवदेव्यो, भक्तितः पूजयन्ति याः ॥ २४७ ॥ घण्टाकलशभृङ्गारदर्पणाः सुप्रतिष्ठकाः । स्थाल्यो मनोगुलिकाच, चित्ररत्नकरण्डकाः ॥ २४८ ॥ पात्र्यो वातकरकाश्च, गजाश्वनरकण्ठकाः । महोरगकिंपुरुषवृषकिन्नरकण्ठकाः ॥२४९ ॥ पुष्पमाल्यचूर्णगंधवस्त्राभरणपूरिताः । चङ्गेर्यः सिद्धार्थलोमहस्तकैरपि ता भृताः ॥२५०॥ पुष्पादीनां पटलानि, छत्रचामरकेतवः । तैलकोष्ठशतपत्रतगरैलासमुद्गकाः ॥२५१ ॥ हंसपादहरितालमनःशिलाञ्जनै ताः । समुद्गकाश्च घण्टाद्यास्तत्राष्टाढ्यं शतं समे ॥२५२ ॥ अष्टोत्तरशतं धूपकडुच्छकाच रत्नजाः । भवन्ति सिद्धायतने, श्रीजिनप्रतिमाग्रतः ॥ २५३ ॥ अथैतस्माज्जिनगृहादेशान्यां महती भवेत् । उपपातसभा साऽपि, सुधर्मेव स्वरूपतः ॥२५४ ॥ चत्वारि योजनान्यत्रोच्छ्रिताऽष्टौ च ततायता । पीठिकाऽस्यां विमानेशोपपातशयनीयकम् ॥ २५५ ॥ अर्थशान्यामुपपातसभायाः स्यान्महाहूदः । शतं दीर्घस्तद रुर्दशोण्डो योजनानि सः ॥२५६ ॥ हुदादस्मादथैशान्यामभिषेकसभा भवेत् । त्रिद्वारा स्यात् सापि सर्वात्मना तुल्या सुधर्मया ॥२५७ ॥ विभाति मध्यदेशेऽस्या, महती मणिपीठिका । विमानेशाभिषेकाह, तत्र सिंहासनं स्फुरत् ॥ २५८ ॥ सन्ति तत्परिवाराहभूरिभद्रासनान्यपि । विमानेशाभिषेकार्थस्तत्र सर्वोऽप्युपस्करः ॥२५९ ॥ अमुष्या अप्यथैशान्यां, सुधर्मासदृशी भवेत् । अलङ्कारसभा मध्यदेशेऽस्या मणिपीठिका ॥ २६० ॥ तस्यां च सपरिवारं, रत्नसिंहासनं भवेत् । विमानस्वामिनः सर्वोउलझरोपस्करोऽपि च ॥ २६१ ॥ अलङ्कारसभाया अप्यैशान्यां शोभना भवेत् । व्यवसायसभा सर्वात्मना तुल्या सुधर्मया ॥ २६२ ॥ तस्यां रत्नपीठिकायां, रत्नसिंहासनं भवेत् । सत्पुस्तकं चाङ्करत्नमयपत्रैरलङ्कृतम् ॥ २६३ ॥