SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 390 २१४ ॥ पौरस्थानीयदेवानामन्येषामप्यनेकशः । स्वस्वपुण्यानुसारेण, प्रासादाः सन्ति शोभनाः ॥ २१० ॥ तत एव विमानास्ते, शृङ्गाटकैरलङ्कृताः । त्रिकैश्चतुष्कैरपि च चत्वरैश्च चतुष्पथैः ॥ २११ ॥ चतुर्मुखैरपि महापथैः समन्ततोऽञ्चिताः 1 प्राकाराट्टालकवरचरिकाद्धारतोरणैः ॥ २१२ ॥ पूर्वोक्तमूलप्रासादादथैशान्यां भवेदिह । सभा सुधर्मा तिसृषु, दिक्षु द्वारैस्त्रिभिर्युताः ॥ २१३ ॥ प्राच्यां याम्यामुदीच्यां च भान्ति द्वाराणि तान्यपि । अष्टभिर्मङ्गलैश्छत्रैर्विराजन्ते ध्वजादिभिः ॥ प्रतिद्वारमथैकैको, विभाति मुखमण्डपः । त्रिभिर्दारैर्युतः सोऽपि, सभावद्रम्यभूतलः ॥ २१५ ॥ प्रतिद्वारमथ मुखमण्डपानां पुरः स्फुरन् । प्रेक्षागृहमण्डपः स्यात्त्रिद्वारः सोऽपि पूर्ववत् ॥ २१६ ॥ प्रेक्षागृह मण्डपानां मध्ये वज्राक्षपाटकः । सिंहासनान्विता तत्र, प्रत्येकं मणिपीठिका ॥ २१७ ॥ प्रतिद्वारं तथा प्रेक्षागृहमण्डपतः पुरः । मध्ये चैत्यस्तूपयुक्ताश्चतस्रो मणिपीठिका: ।। २१८ ॥ प्रतिद्वारमथैतेभ्यः, स्तूपेभ्यः स्युश्चतुर्दिशम् । एकैका पीठिका स्तूपाभिमुखप्रतिमाञ्चिता ॥ २१९ ॥ तेषां च चैत्यस्तूपानां, पुरतो मणिपीठिका । प्रतिद्वारं चैत्यवृक्षस्तत्र नानाद्रुमान्वितः ॥ २२० ॥ चैत्यवृक्षेभ्यश्च तेभ्यः, पुरतो मणिपीठिका । प्रतिद्वारं भवेत्तत्र, महेन्द्रध्वज उच्छ्रितः ॥ २२१ ॥ पञ्चवर्णह्रस्वकेतुसहस्रालङ्कृतः स च । छत्रातिच्छत्रकलितस्तुझे गगनमुल्लिखन् ॥ २२२ ॥ तस्यां सौधर्म्यं सभायां स्युर्मनोगुलिकाभिधाः । सहस्राण्यष्टचत्वारिंशद्रत्नमयपीठिकाः ॥ २२३ ॥ प्राक्प्रतीच्योः सहस्राणि तत्र षोडश षोडश । अष्टाष्ट च सहस्राणि, दक्षिणोत्तरयोर्दिशोः ॥ २२४ ॥ स्वर्णरूप्यमयास्तासु, फलका नागदन्तकैः । माल्यदामाञ्चितैर्युक्ताः, स्युर्गोमानसिका अपि ॥ २२५ ॥ तथैव तावत्य एव, शय्यारूपास्त्विमा इह । फलका नागदन्ताढ्या, घट्यो धूपस्य तेषु च तस्या: सौधर्म्याः सभाया, मध्ये च मणिपीठिका । उपर्यस्या माणवकश्चैत्यस्तम्भो भवेन्महान् ॥ २२७ ॥ तुङ्गः षष्टिं योजनानि, विस्तृतश्चैकयोजनम् । एकं योजनमुद्धिद्धः, शुद्धरत्नप्रभोद्भटः ॥ २२८ ॥ उपर्यधो योजनानि, द्वादश द्वादश ध्रुवम् । वर्जयित्वा मध्यदेशे, रैरूप्यफलकाञ्चितः ॥ २२९ ॥ फलकास्ते वज्रमयनागदन्तैरलङ्कृताः । तेषु सिक्यकविन्यस्ता, वज्रजाताः समुद्गकाः ॥ २३० ॥ एतेषु चार्हत्सक्धीनि निक्षिपन्त्यसकृत्सुराः । प्राच्यानि च विलीयन्ते, कालस्य परिपाकतः ॥ २३१ ॥ विमानस्वामिनामेतान्यन्येषामपि नाकिनाम् । दैवतं मङ्गलं चैत्यमिव पूज्यानिं भक्तितः ॥ २३२ ॥ एतत्प्रक्षालनजलाभिषेकेण क्षणादपि । क्लेशावेशादिका दोषा, विलीयन्ते सुधाभुजाम् ॥ २३३ ॥ एषामाशातनाभीताः, सभायामिह निर्जराः न सेवन्ते निधुवनक्रीडां व्रीडां गता इव ॥ २३४ ॥ चैत्यस्तम्भादितः प्राच्यां, स्याद्रत्नपीठिकाऽत्र च । विमानस्वामिन: सिंहासनं परिच्छदान्वितम् ॥ २३५ ॥ तस्यैव चैत्यस्तम्भस्य, प्रतीच्यां मणिपीठिका । विमानस्वामिनो योग्यं, शयनीयं भवेदिह ॥ २३६ ॥ ॥ २२६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy