________________
389
उक्तं च- “गृहस्थानां स्मृता राज्ञामुपकार्योपकारिके"ति । परितस्तां पद्मवरवेदिका स्यादनाञ्चिता । गवाक्षजालाकृतिना, रत्नजालेन राजिता ॥ १९२ ॥ तथासौ किङ्किणीजालैमणिमुक्तादिजालकैः । घण्टाजालैः स्वर्णजालैः, परिक्षिप्ताऽब्जजालकैः ॥ १९३ ॥ चतुर्दिशं त्रिसोपानप्रतिरूपकमञ्जुला । ध्वजतोरणसच्छत्रातिच्छत्राढ्यानि तान्यपि ॥ १९४ ॥ मध्ये स्यादुपकार्याया, विमानस्वामिनो महान् । योजनानां शतान् पञ्चोत्तुङ्गः प्रासादशेखरः ॥ १९५ ॥ मूलप्रासादात्समन्तात्, स्युः प्रासादावतंसका: । चत्वारो द्वे शते साढे, योजनानां समुच्छ्रिताः ॥ १९६ ॥ तेषां चतुर्णां प्रत्येकं, चत्वारो ये चतुर्दिशम् । प्रासादास्ते योजनानां, शतं सपादमुच्छ्रिताः ॥ १९७ ॥ प्रत्येकमेषां चत्वारः, प्रासादा ये चतुर्दिशम् । दाषष्टि ते योजनानामढ्यर्ली स्युः समुच्छ्रिताः ॥ १९८ ॥ एषामपि परिवारप्रासादास्ते चतुर्दिशम् । योजनानां स्युः सपादामेकत्रिंशतमुच्छ्रिताः ॥ १९९ ॥ तेषामपि परिवारप्रासादाः स्युः समुच्छ्रिता: । योजनानि पञ्चदश, सार्द्ध क्रोशद्धयं तथा ॥ २००॥ सर्वेऽप्यमी स्युः प्रासादा, निजोच्चत्वार्द्धविस्तृताः । एवं च पञ्च प्रासादपरिपाट्यः प्रकीर्तिताः ॥ २०१॥ एकैकस्यां च दिश्येकचत्वारिंशं शतत्रयम् । त्रयोदश शताः पञ्चषष्ट्याढ्याः सर्वसंख्यया ॥ २० ॥ राजप्रश्नीयटीकाया, अभिप्रायोऽयमीरितः । तत्सूत्रे तु तिन एव, परीपाट्यः प्ररूपिताः ॥ २०३॥ पञ्चाशीतिरमी सूत्रमते तु सर्वसंख्यया । सूत्रवृत्त्योर्विसंवादे, निदानं वेद तत्त्ववित् ॥ २०४ ॥ पञ्चमाङ्गे द्वितीयस्य, शतस्योद्देशकेऽष्टमे । वृत्तौ चततः प्रासादपरिपाट्यः प्ररूपिताः ॥ २०५॥
एवं चात्र मतत्रयं । विचारसप्ततौ तु महेन्द्रसूरिभिरेवमुक्तं- “ओआरिअलयणंमी, पहुओ पणसीइ हुंति पासाया । तिसय इगचत्त कत्थइ, कत्थइ पणसट्ठी तेस्सयं ॥ पणसीई इगवीसा, पणसी पुण एगचत्त तिसईए । तेरससय पणसट्ठी, तिसई इगचत्त पइककुहं” ॥ [श्लोक. ३०, ३४]
"विमानेषु प्रथमं प्राकारस्तस्य सर्वमध्ये उपरिकालयनं पीठिकेत्यर्थः, तस्यां सर्वमध्ये प्रभोः पञ्चाशीतिः प्रासादाः, कुत्रापि विमानस्योपरिकालयने एकचत्वारिंशदधिकानि त्रीणि शतानि प्रासादाः, कुत्रापि पञ्चषष्ट्यधिकानि त्रयोदश शतानि प्रासादाः, एवं भेदत्रयमेवेति"
विचारसप्ततिकावचूरौ । [श्लो. ३० वृत्तौ] एवं च-अन्यस्वर्गेष्वपि मूलप्रासादोन्नत्यपेक्षया । अर्द्धार्द्धमानः प्रासादपरिवारो विभाव्यताम् ॥ २०६ ॥ अमी समग्राः प्रासादा, वैडूर्यस्तम्भशोभिताः । उत्तुङतोरणा रत्नपीठिकाबन्धबन्धुराः ॥२०७ ॥ विमानस्वामिसंभोग्यरत्नसिंहासनाञ्चिताः । यथार्ह तत्परिवारसुरभद्रासनैरपि ॥२०८ ॥ एवं सामानिकादीनामपि संपत्तिशालिनाम् । रम्या भवन्ति प्रासादा, स्वर्णरत्नविनिर्मिताः ॥ २०९ ॥ १ आदर्शानां वैचित्र्यात् भेदे नासंभवः, एवं भवने प्रासादपतिविषयोऽपि भेदस्तत एव सुसंभवः अनुयोगनवमाङ्गायोपाङ्गादिवृत्त्यवलोककानां मात्र चित्रं । यद्धा विचारसप्ततौ कत्थइ कत्थईत्युलेखात् विविधेषु विमानेषु विविधा प्रासादपरिपाटी ।