________________
385
चतुर्दारसहस्राढ्या, दारमेकैकमुच्छ्रितम् । योजनानां पञ्चशती, साढे द्वे च शते ततम् ॥ १८ ॥ चक्र मृग गरुडच्छित्र लसपिच्छ शकुनि सिंह वृषाः । अपि च त चतुईन्तगजा: आलेख्यैरेभिरतिरम्या: ॥ ९९ ॥ प्रत्येकं शतमष्टाधिकमेते केतवो विराजन्ते । साशीतिसहस्रं ते, सर्वेऽप्यत्र प्रतिद्वारम् ॥ १०० ॥ शेषं द्वावर्णनं च, श्रीसूर्याभविमानवत् । राजप्रश्नीयतो ज्ञेयं, नात्रोक्तं विस्तृतेर्भयात् ॥ १०१ ॥ विस्तृतानि योजनार्द्धमायतान्येकयोजनम् । प्राकारकपिशीर्षाणि, नानामणिमयानि च ॥ १०२ ॥ प्रासादास्तेषु देवानां, सन्ति रत्नविनिर्मिताः । तत्रैतयोस्ताविषयोर्विमानानां वसुन्धरा ॥ १०३ ॥ योजनानां शता: सप्तविंशतिः पिण्डतो भवेत् । प्रासादाश्च तदुपरि, प्रोक्ताः पञ्चशतोन्नताः ॥ १०४ ॥ इदमुच्चत्वमानं तु, मूलप्रासादगोचरम् । प्रासादपरिपाट्यस्तु, तदर्धार्द्धमिता मताः ॥ १०५ ॥ एवं च पृथ्वीपिण्डेन, सह द्वात्रिंशदेव हि । शतानि तुङ्गत्वमिह, प्रासादशिखरावधि ॥ १०६ ॥ एवं सर्वत्र भूपीठप्रासादौन्नत्ययोजनात् । द्वात्रिंशद्योजनशता, विमानोच्चत्वमूह्यताम् ॥ १०७ ॥ भूपीठस्य च बाहल्यं, प्रासादानां च तुड़ता । पृथक् पृथक् यथास्थानं, सर्वस्वर्गेषु वक्ष्यते ॥ १०८ ॥ विष्कम्भायामतस्त्वत्र, विमाना: कथिता द्विधा । संख्येयैोजनैः केचिदसंख्येयैर्मिता: परे ॥ १०९॥ व्यासायामपरिक्षेपाः, संख्येयैर्योजनैर्मिताः । आद्यानामपरेषां तेऽसंख्येयैर्योजनैर्मिताः ॥ ११० ॥ स्वर्गयोरेनयोस्तत्र, प्रथमप्रतरेऽस्ति यत् । उडुनामैन्द्रकं व्यासायामतस्तत्प्रकीर्तितम् ॥ १११ ॥ योजनानां पञ्चचत्वारिंशल्लक्षाणि सर्वतः । परिधिस्त्वस्य मनुजक्षेत्रस्येव विभाव्यतां ॥ ११२ ॥ एवं च-सिद्धक्षेत्रमुडुनामैन्द्रकं नृक्षेत्रमेव च । सीमन्तो नरकावासश्चत्वारः सदृशा इमे ॥ ११३ ॥ व्यासायामपरिक्षेपैरुपर्युपरि संस्थिताः । दृष्टाः केवलिभिर्ज्ञानदृष्टिदृष्टत्रिविष्टपैः ॥ ११४ ॥ अन्येषां तु विमानानां, केषाञ्चिन्नाकयोरिह । व्यासायामपरिक्षेपमानमेवं निरूपितम् ॥ ११५ ॥ जम्बूद्वीपं प्रोक्तरूपं, यया गत्यैकविंशतिम् । वारान् प्रदक्षिणीकुर्यात्सुरश्चप्पुटिकात्रयात् ॥ ११६ ॥ षण्मासान् यावदुत्कर्षात्, तया गत्या प्रसर्पति । कानिचित्स विमानानि, व्यतिव्रजति वा न वा ॥ ११७ ॥ अथापरप्रकारेण, विमानमानमुच्यते । सौधर्मादिषु नाकेषु, यथोक्तं पूर्वसूरिभिः ॥ ११८ ॥ कर्क संक्रान्तिघने यदुदयास्तान्तरं रवेः । योजनानां सहस्राणि, चतुर्नवतिरीरितम् ॥ ११९ ॥ षड्विंशाश्च पञ्चशताः, एकस्य योजनस्य च । षष्टिभागा द्विचत्वारिंशदस्मिस्त्रिगुणीकृते ॥ १२० ॥ लक्षद्वयं योजनानां, त्र्यशीतिश्च सहसकाः । साशीतयः शताः पञ्च, षष्ट्यंशाः षट् सुरक्रमः ॥ १२१ ॥ सूर्योदयास्तान्तरेऽथ, प्रागुक्ते पञ्चभिर्हते । पूर्वादितात्क्रमात्प्रौढः, क्रमो दिव्यो भवेत्परः ॥ १२२ ॥ स चायंचतुर्लक्षी योजनानां, द्विसप्ततिः सहस्रका: । षट्शती च त्रयस्त्रिंशा, षष्ट्यंशास्त्रिंशदेव च ॥ १२३ ॥