SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ 383 अस्मिन् सर्वसंख्यया तु, द्वे शते षोडशाधिके । दशमे प्रतिपङ्क्त्यष्टादश त्रिचतुरस्रकाः ॥ ५६ ॥ वृत्ता: सप्तदशेत्येवं, विमानाः पङ्क्तिवर्त्तिनः । द्विशती द्वादशोपेता, सर्वाग्रेण भवन्त्यमी ॥ ५७ ॥ एकादशेऽथ प्रतरे, त्र्यस्रा अष्टादशोदिता: । चतुरस्रा: सप्तदश, वृत्तास्तावन्त एव च ॥ ५८ ॥ द्विशत्यष्टाधिका सर्वसंख्यया द्वादशेऽथ च । पङ्क्तौ पङ्क्तौ सप्तदशप्रमितस्त्रिविधा अपि ॥ ५९ ॥ द्विशती चतुरधिका, स्युस्तत्र सर्वसंख्यया । त्रयोदशे प्रस्तटेऽथ, वृत्ता भवन्ति षोडश ॥ ६० ॥ त्रिचतुष्कोणकाः सप्तदश सर्वे शतद्वयम् । सौधर्मेशानयोरेवं, स्वर्गयोः सर्वसंख्यया ॥ ६१ ॥ द्विपञ्चाशदधिकानि, शतानि नव वृत्तकाः । त्रिकोणानां नव शतान्यष्टाशीत्यधिकानि च ॥ ६२ ॥ चतुष्कोणा द्विसप्तत्याऽधिका नवशतीति च । सह संकलिता एते, त्रयोदशभिरिन्द्रकैः ॥ ६३ ॥ सर्वसंख्या पङ्क्तिगतविमानानां भवेदिह । द्वौ सहस्रौ नवशताधिकौ सपञ्चविंशती ॥ ६४ ॥ चतसृणां च पूर्वोक्तपङ्क्तीनामन्तरेष्विह । सर्वेष्वपि प्रस्तटेषु, प्राचीमेकां दिशं विना ॥ ६५ ॥ पुष्पावकीर्णकाः सन्ति, विमाना विलसद्रुचः । सौधर्मेशानयुगले, भवन्ति सर्वसंख्यया ॥ ६६ ॥ एकोनषष्टिर्लक्षाणि ते सप्तनवतिस्तथा । सहस्राणि तदुपरि, केवला पञ्चसप्ततिः ॥ ६७ ॥ निर्व्यवस्थाः स्थिता एते, विकीर्णपुष्पपुञ्जवत् । इतस्ततस्तत: पुष्पावकीर्णा इति विश्रुताः ॥ ६८ ॥ प्रतिप्रतरमेतेषां पङ्क्तिप्राप्तविमानवत् । संख्या पुष्पावकीर्णानां न पृथक् क्वापि लभ्यते ॥ ६९ ॥ पङ्क्तिपुष्पावकीर्णाश्च, सर्वे संकलिताः पुनः । सौधर्मेशानयोः षष्टिर्लक्षाणि स्युर्विमानकाः ॥ ७० ॥ द्वात्रिंशत्तत्र लक्षाणि, सौधर्मस्य भवन्त्यमी । लक्षाण्यष्टाविंशतिश्च स्युरीशानत्रिविष्टपे ॥ ७१ ॥ अथैतयोर्वासवयोः, संबन्धीनि पृथक् पृथक् । पाङ्क्तेयानि विमानानि, प्रोक्तान्येवं पुरातनैः ॥ ७२ ॥ तथाहुस्तपागच्छपतयः श्री रत्नशेखरसूरयः श्राद्धविधिवृत्तौ — “दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ पूर्वस्यामपरस्यां च वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च, स्युः सौधर्मसुरेशितुः ॥ पूर्वापरदिशोस्त्र्यस्राश्चतुरस्राश्च ते पुनः । सौधर्माधिपतेर्द्धा, अर्द्धा ईशानचक्रिणः " ॥ [ प्रका- १. श्लो. ८ टीकायां कथानके श्लो. ७१८, ७१९, ७२०] संग्रहणीवृत्तावपि — “जे दाहिणेण इंदा, दाहिणओ आवली भवे तेसिं । जे पुण उत्तर इंदा, उत्तरओ आवली तेसिं ॥ पुवेण पच्छिमेण य, सामन्ना आवली भवे तेसिं । जे पुण वट्टविमाणा, मझिल्ला दाहिणिल्लाणं ॥ पुव्वेण पच्छिमेण य, जे वट्टा तेऽवि दाहिणिल्लाणं । तंसचउरंसगा पुण, सामन्ना हुंति दुण्हंपि ॥ [ गाथा - १०३, १०४, १०५ ] प्रत्येकं त्वथ सौधर्मेशानयोर्देवलोकयोः । वृत्तादीनां पङ्क्तिगानां संख्यैवं गदिता श्रुते ॥ ७३ ॥ सप्तविंशा सप्तशती, वृत्तानां प्रथमे भवेत् । त्रिकोणानामथ चतुर्नवत्याढ्या चतुःशती ॥ ७४ ॥ चतुष्कोणानां च चतुःशत्येव षडशीतियुक् । शतान्येवं सप्तदश, सप्तोत्तराणि पङ्क्तिगाः ॥ ७५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy