________________
382
२
५ ६ ७ ८ ९ १० ११ १२
प्रतरेषु च सर्वेषु, स्युर्विमाना: किलेन्द्रकाः । वृत्तास्तेभ्योऽनन्तरं च संस्थिता ये चतुर्दिशम् ॥ ३१ ॥ ते त्रिकोणाः प्रतिपङ्क्ति, त्रिकोणानन्तरं पुनः । चतुरस्रा विमानाः स्युस्तेभ्यः पुनरनन्तरम् ॥ ३२ ॥ वृत्ता विमानास्तेभ्योऽपि, पुनस्त्र्यस्रास्ततः पुनः । चतुरस्राः पुनर्वृत्ताः पङ्क्तिरेवं समाप्यते ॥ ३३ ॥ वृत्तत्र्यस्रचतुरस्रा, अग्रिमप्रतरेष्वपि 1 ज्ञेयाः क्रमेणानेनैवानुत्तरप्रतरावधि ॥ ३४ ॥ यदुक्तं - “ सव्वेसु पत्थडेसुं, मज्झे वट्टं अणंतरं तंसं । तयणंतरं चउरंसं पुणोवि वट्टं तओ तंसं” ॥ अधस्तनप्रस्तटेषु, ये ये वृत्तादयः स्थिताः । तेषामूर्ध्वसमश्रेण्या, सर्वेषु प्रतरेष्वपि ॥ ३५ ॥ वृत्तास्त्र्यस्राश्चतुरस्रा, विमानाः संस्थिताः समे । तत एवानुत्तराख्ये, प्रस्तटे स्युश्चतुर्दिशम् ॥ ३६ ॥ विमानानि त्रिकोणानि, वृत्तान्मध्यस्थितेन्द्रकात् । त्रिकोणान्येव सर्वासु, यद्भवन्तीह पङ्क्तिषु ॥ ३७ ॥ यदाह – “ वट्टं वट्टस्सुवरिं, तंसं तंसस्स उप्परिं होइ । चउरंसे चउरंसं उड्ढं च विमाणसेढीओ” ॥ [ बृहत्संग्रहणी गा. ९७ ] द्वाषष्टि रेकषष्टिश्च षष्टि रेकोनषष्टकिः । तथाऽष्ट सप्त षट् पञ्च चतु सि द्वये ककाधिकाः ॥ ३८ ॥ पञ्चाशदथ पञ्चाश त्सौधर्मेशानयोः क्रमात् । प्रतरेषु विमानानां पङ्क्तौ पङ्क्तौ मितिर्मता ॥ ३९ ॥ स्वस्वपङ्क्तिविमानानि, विभक्तानि त्रिभिस्त्रिभिः । त्र्यस्राणि चतुरस्राणि वृत्तानि स्युर्यथाक्रमम् ॥ ४० ॥ त्रिभिर्विभागे शेषं चेदेकमुद्धरितं भवेत् । क्षेप्यं त्र्यसेऽथ शेषे द्वे, ते त्र्यत्रचतुरस्रयोः ॥ ४१ ॥ प्रतिपङ्क्यत्र वक्ष्यन्ते, वृत्तत्रिचतुरस्रका: । चतुर्गुणास्ते प्रतरे, प्रतरे सर्वसंख्यया ॥ ४२ ॥ त्र्यस्राणि चतुरस्राणि प्रतिपङ्क्त्येकविंशतिः । प्रथमप्रस्तटे वृत्तविमानानि च विंशतिः ॥ ४३ ॥ प्रथमप्रतरे पङ्क्तिविमानाः सर्वसंख्यया । अष्टाचत्वारिंशतैवमधिकं शतयोर्द्धयम् ॥ ४४ ॥ द्वितीयप्रतरे पङ्क्तौ, पङ्क्तौ त्र्यस्रा विमानका: । एकविंशतिरन्ये च विंशतिर्विंशतिः पृथक् ॥ ४५ ॥ चतुश्चत्वारिंशमेवं, विमानानां शतद्वयम् । द्वितीयप्रतरे पङ्क्तिगतानां सर्वसंख्यया ॥ ४६ ॥ तार्त्तीयके प्रस्तटे तु चतसृष्वपि पङ्क्तिषु । वृत्तत्र्यसचतुरस्रा, विमाना विंशतिः पृथक् ॥ ४७ ॥ चत्वारिंशत्समधिके, द्वे शते सर्वसंख्यया । प्रतरे ऽथ तुरीयेऽपि, निखिलास्वपि पङ्क्तिषु ॥ ४८ ॥ एकोनविंशतिर्वृत्तास्त्र्यस्राश्च चतुरस्रका: । विंशतिर्विंशतिः सर्वे ते षट्त्रिंशं शतद्वयम् ॥ ४९ ॥ पञ्चमे च प्रतिपङ्क्ति, त्रिकोणाः किल विंशतिः । चतुरस्राश्च वृत्ताश्च पृथगेकोनविंशतिः ॥ ५० ॥ शतद्वयं च द्वात्रिंशमस्मिंस्ते सर्वसंख्यया । षष्ठे च प्रतिपङ्क्तयेते, त्रयेऽप्येकोनविंशतिः ॥ ५१ ॥ अष्टाविंशे द्वे शते चास्मिन्नमी सर्वसंख्यया । पङ्क्तौ पङ्क्तौ सप्तमे तु, वृत्ता अष्टादश स्मृताः ॥ ५२ ॥ एकोनविंशतिस्त्र्यस्राश्चतुरस्राश्च तत्र च । सर्वाग्रेण विमानानां चतुर्विंशं शतद्वयम् ॥ ५३॥ प्रतिपङ्क्यष्टमे त्र्यस्रा:, प्रोक्ता एकोनविंशतिः । वृत्ताश्च चतुरस्राश्चाष्टादशाष्टादश स्फुटम् ॥ ५४ ॥ विंशं शतद्वयं सर्वसंख्यया भवन्ति ते । नवमे प्रतिपङक्येते, त्रिधाप्यष्टादशोदिताः ॥ ५५ ॥