SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ 377 कहमियाणिं पकरेंति ?” इत्यादि । ज्योतिष्काः पञ्चघाऽप्येते, देवाश्चन्द्रार्यमादयः । विशिष्टवस्त्राभरणकिरणोज्ज्वलभूधनाः ॥ १३७ ॥ नानानूत्नरत्नशालिमौलिमण्डितमौलयः । सौन्दर्यलक्ष्मीकलिता, द्योतन्ते ललितद्युतः ॥ १३८ ॥ तत्र चन्द्रमसः सर्वे, प्रभामण्डलसन्निभम् । मुकुटाग्रे दधत्यक्षं, सच्चन्द्रमण्डलाकृतिम् ॥ १३९ ॥ सूर्यास्तु चिह्न दधति, मुकुटाग्रप्रतिष्ठितम् । विवस्वन्मण्डलाकारं, प्रभाया इव मण्डलम् ॥ १४० ॥ एवं स्वस्वमण्डलानुकारिचिह्नाढ्यमौलयः । शीतोग्रभानुवज्ज्ञेया, ग्रहनक्षत्रतारकाः ॥ १४१ ॥ तथा च तत्त्वार्थभाष्यम्-"मुकुटेषु शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैरुज्ज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारामण्डलैर्यथास्वं चिह्नर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्ती” ति, अत्र शिरोमुकुटोपगूहिभिरिति मुकुटाग्रभागवर्तिभिरिति । [चतुर्थोऽध्याय सूत्र. १३] ग्रन्थान्तरे पुनरुक्तमेते चन्द्रार्यमादयः । स्वनामाङ्कप्रकटितं, मुकुटं मूर्जि बिभ्रति ॥ १४२ ॥ तथोक्तं जीवाभिगमवृत्तौ – “सर्वेऽपि प्रत्येकं नामाड्न प्रकटितं चिह्न मुकुटे येषां ते तथा, किमुक्तं भवति ? - चन्द्रस्य मुकुटे चन्द्रमण्डलं लाञ्छनं स्वनामाङ्कप्रकटितं, सूर्यस्य सूर्यमण्डलं, ग्रहस्य ग्रहमण्डल” मित्यादि, प्रज्ञापनायामपि, ‘पत्तेयनामंकपायडियचिंधमउडा' इति । उत्तप्तस्वर्णवर्णाङ्गा, सर्व ज्योतिषिकामराः । पञ्चवर्णाः पुनरमी, तारकाः परिकीर्तिताः ॥ १४३ ॥ सर्वेभ्योऽल्पर्द्धयस्तारास्तेभ्यो नक्षत्रनिर्जराः । महर्टिका ग्रहास्तेभ्यो, भवन्ति प्रचुरर्द्धयः ॥ १४४ ॥ ग्रहेभ्योऽपि विवस्वन्तो, महर्टिकास्ततोऽपि च । ज्योतिश्चक्रस्य राजानो, राजानोऽधिकऋद्धयः ॥ १४५ ॥ चतस्रोऽग्रमहिष्यः स्युः, शीतांशोस्ताश्च नामतः । चन्द्रप्रभा च ज्योत्स्नाभाऽथाचिर्माली प्रभङ्करा ॥ १४६ ॥ साम्प्रतं तुएता: पूर्वभवेऽरक्षुपुर्यां वृद्धकुमारिकाः । चन्द्रप्रभादीस्वाख्यानुरुपाख्यापितृकाः स्मृताः ॥ १४७ ॥ चन्द्रश्रीप्रभृतिस्वाख्यातुल्याख्यमातृकाः क्रमात् । पुष्पचूलार्यिकाशिष्याः, श्रीपार्थात् प्राप्तसंयमाः ॥ १४८ ॥ किञ्चिद्धिराध्य चारित्रमप्रतिक्रम्य पाक्षिकीम् । कृत्वा संलेखनां मृत्वा, विमाने चन्द्रनामनि ॥ १४९ ॥ चन्द्राग्रमहिषीत्वेनोत्पन्नाः सिंहासनेषु च । भान्ति स्वाख्यासमाख्येषु, भर्तृस्थित्यर्द्धजीविताः ॥ १५० ॥ सूर्याग्रहमहिषीणामप्येवं चरितमूह्यताम् । किन्तु ता मथुरापुर्यामभूवन् पूर्वजन्मनि ॥ १५१ ॥ एकैकस्या: पट्टदेव्याः, परिवार: पृथक् पृथक् । चत्वायैव सहस्राणि, देवीनामुत्कटत्विषाम् ॥ १५२ ॥ एवमुक्तप्रकारेण, सपूर्वापरमीलने । स्युः पत्नीनां सहस्राणि, षोडशानुष्णरोचिषः ॥ १५३ ॥ तथैकैकाऽग्रमहिषी, प्रागुक्ता शीतरोचिषः । भर्तुस्तथाविधामिच्छामुपलभ्य रतक्षणे ॥ १५४ ॥ विलासहासललितान् , सलीलादभ्रविभ्रमान् । देवीसहस्रांश्चतुरः, स्वात्मतुल्यान् विकुर्बयेत् ॥ १५५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy