SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 376 छत्रातिच्छत्रकोपेता:, स्वर्णरत्नविनिर्मितैः । स्तूपिकाशिखरैः शस्ताः, सुखस्पर्शाः समन्ततः ॥ ११३ ॥ विकस्वरैः शतपत्रैः, पुण्डरीकैश्च पुण्ड्रकैः । रत्नार्द्धचन्द्र रम्याश्च, विविधैर्मणिदामभिः ॥ ११४ ॥ अन्तर्बहिस्तपनीयवालुकाप्रस्तटोद्भटाः । रत्नस्तम्भशतोदञ्चन्मरीचिचक्रचारवः ॥११५ ॥ तत्र स्वस्वविमानेषु, स्वस्वोत्पादास्पदेषु च । उत्पद्यन्ते ज्योतिषिकाः, स्वस्वपुण्यानुसारतः ॥ ११६ ॥ ज्योतिश्चक्राधिपौ तत्र, महान्तौ शशिभास्करौ । सामानिकसहस्राणां, चतुर्णामात्मरक्षिणाम् ॥ ११७ ॥ षोडशानां सहस्राणां, पर्षदां तिसृणामपि । सेनापतीनां सप्तानां, सैन्यानामपि तावताम् ॥ ११८ ॥ तथा सपरिवाराणां, महिषीणां चतसृणाम् । ज्योतिर्विमानकोटीनामीशाते पुण्यशालिनौ ॥ ११९ ॥ सभायामभ्यन्तरायामेतयोः सन्ति नाकिनाम् । अष्टौ सहस्राणि पल्योपमार्द्धस्थितिशालिनाम् ॥ १२० ॥ निर्जराणां सहस्राणि, दश मध्यमपर्षदि । न्यूनपल्योपमा युःशालिनां गुणमालिनाम् ॥ १२१ ॥ द्वादशाथ सहस्राणि, देवानां बाह्यपर्षदि । सातिरेकपल्यचतुर्विभागस्थितिधारिणाम् ॥ १२२ ॥ देवीनां शतमेकैकं, पर्षत्स्वस्ति तिसृष्वपि । तासां स्थिति: क्रमात्पल्योपमतुर्यलवोऽधिकः ॥ १२३ ॥ एष एव परिपूर्णा, देशन्यूनोऽयमेव च । इयं च जीवाभिगमातिदिष्टाऽऽसां स्थितिः किल ॥ १२४ ॥ जम्बूद्वीपप्रज्ञप्तिसूत्रसङ्ग्रहण्याद्यभिप्रायेण तु चन्द्रसूर्यविमानेषु जघन्यतोऽपि पल्योपमचतुर्थभाग एव रिशतिः किल उक्तेति ज्ञेयम् ॥ तुम्बा च त्रुटिता पर्वाभिधा एता भवन्त्यथ । सूर्येन्द्रोः सामानिकानां, स्त्रीणामपि सभा इमाः ॥ १२५ ॥ ननु पर्षत्रयं सर्वसुरेन्द्राणां निरूप्यते । विशेषस्तत्र क इवान्तर्मध्यबाह्यपर्षदाम् ! ॥ १२६ ॥ अत्र ब्रूमः-शीघ्रमभ्यन्तरा पर्षदाहूतोपैति नान्यथा । प्रभोराकारणारूपं, गौरवं सा यतोऽर्हति ॥ १२७ ॥ मध्यमा पर्षदाहूताऽनाहूताऽप्युपसर्पति । सा मध्यमप्रतिपत्तिविषया यदधीशितुः ॥ १२८ ॥ अनाहूतैव बाह्या तु, पर्षदायाति सत्वरम् । कदापि नायकाहानगौरवं सा हि नार्हति ॥ १२९ ॥ यद्धोत्पन्ने कार्यजाते, प्रागालोचयति प्रभुः । यया स्फीतधिया संसत्, साऽभ्यन्तरा सगौरवा ॥ १३० ॥ निर्णीतमेतदस्माभिः, कृते चास्मिन्नयं गुणः । एतच्च नैव कर्त्तव्यं, दोषोऽस्मिन् विहिते ह्ययम् ॥ १३१ ॥ इत्थमालोचितं पूर्वं, यया सह प्रपञ्चयेत् । गुणदोषोद्भावनात्सा, मध्यमा नातिगौरवा ॥ १३२ ॥ आलोचनागौरवात्तु, बाह्या बाह्या भवेत्सभा । कर्त्तव्यमेतद्युष्माभिरित्याज्ञामेव सार्हति ॥ १३३ ॥ च्युते चन्द्रेऽथवा भानौ, यावन्नोत्पद्यतेऽपरः । तावदिन्द्रविरहिते, काले तत्स्थानकस्थितिम् ॥ १३४ ॥ सामानिकाः समुदिताश्चत्वारः पञ्च चोत्तमाः । पालयन्ति राज्यमिव, शून्यं प्रधानपुरुषाः ॥ १३५ ॥ इन्द्रशून्यश्च काल: स्याज्जघन्यः समयावधिः । उत्कर्षतश्च षण्मासानित्युक्तं सर्वदर्शिभिः ॥ १३६ ॥ तथोक्तं जीवाभिगमसूत्रे जंबूदीपप्रज्ञप्तिसूत्रेऽपि - "तेसि णं भंते ! देवाणं इंदे चुए से
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy