________________
375
विशेषस्त्वेष तत्रापि, सर्वाल्पगतयो बुधाः। तेभ्यः शुक्रा: शीघ्रतरास्तेभ्योऽपि क्षितिसूनवः ॥ ९१ ॥ प्रकृष्टगतयस्तेभ्यः, सुराचार्यास्ततोऽपि हि । ख्याताः शनैश्चराः क्षिप्रगतयस्तत्त्ववेदिभिः ॥ ९२ ॥ तेभ्यस्त्वरितयायीनि, नक्षत्राणि ततोऽपि च । तारकाः क्षिप्रगतयो, निर्दिष्टा: स्पष्टदृष्टिभिः ॥ ९३ ॥ सर्वेभ्योऽप्येवमल्पिष्ठगतयोऽमृतमानवः । सर्वेभ्यः क्षिप्रगतयस्तारकाः परिकीर्तिताः ॥ ९४ ॥ जम्बूदीपेऽथ ताराणामेषां बेधा मिथोऽन्तरम् । निर्व्याघातिकमित्येकं, परं व्याघातसम्भवम् ॥ १५ ॥ तत्र मध्यस्थशैलादिव्यवधायकनिर्मितम् । व्याघातिकमन्तरं स्याद्वितीयं तु स्वभावजम् ॥ ९६ ॥ स्याद् द्विधैकैकमप्येतज्जधन्योत्कृष्ट:भेदतः । एवं चतुर्विद्यं ताराविमानानां मिथोऽन्तरम् ॥ ९७ ॥ तत्र चशतानि पञ्च धनुषां, स्वाभाविकं जघन्यतः । उत्कर्षतो वे गव्यूते, जगत्स्वाभाव्यतस्तथा ॥ ९८ ॥ जघन्यतो योजनानां, सषट्षष्टि शतद्धयम् । व्याघातिकमन्तरं स्याद्भावना तत्र दर्श्यते ॥ ९९ ॥ चत्वारि योजनशतान्युत्तुङ्गो निषधाचल: । कूटान्यस्योपरि पञ्चशततुङ्गानि तानि च ॥ १०० ॥ विष्कम्भायामत: पञ्च, योजनानां शतान्यधः । मध्यदेशे पुनः पञ्चसप्तत्याढ्यं शतत्रयम् ॥ १०१ ॥ उपर्यर्द्धतृतीयानि, शतान्यथ स्वभावतः । विमुच्य योजनान्यष्टाष्टैतेषां पार्श्वयोर्द्धयोः ॥ १०२ ॥ परिभ्रमन्ति ताराणां, विमानानि भवेत्ततः । तेषां प्रागुदितं व्याघातिकं जघन्यमन्तरम् ॥ १०३ ॥ योजनानां सहस्राणि, द्वादश द्वे शते तथा । द्विचत्वारिंशदधिके, ज्येष्ठं व्याघातिकान्तरम् ॥ १०४ ॥ एतत्ताराविमानानां, स्यान्मेरौ व्यवधायके । यद्योजनसहस्राणि, दशासौ विस्तृतायत: ॥ १०५ ॥ एकादश शतान्येकविंशान्यस्माच्च दूरतः । भ्रमन्त्युभयतस्तारास्ततः स्यादुक्तमन्तरम् ॥ १०६ ॥ यद्यप्यूर्ध्वं सनवतेः, सप्तशत्या व्यतिक्रमे । मेरौ यथोक्तौ न व्यासायामौ सम्भवतो यतः ॥ १०७ ॥ नवैकादशजा अंशा, योजनान्येकसप्ततिः । इयद्भनिष्ठविष्कम्भायामादत्रास्य हीयते ॥ १०८ ॥ परमुक्तमिदं स्वल्पोनताया अविवक्षया । अन्यथा प्रत्यवस्थानं, ज्ञेयं वाऽस्य 'बहुश्रुतात् ॥ १०९॥ एवं जम्बूद्वीप एव, विज्ञेयं तारकान्तरम् । लवणाब्धिप्रभृतिषु, त्वेतदुक्तं न दृश्यते ॥ ११०॥
तथोक्तं सङ्ग्रहणीसूत्रे-"तारस्स य तारस्स य जंबूदीवम्मि अंतरं गुरुयं ।” [गा. - ६२] जंबूदीपप्रज्ञप्तिसूत्रेऽपि-"जंबूद्दीवे णं दीवे ताराए य २ केवइए अबाहाए अंतरे पण्णत्ते ?"
इत्यादि। अमी विमाना: सर्वेऽपि, समन्तत: प्रसृत्वरैः । अत्युज्ज्वला: प्रभापूरैर्दूरीकृततमोऽङ्कुराः ॥ १११ ॥ आश्चर्यकृन्नूलरत्नस्वर्णविच्छित्तिशालिनः । वातोद्भूतवैजयन्तीपताकाकान्तमौलयः ॥ ११२ ॥ १ सामान्येन ज्योतिषां मेरोखाधा एकविंशत्यधिकैकादशशतमिता, ताराणां किञ्चिदूस्तोऽवस्थानाढेदनमन्तरं स्यात् ।