________________
374
सिंहनादैः कृताहादैः, पूरयन्तो दिशो दश । चतुःसहस्रप्रमिता, वहन्ति सिंहनिर्जराः ॥ ६४ ॥ दक्षिणस्यां स्थूलवजमयकुम्भस्थलोद्भुराः । स्वैरं कुण्डलितोद्दण्डशुण्डामण्डलमण्डिताः ॥६५॥ तपनीयमयश्रोत्राञ्चलचाञ्चल्यचञ्चवः । सुवर्णखचितप्रान्तसद्दन्तमुशलद्रयाः ॥६६॥ भूरिसिन्दूरशिरसश्चलच्चामरचारवः । सुवर्णकिङ्किणीकीर्णमणिग्रैवेयकोग्रभाः ॥६७ ॥ रूप्यरज्जुलसद्घण्टायुगलध्वनिमञ्जुलाः । वैडूर्यदण्डोद्दण्डांशुतीव्रवज्रमयाडशाः ॥८॥ पुन: पुन: परावृत्तपुच्छाः पुष्टा महोन्नता: । कूर्माकारक्रमा वल्गुगतयः स्फारविक्रमाः ॥ ६९ ॥ विमानानि शशाङ्कानां, वहन्ति गजनिर्जराः । घनवन्मञ्जु गर्जन्तश्चतुःसहस्रसम्मिताः ॥ ७० ॥ प्रतीच्यां सुभगाः श्वेता, दृप्यत्ककुदसुन्दराः । अयोघनघनस्थूलतनवः पूर्णलक्षणाः ॥७१ ॥ अत्यन्तकमनीयौष्ठाः, कमेषन्नम्रिताननाः । सुस्निग्धलोमद्युतयः, पीनवृत्तकटीतटाः ॥७२॥ सुपार्था मांसलस्कन्धाः, प्रलम्बपुच्छपेशलाः । तुल्यातितीक्ष्णशृङ्गाग्रा, नानागतिविशारदाः ॥७३॥ तपनीयोद्भूतजिह्वातालवो वज्रजित्नुराः । स्फाटिकस्फारदशना, गम्भीरोजितगर्जिताः ॥ ७४ ॥ सौवर्णभूषणा रत्नकिङ्किणीमालभारिणः । चतुः सहस्रसङ्ख्यास्तान्युदहन्ति वृषामराः ॥७५॥ उदीच्यां सुप्रभा: श्वेताः, युवान: पीवरोन्नता: । मल्लिकापुष्पशुभ्राक्षाः, साक्षात्तााग्रजा इव ॥ ७६ ॥ अभ्यस्तनानागमना, जवनाः पवना इव । धावनोल्लङ्घनक्रीडाकूर्दनादिजितश्रमाः ॥ ७७ ॥ लक्षणोपेतसर्वाङ्गाः, शस्तविस्तीर्णकेसराः । व्यञ्जयन्तश्चलत्पुच्छचामरेणाश्वराजताम् ॥ ७८ ॥ तपनीयखुराजिह्वातालवः स्थासकादिभिः । रम्या रत्नमयैर्वक्त्रललाटादिविभूषणैः ॥७९॥ हरिमेलकगुच्छेन, मूर्जि निर्मितशेखराः । हर्षहेषितहेलाभिः, पूरयन्तोऽभितोऽम्बरम् ॥ ८०॥ चत्वार्येव सहस्राणि, हयरूपभृतः सुराः । सुधांशूनां विमानानि, वहन्ति मुदिताः सदा ॥ ८१ ॥ सूर्योदयाडिता प्राची, यथाऽन्यदेहिनां तथा । ज्योतिष्काणां निश्चितैवं, न सम्भवति यद्यपि ॥ ८२ ॥ चन्द्रादीनां तथाऽप्येषां, या दिग्गन्तुमभीप्सिता । सा प्राची स्यानिमित्तज्ञैः, क्षुतादौ कल्प्यते यथा ॥ ८३॥ ततस्तदनुसारेण, दिशोऽन्या दक्षिणादिकाः । विमानवाहिनामेवं, सूक्तः प्राग्दिग्विनिश्चयः ॥ ८४ ॥ षोडशैवं सहस्राणि, कृतसिंहादिमूर्तय: । विमानान्यमृतांशूनां, वहन्ति त्रिदशाः सदा ॥५॥ अनेनैव दिक्क्रमेण, विमानान् भास्वतामपि । वहन्त्येतावन्त एव, सिंहायाकृतयः सुराः ॥८६॥ वहन्ति च विमानानि, ग्रहाणां तादृशाः सुराः । द्वे सहने प्रत्याशं, सहस्राण्यष्ट तेऽखिलाः ॥ ८७ ॥ उद्घहन्ति च नक्षत्रविमानाँस्तादृशाः सुराः । स्थिता: प्रत्याशमेकैकं, सहस्रप्रमिताः सदा ॥ ८८ ॥ समुदहन्ति प्रत्याशं, पञ्चपञ्चशता: स्थिताः । तारकाणां विमानानि, सिंहाद्याकृतयोऽमरा: ॥ ८९ ॥ सर्वेभ्यो मन्दगतयः, शशाङ्काः शीघ्रगास्ततः । तिग्मत्विषो ग्रहास्तेभ्यः, ख्याता: सत्वरगामिनः ॥ ९० ॥