________________
22
२८ ॥
ययोच्छ्वासार्हमादाय, दलं परिणमय्य च । तत्तयाऽऽलम्ब्य मुञ्चेत्सोच्छ्वासपर्याप्तिरुच्यते ॥ २२ ॥ ननु देहोच्छ्वासनामकर्मभ्यामेव सिद्ध्यतः । देहोच्छ्वासौ किमेताभ्यां पर्याप्तिभ्यां प्रयोजनम् ? ॥ २३ ॥ अत्रोच्यते पुद्गलानां गृहीतानामिहात्मना । साध्या परिणतिर्देहतया तन्नामकर्मणा ॥ २४ ॥ आरब्धाङ्गसमाप्तिस्तु, तत्पर्याप्त्या प्रसाध्यते । एवं भेद: साध्यभेदाद्देहपर्याप्तिकर्मणोः ॥ २५ ॥ एवमुच्छ्वासलब्धिः स्यात्साध्या तन्नामकर्मणः । साध्यमुच्छ्वासपर्याप्तस्तस्या व्यापारणं पुनः ॥ २६ ॥ सतीमप्युच्छ्वासलब्धिमुच्छ्वासनामकर्मजाम् । व्यापारयितुमीशः स्यात्तत्पर्याप्त्यैव नान्यथा ।। २७ ।। सतीमपि शरक्षेपशक्तिं नैव भटोऽपि हि । विना चापादानशक्तिं, सफलीकर्त्तुमीश्वरः ॥ भाषा दलमादाय, गीस्त्वं नीत्वाऽवलम्ब्य च । यया शक्त्या त्यजेत्प्राणी, भाषापर्याप्तिरित्यसौ ॥ दलं लात्वा मनोयोग्यं तत्तां नीत्वाऽवलम्ब्य च । यया मननशक्तः स्यान्मनः पर्याप्तिरत्र सा ॥ म्रियन्ते येऽप्यपर्याप्ताः, पर्याप्तित्रयमादिमम् । पूर्णाकृत्यैव न पुनरन्यथा सम्भवेन्मृतिः ॥ तथाहि—पर्याप्तित्रययुक्तोऽन्तर्मुहूर्तेनायुरग्रिमम् । बद्ध्वा ततोऽन्तर्मुहूर्तमबाधान्तस्य जीवति ॥ ततो निबद्धायुर्योग्यां याति तां गतिमन्यथा । अबद्धायुरनापूर्णतदाबाधो व्रजेत्क्व सः ॥ ३३ ॥ तथोक्तं प्रज्ञापनावृत्तौ — यस्मादागामिभवायुर्बद्ध्वा म्रियन्ते सर्वदेहिनो नाबद्ध्वा । च शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायाति, नापर्याप्तानाम् ॥
२९ ॥
३० ॥
३१ ॥
३२ ॥
तद्यथा-
समयेभ्यो नवेभ्यः स्यात्प्रभृत्यन्तर्मुहूर्त्तकम् । समयोनमुहुर्त्तान्तमसंख्यातविधं यतः ॥ ३४ ॥ ततः सूक्ष्मक्षमादीनामन्तर्मुहूर्त्तजीविनाम् । अन्तर्मुहूर्त्तानेकत्वमिदं सङ्गतिमङ्गतिः ॥ ३५ ॥ उत्पत्तिक्षण एवैताः, स्वा स्वा युगपदात्मना । आरभ्यन्ते संविधातुं, समाप्यन्ते त्वनुक्रमात् ॥ ३६ ॥ — आदावाहारपर्याप्तिस्ततः शरीरसंज्ञिता । तत इन्द्रियपर्याप्तिरेवं सर्वा अपि क्रमात् ॥ ३७ ॥ तत्रैकाहारपर्याप्तिः समाप्येतादिमे क्षणे । शेषा असंख्यसमयप्रमाणान्तर्मुहूर्त्ततः ॥ ३८ ॥ अनुक्रमोऽयं विज्ञेय, औदारिकशरीरिणाम् । वैक्रियाहारकवतां, ज्ञातव्योऽयं पुनः क्रमः ॥ ३९ ॥ एका शरीरपर्याप्तिर्जायतेऽन्तर्मुहूर्त्ततः । एकैकक्षणवृद्ध्याऽतः, समाप्यन्ते पराः पुनः ॥ ४० ॥ निष्पत्तिकालः सर्वासां, पुनरान्तर्मुहूर्त्तिकः । आरम्भसमयाद्यान्ति, निष्ठां ह्यन्तर्मुहूर्त्ततः ॥ ४१ ॥ आहारपर्याप्तिस्त्वत्रापि प्राग्वत् ॥
मनोवच:कायबलान्यक्षाणि पञ्च जीवितम् । श्वासश्चेति दश प्राणा, द्वारेऽस्मिन्नेव वक्ष्यते ॥ ४२ ॥ इति पर्याप्तिस्वरूपम् ॥ ३ ॥ अथ योनिसंख्यास्वरूपम्
तैजसकार्मणवन्तो, युज्यन्ते यत्र जन्तवः स्कन्धैः । औदारिकादियोग्यैः, स्थानं तद्योनिरित्याहुः ॥ ४३ ॥
१. सङ्गतिमङ्गति बहुवचनम्, तेन वक्ष्यन्तरे द्वारि प्रस्तुते इति युक्तम् ।