________________
अथ तृतीयः सर्गः । अथ संसारिजीवानां, स्वरूपं वर्णयाम्यहम् । दारैः सप्तत्रिंशता तान्यमूनि स्युर्यथाक्रमम् ॥१॥ भेदा: स्थानानि पर्याप्तिः, संख्ये योनिकुलाश्रिते । योनीनां संवृतत्वादि, स्थिती च भवकाययोः ॥२॥ देहसंस्थानाङ्गमानसमुद्घाता गतागती । अनन्तराप्तिः समये, सिद्धिलेश्या दिगाहृतौ ॥३॥ संहननानि कषायाः, संज्ञेन्द्रियसंज्ञितास्तथा वेदाः । दृष्टिनिं दर्शनमुपयोगाहारगुणयोगाः ॥ ४॥ मानं लघ्वल्पबहुता, सैवाऽन्या दिगपेक्षया । अन्तरं भवसंवेधो, महाल्पबहुताऽपि च ॥५॥ भेदा इह प्रकाराः स्युर्जीवानां स्वस्वजातिषु । समुद्घातनिजस्थानोपपातैः स्थानकं त्रिधा ॥६॥ पर्याप्ता व्यपदिश्यन्ते, याभिः पर्याप्तयस्तु ताः । पर्याप्तापर्याप्तभेदादत एव द्विधाङ्गिनः ॥७॥ पर्याप्तयः स्वयोग्या यैः, सकला: साधिता: सुखम् । पर्याप्तिनामकर्मानुभावात्पर्याप्तकास्तु ते ॥८॥ द्विधाऽमी लब्धिकरणभेदात्तत्रादिमास्तु ये । समाप्य स्वार्हपर्याप्तीमियन्ते नान्यथा ध्रुवम् ॥९॥ करणानि शरीराक्षादीनि निर्वतितानि यैः । ते स्युः करणपर्याप्ताः, करणानां समर्थनात् ॥ १० ॥ अपर्याप्ता द्विधाः प्रोक्ता, लब्ध्या च करणेन च । द्वयोर्विशेष श्रृणुत, भाषितं गणधारिभिः ॥ ११ ॥ असमाप्य स्वपर्याप्तीमियन्ते येऽल्पजीविताः । लब्ध्या ते स्युरपर्याप्ता, यथा निःस्वमनोरथाः ॥ १२ ॥ निर्वतितानि नाद्यापि, प्राणिभिः करणानि यैः । देहाक्षादीनि करणाऽपर्याप्तास्ते प्रकीर्तिताः ॥ १३ ॥ म्रियन्तेऽल्पायुषो लब्ध्यपर्याप्ता इह येऽङ्गिनः । तेऽपि भूत्वैव करणपर्याप्ता नान्यथा पुनः ॥ १४ ॥ याऽऽहारादिपुद्गलानामादानपरिणामयोः । जन्तोः पर्याप्तिनामोत्था, शक्तिः पर्याप्तिस्त्र सा ॥ १५ ॥ पुद्गलोपचयादेव, भवेत्सा सा च षड्विधा । आहारानेन्द्रिय श्वासोच्छ्वासभाषामनोऽभिधाः ॥ १६ ॥ तत्रैषाऽऽहारपर्याप्तिर्ययाऽऽदाय निजोचितम् । पृथक्खलरसत्वेनाहारं परिणतिं नयेत् ॥ १७ ॥ वैक्रियाहारकौदारिकाङ्गयोग्यं यथोचित्तम् । तं रसीभूतमाहारं, यया शक्त्या पुनर्भवी ॥१८॥ रसासृग्मांसमेदोऽस्थिमज्जशुक्रादिधातुताम् । नयेद्यथासम्भवं सा, देहपर्याप्तिरुच्यते ॥ १९ ॥ धातुत्वेन परिणतादाहारादिन्द्रियोचितात् । आदाय पुद्गलांस्तानि, यथास्वं प्रविधाय च ॥ २० ॥ इष्टे तद्विषयज्ञप्तौ, यया शक्त्या शरीरखान् । पर्याप्ति: सेन्द्रियावाना, दर्शिता सर्वदर्शिभिः ॥ २१ ॥
इति संग्रहणीवृत्त्यभिप्रायः ॥ प्रज्ञापनाजीवाभिगमप्रवचनसारोद्धारवृत्त्यादिषु तु यया धातुतया परिणमितमाहारमिन्द्रियतया परिणमयति सा इन्द्रियपर्याप्तिरित्येतावदेव दृश्यते ॥
१. विहिते शरीराक्षाख्ये, करणे यैस्तु जन्तुभिः इति सम्यक, करणापर्याप्तानामायुषोऽबन्धात् २. मरिष्यन्त्यल्पजीविता: ३. विरोधग्रस्त आदिशब्द: ४. जोएण कम्मएणं आहारेह अणंतरं जीवो ५. करोतीन्द्रियनिवृति, रचनायाः फलं ज्ञानं, सामर्थ्यज्ञापनावेदं.