________________
.20
सर्वाद्धापिण्डित: सिद्धसुखराशिर्विकल्पतः । अनन्तवर्गभक्तोऽपि, न मायाद् भुवनत्रये ॥ १३२ ॥ वर्गविभागश्चैवम्स्युः षोडश चतुर्भक्ताश्चत्वारो वर्गभागतः । दावेव परिशिष्येते, चत्वारोऽपि द्विभाजिताः ॥ १३३ ॥ सुखस्य तस्य माधुर्य, कलयन्नपि केवली । वक्तुं शक्नोति नो जग्धगुडादेर्मूकदेहिवत् ॥ १३४ ॥ यथेप्सितान्नपानादिभोजनानन्तरं पुमान् । तृप्तः सन् मन्यते सौख्यं, तृप्तास्ते सर्वदा तथा ॥ १३५ ॥ एवमापातमात्रेण, दर्श्यते तन्निदर्शनम् । वस्तुतस्तु तदाहादोपमानं नास्ति विष्टपे ॥ १३६ ॥ औपम्याप्यविषयस्ततः सिद्धसुखं खलु । यथा पुरसुखं जज्ञे, म्लेच्छवाचामगोचरः ॥ १३७ ॥
तथा चाहुः- म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः । अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः ॥ म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं, सोऽपि राज्ञा निजं पुरम् ॥ ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् । विशिष्टभोगभूतीनां, भाजनं जनपूजितः ॥ तुङ्गप्रासादशृङ्गेषु, रम्येषु काननेषु च । वृतो विलासिनीवृन्दैर्भुक्ते भोगसुखान्यसौ ॥ अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमम्बरे । दृष्ट्वा मृदङ्गमधुरैर्गर्जितैः केकिनर्त्तनम् ॥ जातोत्कण्ठो दृढं जातोऽरण्यवासागमं प्रति । विसर्जितश्च राज्ञापि, प्राप्तोऽरण्यमसौ ततः ॥ पृच्छन्त्यरण्यवासास्तं, नगरं तात कीदृशम् । परं नगरवस्तूनामुपमाया अभावतः ॥ न शशाकतमां तेषां, गदितुं स कृतोद्यमः । एवमत्रोपमाऽभावात्, वक्तुं शक्यं
न तत्सुखम् ॥ सिद्धा बुद्धा गताः पारं, परं पारंगता अपि । सर्वामनागतामद्धां, तिष्ठन्ति सुखलीलया ॥ १३८ ॥
___अरूपा अपि प्राप्तरूपप्रकृष्टा, अनङ्गा स्वयं ये त्वनङ्गद्गुहोऽपि ।
अनन्ताक्षराश्चोज्झिताशेषवर्णाः, स्तुमस्तान् वचोऽगोचरान् सिद्धजीवान् ॥ १३९ ॥ इति सिद्धाः ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सो निर्गलितार्थसार्थसुभग: पूर्णा द्वितीय: सुखम् ॥ १४० ॥
॥ इति श्री लोकप्रकाशे द्वितीयः सर्गः समाप्तः ॥ .
१ भाष्यं मरुदेवाश्रितं, एतत्तु अर्वबाहूत्कृष्टतनोः