________________
मरुदेवा कथं सिद्धा, नन्वेवं जननी विभोः । साग्रपञ्चचापशतोत्तुङ्गा नाभिसमोच्छ्रया ॥ ११४ ॥
‘संघयणं संठाणं, उच्चतं चेव कुलगरेहिं समम्'-इति वचनात् । अत्र उच्यतेस्त्रियो झुत्तमसंस्थानाः, पुंसः कालार्हसंस्थितेः । किंचिदूनप्रमाणाः स्यु भेरूनोच्छ्रयेति सा ॥ ११५ ॥ गजस्कन्धाधिरूढत्वान्मनाक्संकुचितेति वा । पञ्चचापशतोच्चैव, सेति किञ्चिन्न दूषणम् ॥ ११६ ॥ अयं च भाष्यकृदभिप्रायः ॥ संग्रहणीवृत्यभिप्रायस्त्वयम्
यदिदमागमे पञ्चधनुःशतान्युत्कृष्टं मानमुक्तं तद्धाहुल्यात् । अन्यथा एतद् धनुःपृथक्त्वै
रधिकमपि स्यात्, तच्च पञ्चविंशत्यधिकपञ्चधनुःशतरूपं बोद्धव्यम् ॥ सिद्धप्राभृतेऽपि उक्तम्- [ओगाहणाद्धार - श्लो. १०५] “ओगाहणा जहण्णा, रयणिदुगं अह पुणाइ उक्कोसा । पंचेव धणुसयाइं, धणुअपुहुत्तेण अहियाइंति ॥ एतवृत्तिश्च-पृथक्त्वशब्दोऽत्र बहुत्ववाची । बहुत्वं चेह पञ्चविंशतिरूपं द्रष्टव्यमिति ।। आद्यसंहनना एव, सिद्धयन्ति न पुनः परे । संस्थानानां त्वनियमस्तेषु षट्स्वपि निर्वृत्तिः ॥ ११७ ॥ पूर्वकोट्यायुरुत्कर्षात्, सिद्धयेन्नाधिकजीवित: । जघन्यान्नववर्षायुः, सिद्धयेन्न न्यूनजीवितः ॥ ११८ ॥ द्वात्रिंशदन्ता एकाद्याश्चेत् सिद्ध्यन्ति निरन्तरम् । तदाऽष्टसमयान् यावन्नवमे त्वन्तरं ध्रुवम् ॥ ११९ ॥ अष्टचत्वारिंशदन्तास्त्रयस्त्रिंशन्मुखा यदि । सिद्ध्यन्ति समयान् सप्त, ध्रुवमन्तरमष्टमे ॥ १२० ॥ एकोनपञ्चाशदाद्याः षष्ट्यन्ता यदि देहिनः । सिद्धयन्ति समयान् षट् वै, सप्तमे त्वन्तरं भवेत् ॥ १२१ ॥ एकषष्टिप्रभृतयो, यावद् दासप्ततिप्रमाः । सिद्धयन्ति समयान् पञ्च, षष्ठे त्ववश्यमन्तरम् ॥ १२२ ॥ त्रिसप्ततिप्रभृतयश्चतुरशीतिसीमकाः । चतुर: समयान् यावत्, सिद्ध्यन्त्यग्रेतनेऽन्तरम् ॥ १२३ ॥ पञ्चाशीत्याद्याः क्षणांस्त्रीन, यान्त्याऽऽषण्णवतिं शिवम् । क्षणौ सप्तनवत्याद्या, द्रौ च द्यायशतावधि ॥ १२४ ॥ त्रयाधिकशताद्याश्चेत् यावदष्टोत्तरं शतम् । सिद्ध्यन्ति चैकसमयं, द्वितीयेऽवश्यमन्तरम् ॥ १२५ ॥ जघन्यमन्तरं त्वेकसमयं परमं पुनः । षण्मासान्नास्ति सिद्धानां, च्यवनं शाश्वता हि ते ॥ १२६ ॥ सर्वस्तोका क्लीवसिद्धास्तेभ्य: संख्यगुणाधिकाः । स्त्रीसिद्धाः पुनरेभ्यः पुंसिद्धाः संख्यगुणाधिकाः ॥ १२७ ॥ सर्वस्तोका दक्षिणस्यामुदीच्यां च मिथ: समा: । प्राच्या संख्यगुणा: पश्चिमायां विशेषतोऽधिकाः ॥ १२८ ॥ न तत्सुखं मनुष्याणां, देवानामपि नैव तत् । यत्सुखं सिद्धजीवानां, प्राप्तानां पदमव्ययम् ॥ १२९ ॥ त्रैकालिकानुत्तरान्तनिर्जराणां त्रिकालजम् । भुक्तं भोग्यं भुज्यमानमनन्तं नाम यत्सुखम् ॥ १३० ॥ पिण्डीकृतं तदेकत्रानन्तैर्वर्गच वर्गितम् । शिवसौख्यस्य समतां लभते न कदाचन ॥ १३१ ॥ १. भाष्यं मरुदेवाचितं, एतत्तु अर्यबाहूत्कृष्टतनोः