SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 18 ततश्च एक: सिद्धः प्रदेशैः स्वैः, समग्रैरतिनिर्मलैः । सिद्धाननन्तान् स्पृशति, व्यवगाडैः परस्परम् ॥ १०१ ॥ तेभ्योऽसंख्यगुणान् देशप्रदेशैः स्पृशति ध्रुवम् । क्षेत्रावगाहानाभेदैरन्याऽन्यैः पूर्वदर्शितैः ॥ १०२ ॥ तथोक्तं-प्रज्ञापनायां औपपातिके आवश्यके च-फुसइ अणन्ते सिद्धे, सब्बपएसेहिं नियमसो सिद्धो । तेवि असंख्रिज्जगुणा, देसपएसेहिं जे पुट्ठा ॥ अशरीरा जीवघना, ज्ञानदर्शनशालिनः । साकारेण निराकारेणोपयोगेन लक्षिताः ॥ १०३ ॥ ज्ञानेन केवलेनैते, कलयन्ति जगत्त्रयीम् । दर्शनेन च पश्यन्ति, केवलेनैव केवलाम् ॥ १०४ ॥ पूर्वभवाकारस्यान्यथाव्यवस्थापनाच्छुषिरपूर्त्या । संस्थानमनित्यंस्थं, स्यादेषामनियताकारम् ॥ १०५ ॥ केनचिदलौकिकेन, स्थितं प्रकारेण निगदितुमशक्यम् । अत एव व्यपदेशो, नैषां दीर्घादिगुणवचनैः ॥ १०६ ॥ तथाहुः-‘से न दीहे, से न हस्से, से न वट्टे' इत्यादि ॥ ननु-संस्थानं ह्याकारः, स कथममूर्तस्य भवति सिद्धस्य ? अत्रोच्यते-परिणामवत्यमूर्तेऽप्यसौ भवेत्कुम्भनभसीव ॥ पूर्वभवभाविदेहाकारमपेक्ष्यैव सिद्धजीवस्य । संस्थानं स्यादौपाधिकमेव न वास्तवं किञ्चित् ॥ १०७ ॥ तथाहुरावश्यकनियुक्तिकार: ओगाहणाइ सिद्धा, भवति भागेण हुंति परिहीणा । संठाणमणित्थंत्थं, जरामरणविप्पमुक्काणं ॥ उताणओ व पासिल्लओ व, अहवा निसन्नओ चेव । जो जह करेई कालं, सो तह उववज्जए सिद्धो ॥ इहभवभिन्नागारो, कम्मवसाओ भवंतरे होई । न य त सिद्धस्स तओ, तंमिठितो से तयागारो ॥ जं संठाणं तु इहं, भवं चयंतस्स चरमसमयम्मि । आसीअ पएसघणं, तं संठाणं तहिं तस्स ॥ शतानि त्रीणि धनुषां, त्रयस्त्रिंशद्धनूंषि च । धनुस्त्रिभागच परा, सिद्धानामवगाहना ॥ १०८ ॥ जघन्याऽष्टाङ्गलोपेतहस्तमाना प्ररूपिता । जघन्योत्कृष्टयोरन्तराले मध्या त्वनेकधा ॥ १०९ ॥ षोडशाङ्गलयुक्ता या, मध्या करचतुष्टयी । आगमे गीयते सर्वमध्यानां सोपलक्षणम् ॥ ११० ॥ प्राच्ये जन्मनि जीवानां, या भवेदवगाहना । तृतीयभागन्यूना सा, सिद्धानामवगाहना ॥ ११ ॥ उत्कृष्टा च भवे प्राच्ये, धनुःपञ्चशतीमिता । मध्यमा च बहुविधा, जघन्या हस्तयोर्द्धयम् ॥ ११२ ॥ जघन्या सप्तहस्तैव, जिनेन्द्राणामपेक्षया । त्र्यंशोनत्वे किलैतासां, ताः स्युः सिद्धावगाहनाः ॥ ११३ ॥ एतदभिप्रेत्यैवौपपातिकोपाङ्गे उक्तम् “जीवाणं भंते ! सिज्माणा कयरंमि उच्चते सिज्झन्ति ? गोयमा ! जहण्णेणं सत्तरयणीए, उकोसेणं पंचधणुसइए सिज्झन्ति" ॥ १ संपूर्णा २. यथा तत्र घट उपाधिरेवमत्र अन्त्यभवशरीरं, तन्नाशानन्तरं च संस्थानपरावर्त्तकारणाभावात्, तदैवात्र विभागोनाकारेण भवति. ३. सिद्धतया भवति ४. कर्म ५. तीर्थकरानाश्रित्य सा, यतो जघन्यतस्ते सप्तकरा एव ६. अवगाहनानां ७. पूर्वोक्ता:
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy