________________
17
'वीस अहे तहेव' इत्युत्तराध्ययने । जीवाजीवविभक्त्यध्ययने ॥ 'उहाहोतिरियलोए चउबावीसट्ठसयं' इति संग्रहण्याम् ॥ 'वीसं पुहुत्तं अहोलोए' इति सिद्धप्राभृते । तट्टीकायां
'विंशतिपृथक्त्वं ढे विंशती' इति ॥ अष्टोत्तरशतं तिर्यग्लोके च द्रौ पयोनिधौ । नदीनदादिके शेषजले चोत्कर्षतस्त्रयः ॥ ८४ ॥ विंशतिश्चैकविजये, चत्वारो नन्दने वने । पण्डके द्वावष्टशतं, प्रत्येकं कर्मभूमिषु ॥ ८५ ॥ प्रत्येकं संहरणतो, दशाऽकर्ममहीष्वपि । पञ्चचापशतोच्चौ द्रौ, चत्वारो दिकराङ्गकाः ॥ ८६ ॥ जघन्योत्कृष्टदेहानां, मानमेतन्निरूपितम् । मध्याङ्गास्त्वेकसमये, सिद्ध्यन्त्यष्टोत्तरं शतम् ॥ ८७ ॥ उत्सर्पिण्यवसर्पिण्योस्तार्तीयीकतुरीययोः । अरयोरष्टसहितं, सिद्ध्यन्त्युत्कर्षतः शतम् ॥ ८ ॥
___ यत्त्वस्या अवसर्पिण्यास्तृतीयारकप्रान्ते श्रीऋषभदेवेन सहाष्टोत्तरं शतं सिद्धास्तदाश्चर्यमध्ये
ऽन्तर्भवतीति समाधेयम् ॥ विंशतिश्चावसर्पिण्या:, सिद्धयन्ति पञ्चमेऽरके । उत्सर्पिण्यवसर्पिण्योः, शेषेषु दश संहृताः ॥ ८ ॥ पुंवेदेभ्यः सुरादिभ्यश्च्युत्वा जन्मन्यनन्तरे । भवन्ति पुरुषाः केचित्, स्त्रियः केचिन्नपुंसकाः ॥ ९०॥ स्त्रीभ्योऽपि देव्यादिभ्यः स्युरेवं त्रेधा महीस्पृशः । क्लीबेभ्यो नारकादिभ्योऽप्येवं स्युर्मनुजास्त्रिधा ॥ ९१ ॥ नवस्वेतेषु भङ्गेषु, पुंभ्यः स्युः पुरुषा हि ये । सिद्ध्यन्त्यष्टोत्तरशतं, तेऽन्ये दशदशाखिलाः ॥ ९२ ॥ दशान्यभिक्षुनेपथ्याश्चत्वारो गृहिवेषकाः । सिद्ध्यन्त्यष्टोत्तरशतं, मुनिनेपथ्यधारिणः ॥१३॥ विंशतियोषितः किञ्च, पुमांसोऽष्टोत्तरं शतम् । एकस्मिन्समये क्लीबा:, सिद्ध्यन्ति दश नाधिकाः ॥ ९४ ॥ एकसमये अष्टोत्तरशतसिद्धियोग्यतासंग्रहश्चैवम्तिर्यग्लोके क्षपितकलुषाः कर्मभूमिस्थलेषु, जाता वैमानिकपुरुषतो मध्यमाङ्गप्रमाणाः । सिद्धयन्त्यष्टाधिकमपि शतं साधुवेषाः पुमांसः, तातीयीके नियतमरके चिन्त्यतां वा तुरीये ॥ ९५ ॥ यत्रैको निर्वृतः सिद्धस्तत्रान्ये परिनिर्वृताः । अनन्ता नियमाल्लोकपर्यन्तस्पर्शिनः समे ॥ ९६ ॥ अयमर्थःसम्पूर्णमेकसिद्धस्यावगाहक्षेत्रमाश्रिताः । अनन्ताः पुनरन्ये च, तस्यैकैकं प्रदेशकम् ॥ ९७ ॥ समाक्रम्यावगाढाः स्युः, प्रत्येकं तेऽप्यनन्तकाः । एवं परे द्वित्रिचतुःपञ्चायंशाभिवृद्धितः ॥ ९८ ॥ तथासिद्धावगाहक्षेत्रस्य, तस्यैकैकं प्रदेशकम् । त्यक्त्वा स्थितास्तेऽप्यनन्ता, एवं दयादिप्रदेशकान् ॥ ९९ ॥ एवं चप्रदेशवृद्धिहानिभ्यां, येऽवगाढा अनन्तकाः । पूर्णक्षेत्रावगाढेभ्यः, स्युस्ते संख्यगुणाधिकाः ॥ १०० ॥ १. दोवीसन्ति पाठे मतत्रयी २. उत्कृष्टावगाहनास्ते यतः, - उत्कृष्टावगाहनापेक्षयैवाश्चर्यरुपत्वात्, मध्याङ्गानां त्वष्टशतस्य सिद्धिः स्यादेव,