________________
16
तथोक्तं तत्त्वार्थभाष्ये- कृत्स्नकर्मक्षयादूचं, निर्वाणमधिगच्छति । यथा दग्धेन्धनो वहिनर्निरुपादानसन्ततिः ॥ तदनन्तरमेवोर्ध्वमालोकान्तात्स गच्छति । पूर्वप्रयोगाऽसंगत्वबन्धच्छेदोर्ध्वगौरवैः ॥ कुलालचक्रे दोलायामिषौ चापि यथेष्यते । पूर्वप्रयोगात्कर्मेह, तथा सिद्धगतिः स्मृता ॥ मृल्लेपसंगनिर्मोक्षाद्यथा दृष्टाऽप्स्वलाबुनः । कर्मसंगविनिर्मोक्षात्तथा सिद्धगतिः स्मृता ॥ एरंडयन्त्रपेडासु, बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ॥
व्याघ्रपादबीजबन्धनच्छेदात् यन्त्रबन्धनच्छेदात् पेडाबन्धनच्छेदात् च गतिर्दृष्टा मिञाकाष्टपेडापुटानाम् एवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिरिति भावः । ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः । अधोगौरवधर्माणः, पुद्गला इति चोदितम् ॥ ऊर्ध्वगमन एव गौरखं धर्मः स्वभावो जीवानाम् । पुद्गलास्तु अधोगमनधर्माण इति सर्वज्ञवचन- मिति भावः ॥ यथाऽधस्तिर्यगूज़ च, लोष्टवाय्वग्निवीचयः । स्वभावत: प्रवर्त्तन्ते, तथोर्ध्वगतिरात्मनः ॥ अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते । कर्मण: प्रतिघाताच्च, प्रयोगाच्च तदिष्यते ॥ अधस्तिर्यगथोली च, जीवानां कर्मजा गतिः । ऊर्ध्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् ॥
[श्लोक ७-९ थी १६] तत्रापि गच्छतः सिद्धिं, संयतस्य महात्मनः । सर्वैरंगैर्विनिर्याति, चेतनस्तनुपञ्जरात् ॥ ८० ॥
तदुक्तं स्थानाङ्गपञ्चमस्थानके–“पंचविहे जीवस्स णिज्जाणमग्गे पन्नते । पाएहिं १, उरूहिं २, उरेणं ३, सिरेणं ४, सवंगेहिं ५, ॥ पाएहिं निज्जायमाणे निरयगामी भवति । उरूहिं निज्जायमाणे तिरियगामी भवति । उरेण निज्जायमाणे मणुयगामी भवति । सिरेणं निज्जायमाणे
देवगामी भवति । सव्वंगेहिं निज्जायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते” ॥ भवोपग्राहिकर्मान्तक्षण एव स सिद्धयति । उद्गच्छन्नस्पृशद्गत्या, ह्यचिन्त्या शक्तिरात्मनः ॥ ८१ ॥
अत्र च अस्पृशन्ती सिद्ध्यन्तरालप्रदेशान् गतिर्यस्य सः अस्पृशद्गतिः । अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः, इष्यते च तत्रैक एव समय:, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदेशानामसंस्पर्शनमित्यौपपातिकसत्रवत्तौ ॥ अवगाढप्रदेशेभ्योऽपराकाशप्रदेशान त्वस्पशन गच्छतीति महाभाष्यवृत्तौ ॥ यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावत एव प्रदेशान्ऊर्ध्वमप्यवगाहमानो
गच्छतीति पञ्चसंग्रहवृत्तौ ॥ तत्त्वं तु केवलिगम्यम् । एकस्मिन्समये चोर्ध्वलोके चत्वार एव ते । सिद्ध्यन्त्युत्कर्षतो दृष्टमधोलोके मतत्रयम् ॥ ८२ ॥ विंशतिभविंशतिश्च, चत्वारिंशदिति स्फुटम् । उत्तराध्ययने संग्रहण्यां च सिद्धप्राभृते ॥८३॥
१ सामान्येन जीवानां शरीरिणां परप्रयुक्तजीवानाम् २ अवगाहनापेक्षया पूर्वे गमनापेक्षया उत्तरे वाऽन्तःपात्यसौ, स्पर्शवदभावात्,