________________
15
तथाहि-आत्मा सर्वप्रदेशेषु, त्यक्त्वांशानष्टमध्यगान् । प्रक्वथ्यमानोदकवत् सदा विपरिवर्त्तते ॥ ६५ ॥ ततः स चिरमेकस्मिन्न वस्तुन्युपयुज्यते । अर्थान्तरोपयुक्तः स्याच्चपल: कृकलासवत् ॥६६॥ उत्कर्षेणोपयोगस्य, कालोप्यान्तर्मुहूर्तिकः । उपयोगान्तरं याति, स्वभावात्तदनन्तरम् ॥ ६७ ॥ न सर्वमपि वेत्त्येष, प्राणी कर्मावृत्तो यथा । नार्कस्याभ्राभिभूतस्य, प्रसरन्त्यभितः प्रभाः ॥ ६८ ॥ संशयाव्यक्तबोधाद्या, अप्यस्य कर्मणां वशात् । कुर्वतां ज्ञानवैचित्र्यं, क्षयोपशमभेदतः ॥ ६९ ॥ किं च - आभोगानाभोगोद्भववीर्यवतो यदा क्षयोपशमः । लब्धिकरणानुरुपं तदाऽऽत्मनो ज्ञानमुद्भवति ॥ ७० ॥ वीर्यापगमे च पुनस्तदेव कर्मावृणोत्यपाकीर्णम् । शैवलजालमिवाम्भो दर्पणमिव विमलितं पङ्कः ॥ ७ ॥ अथ प्रकृतम् - द्विधा भवन्ति ते जीवाः, सिद्धसंसारिभेदतः । सिद्धाः पञ्चदशविधास्तीर्थातीर्थादिभेदतः ॥ ७२ ॥ यदाहुः नवतत्वप्रकरणे- [गाथा. ५५] जिणअजिणतित्थातित्थ, गिहिअन्नसलिंगथीनरनपुंसा । पत्तेयसयंबुद्धा, बुद्धबोहीकणिक्का य ॥ जीवन्तीति स्मृता जीवा, जीवनं प्राणधारणम् । ते च प्राणा द्विधा प्रोक्ता, द्रव्यभावविभेदतः ॥७३॥ सिद्धानामिन्द्रियोच्छ्वासादयः प्राणा न यद्यपि । ज्ञानादिभावप्राणानां, योगाज्जीवास्तथाप्यमी ॥७४ ॥ अलोकस्खलिता: सिद्धा, लोकाग्रे च प्रतिष्ठिताः । इह संत्यज्य देहादि, स्थितास्तत्रैव शाश्वताः ॥ ७५ ॥ ते ज्ञानावरणीयायैर्मुक्ताः कर्मभिरष्टभिः । ज्ञानदर्शनचारित्राद्यनन्ताष्टकसंयुताः ॥७६ ॥
___ तथोक्तं गुणस्थानक्रमारोहे- अनन्तं केवलज्ञानं, ज्ञानावरणसंक्षयात् । अनन्तं दर्शनं चापि, दर्शनावरणक्षयात् ॥ क्षायिके शुद्धसम्यक्त्वचारित्रे मोहनिग्रहात् । अनन्ते सुखवीर्ये च, वेद्यविनक्षयात्क्रमात् ॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्र
क्षयादेवामूर्त्तानन्ताऽवगाहना ॥ [श्लोक - १३० थी १३२] रोगमृत्युजराधर्त्तिहीना अपुनरुद्भवाः । अभावात्कर्महेतूनां, दग्धे बीजे हि नाङ्करः ॥ ७७ ॥ यावन्मानं नरक्षेत्रं, तावन्मानं शिवास्पदम् । यो यत्र म्रियते तत्रैवोर्ध्वं गत्वा स सिद्धयति ॥ ७८ ॥ उत्पत्योधं समश्रेण्या, लोकान्तस्तैरलङ्कतः । यत्रैकस्तत्र तेऽनन्ता, निर्बाधा: सुखमासते ॥७९॥
१. केवलिनामप्यात्मप्रदेशानां चलत्वाच्चिन्त्यमेतत् २. वीर्यं द्विधा - लब्धे: करणाच्च ३. ज्ञानं ४. कर्मरहितं ५. धर्माधर्मान्तरिक्षाणामिव जीवस्य नाभिगाः । अष्टौ मध्यप्रदेशाः स्युः, कौशैस्ते त्वनावृताः ॥ ७२ ॥ तथोक्तं - "तदनेन पञ्चदशविधेनापि योगोनात्माऽष्टौ प्रदेशान् विहाय तप्तभाजनोदकवद् उद्धर्तमानैः सर्वैरात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशप्रदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद्बध्नाति तत्प्रयोगकर्मेत्युच्यते” इत्याचारांगे द्वितीयस्य लोकविजयाध्ययनस्यादौ नियुक्तिवृत्ती, अयमेवार्थो भगवत्यां श. २५ उ. ४ । श. ८ उ. ९ अपि तत्त्वार्थभाष्यवृत्तौ द्वितीयाध्यायप्रारंभे, ज्ञानदीपिकायां च इति प्र. अधिकं ।