________________
किं च-धर्मास्तिकायस्तद्देशस्तत्प्रदेश इति त्रयम् । एवं त्रयं त्रयं ज्ञेयमधर्माभ्रास्तिकाययोः ॥ ४७ ॥ तत्रास्तिकायः सकलस्वप्रदेशात्मको भवेत् । कियन्मात्रांशरूपाश्च, तस्य देशाः प्रकीर्तिताः ॥ ४८ ॥
स्कन्दन्ति शुष्यन्ति पुद्गलविचटनेन, धीयन्ते च पुष्यन्ते पुद्गलचटनेनेति स्कन्धाः, 'पृषोदरादयः' (सिद्धहैमसूत्र ३-२-१५५ इति रुपनिष्पत्तिः) इति प्रज्ञापनावृत्तौ व्युत्पादितत्वादेते स्कन्धव्यपदेशं नार्हन्ति । अत एव सूत्रे प्राय: 'धम्मत्थिकाए धम्मत्थिकायस्स देसे' इत्याद्येव श्रूयते ॥ नवतत्त्वावचूरौ तु चतुर्दशरज्ज्वात्मके लोके सकलोऽपि यो धर्मास्तिकाय: स सर्व: स्कन्धः कथ्यते इत्युक्तमिति ज्ञेयम् ॥ __ उत्तराध्ययनबृहद्वृतौ धर्मास्तिकायादीनां स्कन्धता स्पष्टैव (संयोगपद निर्युक्तौ) प्रज्ञापनीया स्कन्धव्युत्पत्तिः पुद्गलस्कन्धप्रकरणगता, अनुयोगे तत्त्वार्थे च जीवराशेरपि स्कन्धतोक्ता ।
अन्यथा कायशब्दोऽपि चिन्त्य एव । . निर्विभागा विभागाश्चा, प्रदेशा इत्युदाहृताः । ते चानन्तास्तृतीयस्यासंख्येया आद्ययोद्धयोः ॥ ४९ ॥ अनन्तैश्चागुरुलघुपर्यायैः संश्रिता इमे । त्रयोऽपि यदमूर्तेषु, संभवन्त्येत एव हि ॥ ५० ॥ अथ जीवास्तिकायस्य, स्वरूपं वच्मि तस्य च । चेतनालक्षणो जीव, इति सामान्यलक्षणम् ॥ ५१ ॥ मतिश्रुतावधिमन:पर्यायकेवलान्यपि । मत्यज्ञानं श्रुताज्ञानं, विभङ्गज्ञानमित्यपि ॥ ५२ ॥ अचक्षुश्चक्षुरवधिकेवलदर्शनानि च । द्वादशामी उपयोगा, विशेषाज्जीवलक्षणम् ॥ ५३ ॥ उपयोगं विना कोऽपि, जीवो नास्ति जगत्त्रये । अक्षरानन्तभागो यद्व्यक्तो निगोदिनामपि ॥ ५४ ॥ तं चाक्षरानन्तभागमपि त्रैलोक्यवर्तिनः । न शक्नुवन्त्यावरितुं, पुद्गला: कर्मतां गताः ॥ ५५ ॥ एषोऽप्याब्रियते चेत्तत्, स्याज्जीवाजीवयोर्न भित् । अक्षरं त्विह साकारेतरोपयोगलक्षणम् ॥ ५६ ॥ रखेर्यथातिसान्द्राभ्रच्छन्नस्यापि भवेत्प्रभा । कियत्यनावृत्ता रात्रिदिनाभेदोऽन्यथा भवेत् ॥ ५७ ॥ इयं चाल्पीयसी ज्ञानमात्राद्यसमये भवेत् । अपर्याप्तनिगोदानां, सूक्ष्माणां क्रमतस्ततः ॥ ५८ ॥ शेषैकाक्षद्वित्रिचतुष्पञ्चाक्षादिषु मात्रया । वर्धमानेन्द्रिययोगलब्धिवृद्धिव्यपेक्षया ॥ ५९॥ क्षयोपशमवैचित्र्यान्नानारूपाणि बिभ्रती । सर्वज्ञेयग्राहिणी स्याद्, घातिकर्मक्षयेण सा ॥६॥ नन्वेवमात्मनो ज्ञानं, यदि लक्षणमुच्यते । अभेद: स्यात्तदनयोः, सांस्नावृषभयोरिव ॥ ६१ ॥ एवं चास्य सदा ज्ञानमिष्यतेऽखिलवस्तुगम् । ज्ञानरूपो न जानातीत्येतद्युक्तिसहं न यत् ॥ ६२ ॥ कथं च ज्ञानरूपस्यात्मनः स्युः संशयस्तथा । अव्यक्तबोधाबोधौ च, किञ्चिद्बोधविपर्ययाः ॥ ६३ ॥ अत्रोच्यते-सत्यप्यस्य चिदात्मत्वे, नोपयोगो निरन्तरम् । भवत्यावरणीयानां, कर्मणां वशतः खलु ॥ ६४ ॥
१. सुयकेवलक्खराणं (४९६ वि.) तस्स उ अणंतभागो (४९१ वि.) । २. लब्ध्या ३. जघन्ययोगिनां ४. अंशेन ५. ज्ञानात्मनोः ६. कम्बल ७. नाविर्भावन