SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 372 तस्योपरितले स्वातिर्भरणी स्यादधस्तले । एवं नक्षत्रपटलं, चिद्वैश्चतुर्भिरङ्कितम् ॥ २८ ॥ इदर्मथतो जम्बूद्वीपप्रज्ञप्तिवृत्तौ । चरज्योतिश्चक्रगता, अपि प्रोक्ता ध्रुवा स्थिराः । तत्पार्श्ववर्तिनस्तारास्तानेवानुभ्रमन्ति च ॥ २९ ॥ ज्योतिश्चक्रे चरन्त्यस्मिन्, ज्योतिष्काः पञ्चधा सुराः । विमानैः स्वैश्चन्द्रसूर्यग्रहनक्षत्रतारकाः ॥ ३० ॥ पञ्चानामप्यथैतेषां विमानान्यनुकुर्वते । संस्थानेन कपित्थस्य फलमुत्तानमर्द्धितम् ॥ ३१ ॥ ननु ज्योतिर्विमानानि, कपित्थार्द्धाकृतीनि चेत् । सूर्यचन्द्रविमानानां, स्थूलानामपि तादृशाम् ॥ ३२ ॥ बाढमस्तु दूरतया, मस्तकोपरिवर्त्तिनाम् । वर्त्तुलत्वप्रतिभासोऽधोवर्त्तिषु जनेष्वयम् ॥ ३३॥ यत्कपित्थफलार्द्धस्याप्यूर्ध्वं दूरं कृतस्थिते: । परभागादर्शनतो, वर्त्तुलत्वमवेक्ष्यते ॥ ३४ ॥ किन्तूदयास्तसमये, तिर्यक् चङ्क्रमणे कथम् । न तथा तानि दृश्यन्ते, तिर्यक्क्षेत्रस्थितान्यपि १ ॥ ३५ ॥ अत्रोच्यते सामस्त्येन कपित्थार्द्धफलाकाराण्यमूनि न । किन्त्वमीषां विमानानां, पीठानि तादृशान्यथ ॥ ३६ ॥ प्रासादाश्चैतदुपरि तथा कथञ्चन स्थिताः । यथा पीठैः सहाकारो, भूम्ना वर्तुलतां श्रयेत् ॥ ३७ ॥ एकान्ततः समवृत्ततया तु दूरभावतः । चन्द्रादिमण्डलाकारो, जनानां प्रतिभासते ॥ ३८ ॥ तथाहुः विशेषणवतीकाराः— “अद्धकविट्ठागारा, उदयत्थमणम्मि कहं न दीसंति । ससिसूराण विमाणाई, तिरियखेत्तट्टियाई च ॥ उत्ताणद्धक विट्ठागारं पीढं तदुवरि पासाओ । वट्टालेखेण तओ, समवट्टं दूरभावाओ” ॥ विशेषश्चात्र प्रज्ञापनासूत्रे – “जे य गहा जोइसम्मि चारं चरंति केऊ अगतिरतिया अट्ठावीस तिविहा णक्खत्तदेवगणा (ते) णाणासंठाणसंठिया य, ” - जीवाभिगमवृत्तावपि - तथा ये ग्रहा ज्योतिश्चक्रे चारं चरन्ति केतवो ये च बाह्यद्वीपसमुद्रेष्वगतिरतिका ये चाष्टाविंशतिदेवनक्षत्रगणास्ते सर्वेऽपि नानाविधसंस्थानसंस्थिताः, चशब्दात्तप्ततपनीयवर्णाश्च ॥ एकस्य योजनस्यांशानेकषष्टिसमुद्भवान् । षट्पञ्चाशतमिन्दोः स्याद्विमानं विस्तृतायतम् ॥ ३९ ॥ अंशानेतादृशानष्टाविशतिं तत् समुच्छ्रितम् । सर्वे ज्योतिर्विमाना हि, निजव्यासार्द्धमुच्छ्रिताः ॥ ४० ॥ अष्टचत्वारिंशतं प्रागुक्तांशान् विस्तृतायतम् । विवस्वन्मण्डलं भागाँश्चतुर्विंशतिमुच्छ्रितम् ॥ ४१ ॥ विशेषतस्तु - चतुर्दश शतान्यष्टषष्टिः क्रोशास्तथोपरि । धनुःशताः सप्तदश, चतुर्युक्ताः कस्त्रयम् ॥ ४२ ॥ अङ्गुलाः पञ्चदश च, चत्वारः साधिका यवाः । ततायतं चन्द्रबिम्बमुत्सेधाङ्गुलमानतः ॥ ४३ ॥ शतानि द्वादशैकोनषष्टिः क्रोशास्तथोपरि । चापा द्वात्रिंशस्त्रिहस्ती, त्रयोऽङ्गुलाश्च साधिकाः ॥ ४४ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy