________________
371
नवत्या च योजनैस्तत्तारावृन्दादधस्तनात् । विंशत्या योजनैश्चन्द्रात्तारावृन्दं तथोर्ध्वगम् ॥ १३॥ नवभिोजनशतैः, समक्षितेरधस्तनात् । तारावृन्दाद्दशोपेतशतेन च भवेदिदम् ॥ १४ ॥ अत्र सङ्ग्रहणीवृत्त्यादावयं विशेष:चत्वारि योजनानीन्दोर्गत्वा नक्षत्रमण्डलम् । चतुर्भिर्योजनैस्तस्माद्बुधानां पटलं स्थितम् ॥ १५ ॥ त्रिभिश्च योजनैः शुक्रमण्डलं बुधमण्डलात् । योजनैस्त्रिभिरेतस्मात्, स्यावाचस्पतिमण्डलम् ॥ १६ ॥ गुरुणां पटलाद्भौममण्डलं योजनैस्त्रिभिः । त्रिभिश्च योजनैभीमात्, स्याच्छनैश्चरमण्डलम् ॥ १७ ॥ विंशत्या योजनैरेतत्, स्थितं शशाङ्कमण्डलात् । नवभिोजनशतैः, स्थितं च समभूतलात् ॥ १८ ॥ तथाऽऽह सङ्ग्रहणी- [गाथा - ५१] “ताररविचंदरिक्खा, बुहसुक्का जीवमंगलसणीया । सगसयनउअ दस असीइ, चउ चउ कमसो तिआ चउसु”॥
जम्बूद्धीपप्रज्ञप्तिवृत्तावपिशतानि सप्त गत्वोर्षं, योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥ १९ ॥ तारकापटलाद्गत्वा, योजनानि दशोपरि । सूराणां पटलं तस्मादशीतिं शीतरोचिषाम् ॥ २० ॥ चत्वारि तु ततो गत्वा, नक्षत्रपटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधानां पटलं भवेत् ॥ २१ ॥ शुक्राणां च गुरूणां च, भौमानां मन्दसंजिनाम् । त्रीणि त्रीणि च गत्वोर्षं, क्रमेण पटलं स्थितम्
॥ २२ ॥ इति ॥ गन्धहस्ती त्वाह- “सूर्याणामधस्तान्मङ्गलाचरन्ती"ति, हरिभद्रसूरिः पुनरधस्तेन भरण्यादिकं नक्षत्रमुपस्तिने च स्वात्यादिकमस्तीत्याह, तथा च तट्टीका-“सत्तहिं नउएहिं उप्पिं हेट्ठिल्लो होइ तलोत्ति, भरणिमाइ जोइसपयरो भवतीत्यर्थः, तथोपरितल: स्वात्युत्तरो ज्योतिषां प्रतर इति, 'तत्त्वं पुन: केवलिनो विदन्तीति सङ्ग्रहणीवृत्तौ,”
योगशास्त्रचतुर्थप्रकाशवृत्तावपि, अत्र सर्वोपरि किल स्वातिनक्षत्रं सर्वेषामधो भरणिनक्षत्रं
सर्वदक्षिणो मूल: सर्वोत्तरश्चाभीचिरित्युक्तमिति ज्ञेयम् । नक्षत्रपटले सर्वान्तरङ्गमभिजिद्भवेत् । यद्यप्यभिजिदादीनि, द्वादशान्तरमण्डले ॥२३॥ चरन्ति चारमृक्षाणि, मेरोदिशि तथाप्यदः । शेषैकादशनक्षत्रापेक्षयाऽन्तः प्रवर्त्तते ॥ २४ ॥ तद्धन्मूलं सर्वबाह्यं, यद्यप्यष्टममण्डले । बहिश्चराण्युडूनि स्यभृगशीर्षादिकानि षट् ॥ २५ ॥ तथाप्यपरबाह्यापेक्षयाऽम्भोनिधेर्दिशि । किञ्चिबहिस्ताच्चरति, ततस्तादृशमीरितिम् ॥२६॥ ज्योतिश्चक्रेदशोपेतशतयोजनमेदुरे । नक्षत्रपटलांशो यश्चतुर्योजनमेदुरः ॥२७॥ १ पूर्वं पटलशब्देन स्थितेरुक्तत्वाद् अत्र सूर्यचारापेक्षेणोक्तेन पाठेन तारकादीनां चारोऽनियत इति न विरोधः ।