________________
370
भूताभिधस्ततो दीपस्ततो भूतोदवारिधिः । स्वयंभूरमणद्वीपः, स्वयंभूरमणाम्बुधिः ॥ ३०२ ॥ अन्ते स्थित: सर्वगुरुः, क्रोडीकृत्याखिलानपि । पितामह इवोत्सङ्गक्रीडत्पुत्रपरम्परः ॥ ३०३ ॥
आसेवितोऽसौ जलधिर्जगत्या, वृद्धः पतिः सत्कुलभार्ययेव । वलीपिनद्धः पलितावदातस्तरङ्गलेखाब्धिकफच्छलेन ॥ ३०४ ॥ __ लोकं परीत्यायमलोकमाप्तुमिवोत्सुको लोलतरोमिचक्रैः । तस्थौ च रुद्धः प्रियया जगत्या, लोकस्थितिच्छेदकलङ्कभीतेः ॥ ३०५ ॥ तस्याः पुरस्त्वविलया वलया घनाब्धिमुख्या मिथ: समुदिता उदिता दिताधैः ।
ये रक्षयन्ति परितोऽलमलोकसङ्गाद्, रत्नप्रभां कुलवधूं स्थविरा इवोच्चैः ॥ ३०६ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोतनिष्ट विनयो श्री तेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्व प्रदीपोपमे-सर्ग: पूर्तिमियाय संप्रति चतुर्विंशो निसर्गाज्ज्वलः ॥ ३०७ ॥
इति श्रीलोकप्रकाशे चतुर्विंशतितमः सर्गः ।
अथ लोकप्रकाशे पञ्चविंशः सर्गः । अथैतस्मिन्नेव तिर्यग्लोके सदा प्रतिष्ठितम् । वक्ष्ये चराचरं ज्योतिश्चक्रं गुरुपदेशतः ॥१॥ मेरुमध्याष्टप्रदेशस्वरूपात् समभूतलात् । सप्तोत्पत्य योजनानां, शतानि नवतिं तथा ॥२॥ ज्योतिश्चक्रोपक्रमः स्यादतीत्योर्ध्वं ततः परम् । दशाढ्यं योजनशतमेति सम्पूर्णतामिदम् ॥३॥ एकादशैकविंशानि, योजनानां शतान्यथ । ज्योतिश्चक्रं भ्रमत्यर्वाक, चक्रवालेन मेरुतः ॥ ४ ॥ तिष्ठत्यलोकतश्चार्वाग्, ज्योतिश्चक्रं स्थिरात्मकम् । एकादशैोजनानां, नन्वेकादशभिः शतैः ॥५॥ एवं तत् सर्वतो मेरोन्यूनार्द्धरज्जुविस्तृतम् । दशाढ्यं योजनशतं, स्यात् सर्वत्रापि मेदुरम् ॥६॥ अन्यान्यकाष्ठाश्रयणादावृत्ताभिर्निरन्तरम् । घटिकाभिर्हरन्तीभिर्जनजीवातुजीवनम् ॥७॥ लब्धात्मलाभां दिवसनिशामालां सुबिभ्रतम् । कुर्वन्तं फलनिष्पत्ति, विष्वक् क्षेत्रानुसारिणीम् ॥ ८॥ नानारकस्थितियुतं, नरक्षेत्रोरुकूपके । कालारधट्टे भ्रमयन्त्यर्कचन्द्रादिधूर्वहाः ॥ ९ ॥ ज्योतिश्चक्रस्यास्य तारापटलं स्यादधस्तनम् । योजनानां सप्तशत्या, सनवत्या समक्षितेः ॥ १० ॥ योजनैर्दशभिस्तस्मादूर्ध्वं स्यात्सूरमण्डलम् । अष्टभिर्योजनशतैरेतच्च समभूतलात् ॥ ११ ॥ अशीत्या योजनैः सूरमण्डलाच्चन्द्रमण्डलम् । अष्टशत्या योजनानां, साशीत्येदं समक्षितेः ॥ १२ ॥