SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ 369 नामानि, अत ऊर्ध्वं तु शङ्खादिनामानि यथा कथञ्चित्, परं तान्यपि त्रिप्रत्यवताराणी” त्यादि, जम्बूदीपप्रज्ञप्तिवृत्तौ तु एकेनादेशेन एकादशे द्वितीयादेशेन त्रयोदशे तृतीयादेशेन एकविंशे रुचकरीपे इत्युक्तमिति ज्ञेयं, - जीवसमासवृत्तौ तु ईक्षुरससमुद्रादनन्तरं नन्दीश्वरो द्वीप: ८ अरुणवर: ९ अरुणवास: १० कुण्डलवर: ११ शंखवर: १२ रुचकवर: १३ इति, अनुयोगद्धारचूर्ण्यभिप्रायेणत्रयोदशो रुचकवरः, अनुयोगदारसूत्रे त्वरुणवासशङ्खवरद्वीपौ लिखितौ न दृश्येते, अतस्तदभिप्रायेणैकादशो रुचकवरः, 'परमार्थं तु योगिनो विदन्तीति । तथा जीवसमासवृत्त्यभिप्रायेण जम्बूद्धीपादयो रुचकवरपर्यन्ता दीपसमुद्रा नैरन्तर्येणावस्थिता नामतः प्रतिपादिताः, अत ऊर्ध्वं तु भुजंगवरकुशवरक्रौंचवरा असङ्ख्येयतमा असङ्ख्येयतमा इति ध्येयं ।। द्वीपस्यास्य बहुमध्ये, वर्तते वलयाकृतिः । पर्वतो रुचकाभिख्यः, स्फारो हार इवोल्लसन् ॥ २८९ ॥ योजनानां सहस्राणि, चतुरशीतिमुच्छ्रितः । मूले दश सहस्राणि, द्वाविंशानि स विस्तृतः ॥ २९० ॥ मध्ये सप्त सहस्राणि, त्रयोविंशानि विस्तृत: । चतुर्विशांश्च चतुरः, सहस्रान् मूर्जि विस्तृतः ॥ २९१ ॥ एवं महापर्वताः स्युः, कुण्डलाकृतयस्त्रयः । मोत्तर: कुण्डलच, तथाऽयं रुचकाचल: ॥ २९२ ।। ___ तथोक्तं स्थानाङ्गे- “ततो मंडलियपवता पं० तं० माणुसुत्तरे कुण्डलवरे रुअगवरे” तुर्ये सहस्रे मूय॑स्य, मध्ये चतसृणां दिशाम् । अस्ति प्रत्येकमेकैकं, सुन्दरं सिद्धमन्दिरम् ॥ २९३ ॥ तानि चत्वारि चैत्यानि, नन्दीश्वराद्रिचैत्यवत् । स्वरूपतश्चतसृणां, तिलकानीव दिक्श्रियाम् ॥ २९४ ॥ चैत्यस्य तस्यैकैकस्य, प्रत्येकं पार्श्वयोर्द्धयोः । सन्ति चत्वारि चत्वारि, कूटान्यभ्रषाणि वै ॥ २९५ ॥ विदिक्षु तस्यैव मूर्जि, स्याच्चतुर्थे सहस्रके । एकैकं कूटमुत्तुङ्गमभङ्गरश्रियाऽञ्चितम् ॥ २९६ ॥ षट्त्रिंशत्येषु कूटेषु, तावत्यो दिकुमारिकाः । वसंति ताश्चतस्रस्तु, द्वीपस्याभ्यन्तरार्द्धके ॥ २९७ ॥ ___ तथोक्तं षष्ठाङ्गे मल्लयध्ययनवृत्तौ-“मझिमरुअगवत्थब्बा इत्यत्र रुचकदीपस्याभ्यन्तरार्द्धवासिन्य” इति, एवमावश्यकवृत्त्यादिष्वपि, जम्बूदीपप्रज्ञप्तिवृत्तौ तु चतुर्विंशत्यधिकचतुःसहस्रप्रमाणे रुचकगिरिविस्तारे द्वितीयसहने चतुर्दिग्वतिषु कूटेषु पूर्वादिदिक्क्रमेण चतस्रो वसन्ती” 'त्युक्तमिति ज्ञेयं, अयं च रुचकरीपो रुचकाब्धिपरिष्कृतः । द्वीपोऽग्रे रुचकवरस्तादृक्पाथोधिसंयुतः ॥ २९८ ।। ततोऽग्रे रुचकवरावाभासद्धीप इष्यते । परिष्कृतोऽसौ रुचकवरावभासवार्धिना ॥ २९९ ॥ एवमब्धि: सूर्यवरावभासोऽन्ते ततः परम् । देवदीपः स्थितो देववाद्धिश्चावेष्ट्य तं स्थितः ॥ ३०० ॥ नागदीपस्तमभितो, नागाब्धिश्च ततः परम् । यक्षद्वीपस्तदने च, यक्षोदवारिधिस्ततः ॥ ३०१ ॥ १ श्रीमद्भिरभयदेवसूरिभिः त्रिप्रत्यव्रतारताया अविवक्षा यथा सूचिता कुण्डलस्थाने तथाऽत्र ग्रहणे न विरोध: कोऽपि, अनुयोगसूत्रे तु गाथाबन्धानुलोम्येन “परमाणु” इति गाथायां उच्छ्लक्ष्णश्लक्षिणकादीनामिवाग्रहणं, द्वादशता तु न कथञ्चनाऽपि । २ बहिर्वर्तिनीनां चतुर्थे सहस्त्रे अभ्यन्तरवासिनीनां तु द्वितीये सहसऽवस्थानं स्यात् तदा न विरोधः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy