SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 368 इति क्रमापेक्षयैकादशे कुण्डलदीपे” इत्युक्तं, एवं भगवतीशतकचतुर्थीद्देशकवृत्तावप्ययमेकादशोऽभिहित इति, तत्त्वं बहुश्रुता विदन्ति ॥ अस्मिंश्च कुण्डलगिरिर्मानुषोत्तरवस्थितः । योजनानां द्विचत्वारिंशतं तुङ्गः सहस्रकान् ॥ २७१ ॥ सहस्रमेकं भूमग्नो, मूले मध्ये तथोपरि । विस्तीर्णोऽयं भवेच्छैलो, मानुषोत्तरशैलवत् ॥ २७२ ॥ चतुर्दिशं चतुर्दाराश्चत्वारोऽत्र जिनालयाः । चतुर्गतिभवारण्यभ्रान्ताङ्गिविश्रमा इव ॥ २७३ ॥ सर्वमेषां स्वरूपं तु, नन्दीश्वराद्रिचैत्यवत् । पार्श्वेऽथाभ्यन्तरेऽस्याद्रेर्दक्षिणोत्तरयोर्दिशोः ॥ २७४ ॥ चत्वारश्चत्वार एव, प्रत्येकं सन्ति भूधराः । सोमयमवैश्रमणवरुणप्रभसंज्ञकाः ॥ २७५ ॥ अष्टाप्येते रतिकरपर्वताकृतयो मताः । उद्धेधोच्चत्वविष्कम्भैरुद्दामरामणीयकाः ॥ २७६ ॥ एकैकस्याथ तस्याद्रे, राजधान्यश्चतुर्दिशम् । जम्बूद्वीप इव द्वात्रिंशदेता विस्तृतायता: ॥ २७७ ॥ सोमा सोमप्रभा शिवप्राकारा नलिनापि च । राजधान्यो गिरेः सोमप्रभात्प्राच्यादिषु स्थिताः ॥ २७८ ॥ विशालाऽतिविशाला च, शय्याप्रभा तथाऽमृता । यमप्रभगिरेरेता, राजधान्यश्चतुर्दिशम् ॥ २७९ ॥ भवत्यचलनद्धाख्या, समक्वसा कुबेरिका । धनप्रभा वैश्रमणप्रभशैलाच्चतुर्दिशम् ॥ २८० ॥ वरुणप्रभशैलाच्च, वरुणा वरुणप्रभा । पुर्यपाच्यादिषु दिक्षु, कुमुदा पुण्डरीकिणी ॥ २८१ ॥ दक्षिणस्यां च या एता, नगर्यः षोडशोदिताः । चतुर्णा लोकपालानां, ता: सौधर्मेन्द्रसेविनाम् ॥ २८२ ॥ उत्तरस्यां पुनरिमा, या: षोडश निरूपिताः । चतुर्णा लोकपालानां, ता: ईशानेन्द्रसेविनाम् ॥ २८३ ॥ ___ तथोक्तं द्वीपसागरप्रज्ञप्तिसंग्रहण्यां- “कुंडलनगस्स अब्भंतरपासे हुंति रायहाणीओ । सोलस दक्विणपासे सोलस पुण उत्तरे पासे” ॥ इत्यादि भगवतीतृतीयशताष्टमोद्देशकवृत्तौ । एवं च परितो भाति, कुण्डलोदः पयोनिधिः । तं कुण्डलवरो द्वीपः, परिक्षिप्याभित: स्थितः ॥ २८४ ॥ स्यात्कुण्डलवरोदाब्धिस्ततो द्वीपः स्थितोऽभितः । कुण्डलवरावभासस्तन्नामाग्रे पयोनिधिः ॥ २८५ ॥ अग्रे शङ्खाभिधो द्वीपः, शङ्खवाद्धिपरिष्कृतः । ततः शङ्खवरो द्वीपस्ततः शङ्खवरोऽम्बुधिः ॥ २८६ ॥ द्वीपस्ततः शङ्खवरावभास इति विश्रुतः । स विष्वगञ्चितः शङ्खवरावभासवार्धिना ॥ २८७ ॥ ततोऽग्रे रुचकद्धीप, एष चाष्टादशो भवेत् । त्रिप्रत्यवतारमतेऽन्यथा दीपस्त्रयोदशः ॥ २८८ ॥ अरुणादीनां द्वीपसमुद्राणां त्रिप्रत्यवतारश्च जीवाभिगमसूत्रवृत्त्यादौ सविस्तरं स्पष्ट एव, जीवाभिगमचूर्णावपि- 'अरुणादीया दीवसमुद्दा तिपडोयारा यावत्सूर्यवरावभास' इत्युक्तमिति ज्ञेयं, संग्रहणीलघुवृत्त्यभिप्रायेण त्वयं रुचकद्धीपोऽनिश्चितसंख्याकोऽपि, जंबूधायइ पुक्रेत्यादि संग्रहणीगाथायां 'रुणवायत्ति' पदेनारुणादीनां त्रिप्रत्यवतारस्य सूचितत्वात्, कुंडलवरावभासात्परं संख्याक्रमेणानभिधानाच्च, तथा च तद्ग्रन्थ:-"एतानि च जम्बूद्धीपादारभ्य क्रमेण दीपानां
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy