________________
367
चाथ, रत्ना रत्नोच्चयापि च ॥ सर्वरत्ना रत्नसंचया वसुर्वसुमित्रिका । वसुभागापि च वसुन्धरानन्दोत्तरे अपि ॥ नन्दोत्तरकुरुर्देवकुरुः कृष्णा ततोऽपि च । कृष्णराजीरामारामरक्षिताः
प्राक्क्रमादमूः ॥ षोडशैवं राजधानीचैत्यानि प्राक्तने मते । 'मतान्तरे पुनःत्रिंशदेतानीति निर्णय: ॥२५४ ॥
__ तथाह नन्दीश्वरस्तोत्रकार:- इअ वीसं बावन्नं च जिणहरे गिरिसिहरेसु संथुणिमो । इंदाणिरायहाणिसु बत्तीसं सोलस व वंदे" ॥ एतत्सर्वमप्यर्थतो नन्दीश्वरस्तोत्रं सर्वं सूत्रतोऽपि
योगशास्त्रवृत्तावप्यस्ति । दीपोत्सवामावास्याया, आरभ्य प्रत्यमादिनम् । अपोषणं वितन्वाना, वर्षं यावन्निरन्तरम् ॥ २५५ ॥ भक्त्या श्रीजिनचैत्यानां, कुर्वन्तो वन्दनार्चनम् । नन्दीश्वरस्तुतिस्तोत्रपाठपावितमानसाः ॥ २५६ ॥ भव्या नन्दीश्वरद्धीपमेवमाराधयन्ति ये । तेर्जयन्त्यार्जवोपेताः, श्रेयसी श्रायसी श्रियम् ॥ २५७ ॥ इत्थं व्यावर्णितरूपं, दीपं नन्दीश्वराभिधम् । तिष्ठत्यावेष्ट्य परितो, नन्दीश्वरोदवारिधिः ॥ २५८ ॥ सुमनःसुमनोभद्रौ, सुरौ समृद्धिमत्तया । नन्दीश्वरौ तत्संबंधि, जलमस्येत्यसौ तथा ॥ २५९ ॥ लग्नं नन्दीश्वरे दीपे, जलं वाऽस्येत्यसौ तथा । असौ नन्दीश्वरद्धीपादादिदिगुणविस्तृतः ॥ २६० ॥ एनमावेष्ट्य परितः, स्थितो दीपोऽरुणाभिधः । नंदीश्वराब्धेर्द्धिगुणविष्कम्भोऽसौ निरूपितः ॥ २६१ ॥ असौ निजाधीश्वरयोरशोकवीतशोकयोः । सुरयोः प्रभया रक्तकान्तित्वादरुणाभिधः ॥ २६२ ॥ यद्वैतत्पर्वतादीनां, सद्धरत्नजन्मनाम् । प्रसरद्भिः प्रभाजालैररुणत्वात्तथाभिधः ॥ २६३ ।। अरुणोदाभिधो वाद्धिरेनमावृत्य तिष्ठति । विस्तारतोऽरुणदीपद्धिगुण: परतोऽप्यसौ ॥ २६४ ॥ सुभद्रसुमनोभद्राभिधयोरेतदीशयोः । भूषणाभाभिररुणं, जलं यस्येत्यसौ तथा ॥ २६५ ॥ यद्वाऽरुणदीपपरिक्षेप्यमुष्योदकं स्फुरत् । ततोऽरुणोदाभिधानः, प्रसिद्धोऽयं पयोनिधिः ॥२६६ ॥ एवमन्येष्वपि ज्ञेया, निःशेषद्धीपवार्धिषु । व्यासद्वैगुण्यनामाथी, स्वामिनश्च स्वयं श्रुतात् ॥ २६७ ॥ ततोऽरुणवरो द्वीपस्तमप्याश्रित्य तिष्ठति । पारावारोऽरुणवरो, महाभोगीव सेवधिम् ॥ २६८ ॥ एनं दीपोऽरुणवरावभासः परिषेवते । आलिङ्गत्यरुमवरावभासस्तं च वारिधिः ॥ २६९ ॥ ततश्च कुण्डलदीपो, मेदिन्या इव कुण्डलम् । अयं त्रिप्रत्यवतारापेक्षया द्वादशो भवेत् ॥ २७० ॥
स्थानाङ्गतृतीयस्थानवृत्तौ च अरुणादीनां त्रिप्रत्यवतारमनाश्रित्यायमेकादशोऽभिहितः, तथाहि
“जंबूदीवो १ धायइ २ पुक्खरदीवो ३ अ वारुणिवरो ४ य । खीखरोवि य दीवो ५ घयवरदीवो य ६ खोदवरो ७ ॥ नंदीसरो अ ८ अरुणो ९ अरुणोवाओ य १० कुंडलवरो य ११ ॥
तह संख १२ रुअग १३ भुअवर १४ कुस १५ कुंचवरो य तो १६ दीवो ॥" १ बयोवैमानिकेन्द्रयोः षोडशेन्द्राण्य:ज्योतिष्कव्यन्तरेन्द्राण्योऽपि तावत्य इत्येकैकपक्षोभयपक्षयोश्च विवक्षायां न विरोधः ।