SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ 365 मईयद्भिश्चन्दनेन, कैश्चित्कर्पूरकुङ्कमे । मोहप्रतापयशसी, चूर्णयद्भिरिवोजिते ॥ २१७ ॥ कैश्चिद् घुसृणनिर्यासोल्लासिकच्चोलकच्छलात् । हृद्यमान्तं भक्तिरागं, दधद्भिः प्रकटं बहिः ॥ २१८ ॥ कैश्चिन्नानावर्णपुष्पोद्दामदामौघदम्भतः । श्रयद्भिरद्भुतश्रेयः, श्रेणीमिव करे कृताम् ॥ २१९ ॥ वन्दमानैः पर्युपासमानैः पूजापरायणैः । प्रासादास्तेऽभितो भान्ति, सुरासुरनभश्चरैः ॥ २२० ॥ अर्हत्कल्याणकमहचिकीर्षयाऽऽगता: सुराः । इह विश्रम्य संक्षिप्तयाना यान्ति यथेप्सितम् ॥ २२१ ॥ तत: प्रत्यावर्त्तमानाः, कृतकृत्या इहागता: । रचयन्त्यष्ट दिवसान्, यावदुत्सवमुच्चकैः ॥ २२२ ॥ प्रतिवर्ष पर्युषणाचतुर्मासकपर्वसु । इहाष्टौ दिवसान् यावदुत्सवं कुर्वते सुराः ॥ २२३ ॥ तथोक्तं जीवाभिगमसूत्रे-“तत्थणं बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा चउमासियापाडिवएसु संवच्छरिएसु वा अण्णेसु बहुसु जिणजम्मणणिक्खमणणाणुप्पत्तिपरिणिबाणमादिएसु देवकज्जेसु य यावत् अठ्ठाहितारुवाओ महामहिमाओ कारेमाणा पालेमाणा सुहंसुहेणं विहरंति” । तत्रापि नियतस्वस्वस्थानेषु सुरनायकाः । उत्सवान्सपरीवाराः, कुर्वन्ति भक्तिभासुराः ॥ २२४ ॥ तथाह नन्दीश्वरकल्प:- “प्राच्येऽजनगिरौ शक्रः, कुरुतेऽष्टाहिकोत्सवम् । प्रतिमानां शाश्वतीनां, चतुद्धारि जिनालये ॥ तस्य चाद्रेश्चतुर्दिकस्थमहावापीविवर्तिषु । स्फाटिकेषु दधिमुखपर्वतेषु चतुर्वपि ॥ चैत्येष्वर्हत्प्रतिमानां, शाश्वतीनां यथाविधि । चत्वारः शक्रदिक्पाला:, कुर्वतेऽष्टाहिकोत्सवम् ॥ ईशानेन्द्रस्त्वौत्तराहेऽञ्जनाद्रौ विदधाति तम् । तल्लोकपालास्तद्धापीदध्यायद्रिषु कुर्वते ॥ चमरेन्द्रो दाक्षिणात्याञ्जनाद्रावुत्सवं सृजेत् । तदाप्यन्तर्दधिमुख्नेष्वस्य दिक्पतयः पुनः ॥ पश्चिमेऽजनशैले तु, बलीन्द्रः कुरुते महम् । तद्दिक्पालास्तु तद्धाप्यन्तर्भाग्दधिमुखाद्रिषु” ॥ एतत्सर्वमर्थतो जम्बूदीपप्रज्ञप्तिसूत्रेऽपि । तत्र गायन्ति गन्धर्वा, मधुरैर्नादविभ्रमैः । समानतालविविधातोद्यनिर्धाषबन्धुरैः ॥ २२५ ॥ मृदङ्गवेणुवीणादितूर्याणि संगतैः स्वरैः । कौशलं दर्शयन्तीव, तस्यां विबुधपर्षदि ॥ २२६ ॥ नृत्यद्देवनर्तकीनां, रणन्तो मणिनूपुराः । वदन्तीव निर्दयांहिपातैर्मृदंहिपीडनम् ॥ २२७ ॥ तासां तिर्यग् भ्रमन्तीनामुच्छलन्त: स्तनोपरि । मुक्ताहारा रसावेशाद् नृत्यन्तीवाप्यचेतना: ॥ २२८ ॥ धिद्धिधिद्धिधिमिधिमिथेईथेईतिनिस्वना: । तासां मुखोद्गताश्चेतः, सुखयन्ति सुधाभुजाम् ॥ २२९ ॥ पूर्वं हासाप्रहासाभ्यां स्वर्णकृत् स्वपतीकृत: । कृत्रिमैर्विभ्रमैर्विप्रलोभ्य य: स्त्रीषु लम्पटः ॥ २३० ॥ सोऽत्र कण्ठान्निराकुर्वन्निपतन्तं बलागले । मृदङ्गं भगुरग्रीवो, विलक्षोऽहासयत्सुरान् ॥ २३१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy