SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 360 दीपसागरप्रज्ञप्तिसंग्रहण्यां तूक्तं- “नव चेव सहस्साई, चत्तारि य होति जोअणसयाई अंजणगपबयाणं, धरणियले होइ विक्खंभो ॥” इति । तदिदं मतान्तरमित्यवसेयं, एवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति । यस्मिन्मते सहस्राणि, भूतले दश विस्तृताः । वृद्धिक्षयौ मते तस्मिन्, योजनं योजनं प्रति ॥ १२३ ॥ अष्टाविंशांशत्रितयमुपर्यारोहणे क्षयः । तावत्येवोपरितलावृद्धिः स्यादवरोहणे ॥१२४ ॥ भावना त्वेवंमहीतलगतव्यासात्, सहस्रदशकात्मकात् । सहस्राण्यपचीयन्ते, नवोपरितलावधि ॥ १२५ ॥ ततो नव सहस्राणि, भाज्यानि नाप्यते परम् । सहश्चतुरशीत्या, भागो भाज्यस्य लाघवात् ॥ १२६ ॥ ततश्चभाज्यभाजकयो राश्योः, कृते शून्यापवर्त्तने । भाज्यो नवात्मा चतुरशीत्यात्मा स्याच्च भाजकः ॥ १२७ ॥ उभावप्यपवर्त्यते, ततोऽशच्छेदको त्रिभिः । योजनांशत्रयं लब्धमष्टाविंशतिजं ततः ॥ १२८ ॥ यदाअष्टाविंशतिगुणितो, भाज्यो राशिलवात्मको भवति । द्धे लक्षे द्रापञ्चाशता सहनैर्युते तेऽशाः ॥ १२९ ॥ तेषां सहनैश्चतुरशीत्या भागे हृते सति । लब्धं विभागत्रितयमष्टाविंशतिसंभवम् ॥ १३० ॥ चतुःशताधिकनवसहस्रयोजनात्मकात् । मतान्तरे स्थुलव्यासात्सहस्रोरुशिरोऽवधि ॥ १३१ ॥ मध्ये शतानि चतुरशीतिः क्षीयन्त इत्यतः । भज्यन्ते तानि चतुरशीत्या किल सहस्रकैः ॥ १३२ ॥ भागाप्राप्त्या च चतुरशीत्या शतैस्तयोर्द्धयोः । कृतेऽपवर्त्तने लभ्यो, योजनांशो दशोद्भवः ॥ १३३ ॥ यद्धा प्राग्वद्भाज्यराशिर्दशन: स्याल्लवात्मकः । सहस्राश्चतुरशीतिस्तेषां भागे च लभ्यते ॥ १३४ ॥ दशमो योजनस्यांशो, भाज्यभाजक साम्यत: । क्षयवृद्धौ मानमेतत्, स्यादारोहवरोहयोः ॥ १३५ ॥ एकत्रिंशत्सहस्राणि, योजनानां शतानि षट् । त्रयोविंशानि परिधिर्भवत्येषां महीतले ॥ १३६ ॥ योजनानां सहस्राणि, त्रीणि द्वाषष्टियुक् शतम् । साधिकं मूर्जि परिधिः, प्रज्ञप्तः परमर्षिभिः ॥ १३७ ॥ अथैषामञ्जनाद्रीणां, प्रत्येकं च चतुर्दिशं । गते लक्षे योजनानां, लक्षमायतविस्तृताः ॥ १३८ ॥ पुष्करिण्यवतमः स्युरुद्भिद्धा दशयोजनीम् । निर्मत्स्यस्वच्छसलिलोल्लसत्कल्लोलवेल्लिताः ॥ १३९ ॥ जीवाभिगमसूत्रवृत्तौ प्रवचनसारोद्धारवृत्तौ च एता दशयोजनोद्विद्धा उक्ताः, नन्दीश्वरस्तोत्रे नन्दीश्वरकल्पे च सहस्रयोजनोद्धिद्धा उक्ताः, स्थानाङ्गसूत्रेऽपि–'ताओ णं णंदाओ पुखरणीओ एगं जोअणसयसहस्सं आयामेणं पन्नासं जोअणसहस्साई विक्खंभेण दस जोअणसयाई उब्बेहेणं' इत्युक्तमिति ज्ञेयं । १. आयामविष्कम्भावपेक्ष्य पुष्करिणीनां दशशतोदेधयोग्यतेति अध्याहार्यो दशशब्दात् शतशब्दः, ततो न विरोध: केषामपि ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy